Bhagavatatatparyanirnaya/C12/S5
Appearance
पञ्चमोऽध्यायः
इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः ।बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥ २२ ॥
तं पतन्तं विमानेन सहतक्षकमम्बरात् ।विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ २३ ॥
'स्वसन्तानोद्भवं कीर्त्या योजयन् जनमेजयम् ।शक्तोऽप्यशक्तवद्यष्टुरिन्द्र आसीदुपेक्षकः ।एवमेव ऋषीणां च कीर्तिं योजयताऽमुना ॥कृतोपेक्षा महेन्द्रेण किमु विष्णुः परात्परः ।तस्माद्विष्णोरशक्यं न भूतभव्यभवत्स्वपि ॥न चानिष्टं गुणैरेष पूर्णो नारायणः सदा॥ इति वामने ॥ २२-२३ ॥
नित्यादोषस्वरूपाय गुणपूर्णाय सर्वदा ।नारायणाय हरये नमः प्रेष्ठतमाय मे ॥