Jump to content

Bhagavatatatparyanirnaya/C11/S12

From Grantha
Revision as of 05:35, 8 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

द्वादशोऽध्यायः

श्रीभगवानुवाच– न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्ते न दक्षिणाः ॥ १ ॥


व््रातानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमाः ।यथाऽवरुन्धेन्मत्सङ्गः सर्वदुःखापहो हि माम् ॥ २ ॥


'सङ्गस्तु गुणसम्प्रीतिर्गुणवत्त्वेऽतिनिश्चयात् ।स चेद्धरौ भवेत्तेन मुच्यते नात्र संशयः ॥अपरोक्षदृशेर्हेतुर्भवेत्स स्याद्यदि क्षमः ।अन्यथा सुखभागेन यद्दृशिर्मोक्षकारणम्॥ इति दर्शने ॥ १-२ ॥
मत्सङ्गेन तु दैतेया यातुधाना मृगाः खगाः ।गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ ३ ॥


विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ ॥ ४ ॥


'ज्ञात्वाऽपि हरिविद्वेषी तमो याति न संशयः ।विशेषरूपस्याज्ञोऽपि गुणवत्त्वेऽतिनिश्चितः ॥गुणसम्प्रीतिमान्नित्यं तं दृष्ट्वा मुक्तिमेष्यति ।अथवा सुखभागेव स्याद्यावद्दर्शनोपगः॥ इति व्यक्ते ॥'हरिसङ्गविहीनस्तु हरेर्दर्शनवानपि ।न मुच्यतेऽखिलज्ञोऽपि तमो याति च निश्चयात् ॥गुणैरन्यैर्विहीनोऽपि तद्भक्तेष्वपि च क्रमात् ।सङ्गवान्सुखभागेव स्याद्गुणैर्मुक्तिमेति वा ॥स्वभक्तसङ्गहीनस्य व्युत्क्रमात्सङ्गिनोऽपि वा ।स्वसङ्गविघ्नकृद्विष्णुस्तत्सज्जेतैषु तत्र च॥ इति सत्सङ्गे ॥ ३-४ ॥
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ।अव्रतातप्ततपसो मत्सङ्गान्मामुपागताः ॥ ७॥


केवलेन हि भावेन गोप्यो गावः खगा मृगाः ।येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ॥ ८ ॥


यं न योगेन सांख्येन दानव्रततपोऽध्वरैः ।व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि ॥ ९ ॥


मत्कामा रमणं जारं मत्स्वरूपाविदोऽबलाः ।ब््राह्म मां परमं प्रापुः शतशोऽथ सहस्रशः ॥ १३ ॥


'गोपिकाद्या दिवं गत्वा हरिं ज्ञात्वा यथातथम् ।परं पदं ययुः पूर्वसङ्गादेव शुभोचिताः॥ इति च ॥ ७-९,१३ ॥
तस्मात् त्वमुद्धवोत्सृज्य चोदितां प्रतिचोदनाम् ।प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ॥ १४ ॥


मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।याहि सर्वात्मभावेन यस्मिन्नस्त्यकुतोभयम् ॥ १५ ॥


'श्रोतव्यं च श्रुतं चैव वक्तव्यं कार्यमेव च ।निवर्त्यं च हरेः पूजेत्येवं कुर्यान्न चाक्रमात् ॥एवं कर्ता तु संन्यासी सर्वोत्सर्गाद्धरौ स्मृतः ।अन्यथा नैव संन्यासी निष्क्रियोऽपि शिला यथा॥ इति कर्मविवेके ॥'नाहं कर्ता तु सर्वस्य कर्तैको विष्णुरव्ययः ।इति वित्त्वा तु सन्यासी नान्यथा तु कथञ्चन॥ इति निवृत्ते ॥'मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥ इति च ॥१४-१५॥
उद्धव उवाच– संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ््र•म्यति मे मनः ॥ १६ ॥


वायौ मुख्यधियेत्युक्तवा विशेषतो गोपिकाप्रशंसनात्संशयः शृृण्वत इति चोदयति ॥ १६ ॥
श्रीभगवानुवाच– य एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपैति रूपं मात्रा स्वरो वर्ण इति स्थविष्ठम् ॥ १७ ॥


