Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A029

From Grantha
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

पृथिव्यधिकरणम्

‘ता आप ऐक्षन्त बह्व्यः स्यामः प्रजायेमेहीति । ता अन्नमसृजन्त’ इत्यद्ब्द्योऽन्नसृष्टिः श्रूयते ।‘अद्ब्यः पृथिवी’ इति कुत्रचित् पृथिवीसृष्टिः । अतो विरुद्धत्वादप्रामाण्यमित्यतो वक्तिः –


ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ॥ 12-230 ॥


पृथिवी तत्रान्नशब्देनोच्यते । भूताधिकारत्वात् । कार्ष्ण्यप्रचुरा च पृथिवी । नान्नस्य तथा विशेषः । ‘आपश्च पृथिवी चान्नम्’। ‘पृथिवी वा अन्नम्’ । ‘ता आपोऽन्नमसृजन्त पृथिवी वा अन्नम्’ इत्यादिशब्दान्तराच्च । आदिशब्दाद्युक्तिः अपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादि । कौर्मे च –


‘विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदेष्यते । यथा विरुद्धता न स्यात् तथाऽर्थः कल्प्य एतयोः’ इति ।


रक्तोऽग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वतः । नाभिपद्माभिसम्बन्धात् पीता सेत्यभिधीयते ।


क्षत्ररक्ताभिसम्बन्धाद्रक्तोदकबहुत्वतः । शुक्लत्वेमेत्येवमेव वर्णान्तरगतिर्भवेत् ॥