Bhagavatatatparyanirnaya/C10/S43
Appearance
त्रिचत्वारिंशोऽध्यायः
श्रीशुक उवाच– पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १ ॥
उवाच पितरावेत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ २ ॥॥
नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि ।बाल्यपौगण्डकैशोराः पुत्राभ्यामगमन् क्वचित् ॥ ३ ॥
न लब्धो दैवहतयोर्वासो नौ भवदन्तिके ।ये बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४ ॥(भा.मू
सर्वार्थसम्भवो देहो जनितः पोषितो यतः ।न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥ ५ ॥
यस्तयोरात्मजः कल्प आत्मना च धनेन च ।वृत्तिं न दद्यात् तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६ ॥
मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् ।गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृतः ॥ ७ ॥
तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः ।मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥ ८ ॥
तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः ।अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदोर्भृशम् ॥ ९ ॥
मयि भृत्य उपासीने भवतो विबुधादयः ।बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥ १४ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रिचत्वारिंशोऽध्यायः ॥
'सर्वोत्तमोऽपि भगवान् गुणाभावं जनार्दनः ।दर्शयेद्वसुदेवादेरात्मनो जीवतामपि ॥अज्ञाशक्त्यादिभावस्तु कुतस्तस्याखिलेशितुः ।कुतो दोषा सर्वगुणपूर्णस्यानन्दवारिधेः॥ इति वामने ॥१-९,१४॥