Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S04/A049

From Grantha
Revision as of 10:10, 2 March 2026 by Chandrashekars (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

चक्षुराद्यधिकरणम्

‘प्राणादिदमाविरासीत् प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रितः’ इत्याग्निवेश्यश्रुतौ ।


ॐ चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ 11-282 ॥


चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव ।


‘सर्वं ह्येवैतत् परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च स ह्येक एवैतान्नयत्युन्नयति वशीकरोति’


इति गौपवनश्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ।


‘सर्वकर्ताऽपि सन् प्राणः परमाधारतः स्थितः । कथमेवान्यथा न स्याद्यतो नैवेश्वरद्वयम् ।


अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् । अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः ।


अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् । यतो विशेषवाक्येन ह्रियते समतावचः’ ।


‘नान्योऽतोऽस्तिद्रष्टा’’नान्यदतोऽस्ति द्रष्टृ’ इत्यादिवचनयुक्तय आदिशब्दोक्ताः ॥ 11 ॥


ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ 12-283 ॥


इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वात् तस्यानेभ्य उत्तमत्वं युज्यते ।


माण्डव्यश्रुतिश्च ‘तानि ह वा एतानि सर्वाणि करणान्यथ प्राण एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इत्याचक्षते’ इति ॥ 12 ॥