गोपिका अपि मामापुः किमु वाय्वाद्या इति दर्शयितुं गोपिकाप्रशंसनम् । सर्वैर्गुणैः सर्वोत्तमस्तु वायुरेव । स एव च हिरण्यगर्भ इति दर्शयितुमाह । य एष जीवो विवरप्रसूतिरित्यादि । विशेषेण वराणामहङ्कारादीनामपि प्रसूतिकर्ता । प्राणेन विष्णुना घोषेण वेदात्मिकया प्रकृत्या मनोमात्रा-दयश्च हिरण्यगर्भस्य देव्याः परमात्मनश्च व्यक्तिस्थानानीत्युक्तम् ।'प्राणेन घोषेण च सह विवरप्रसूतिर्मनोमयं रूपमुपैति॥ इत्यादिना ॥ १७ ॥
यथाऽनलः स्वेऽनिलबन्धुरूष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातो हविषा समिद्ध्यते तथैव मे व्यक्तिरियं हि वाणी ॥ १८ ॥


एवं गतिः कर्म रतिर्विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश्च । सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजः सत्वतमोविकारः ॥ १९ ॥


तत्रापि विशेषतो भगवत एव व्यक्तिस्थानमित्याह । यथाऽनल इत्यादिना ॥ १८,१९ ॥
अयं हि जीवस्त्रिवृदब्जयोनि- रव्यक्त एको जगतां यथाऽऽद्यः । विश्लिष्टशक्तिर्बहुधैव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ २० ॥


यस्मिन्निदं प्रोतमशेषमोतं पटे यथा तन्तुवितानसंस्था । य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ २१ ॥


विशेषेण श्लिष्टशक्तिः । अनपगतसामर्थ्यः । यथैकं कलमादिबीजं भूमावुप्तं बह्वङ्कुरं भवति एवं परमात्मानुगृहीतो ब््राह्माऽहङ्कारादिषु बहुधा व्यक्तीभवति ॥'सुपर्णशेषरुद्रादिप्रसूतिश्च चतुर्मुखः ।सर्वजीवोत्तमो जीवो गुणैर्ज्ञानसुखादिभिः ॥विष्णुभक्त्यादिभिः सर्वैर्नियमात्सार्वकालिकम् ।मुक्तावपि न सन्देहः स हि देवेन विष्णुना ॥प्राणप्राणेन जगतामीशेन रमया तथा ।वेदात्मिक्या च सहितः सूक्ष्मः सन्मनसि स्थितः ॥वीन्द्रादीनां तु सर्वेषां मात्रावर्णस्वरेषु च ।स्थूलरूपी सदा तिष्ठन्नेवं श्रोत्रादिखेषु च ॥सर्वेषां प््रोरको ह्येको ज्ञानानन्दबलैस्त्रिवृत् ।नित्यशक्तिः सर्वगः सन्बहुधैव प्रतीयते ॥तस्मिन्नोतमिदं सर्वं पटे लक्षणतन्तुवत् ।स एव वायुरुद्दिष्टो वायुर्हि ब््राह्मतामगात् ॥विशेषतो हरेर्व्यक्तिस्थानान्येतानि सर्वशः ।मन आदीन्यहङ्कारो ब््राह्मा वेदात्मिका रमा ॥त्रिगुणात्मिका च सैव श्रीः सैवोक्ता संविदात्मिका ।तस्या अपि नियन्तैको विष्णुः सर्वेश्वरेश्वरः ॥यथा दारुषु सूक्ष्मः सन्मथितोऽग्निः समिध्यते ।तथा वेदादिषु हरिर्मथितः सम्प्रदृश्यते ॥व्यक्तिस्थानान्यथैतानि वेदादीनि हरेर्विदुः॥ इति तन्त्रभागवते ॥'मनसि व्यक्ततां यामि तस्माद्व्यक्तिर्हि मे मनः॥ इति भारते ॥'यथैव वस्त्रे दीर्घं च तिर्यक्चापि सुसंस्थिता ।तन्तुभिः क्रियमाणैव पद्माद्याकारसंस्थितिः ॥यथा जीर्णानि वस्त्राणि तन्त्वाधाराणि वा पुनः ।कन्थावयवभूतानि तद्वदेतच्चतुर्मुखे ॥सोऽपि तद्वद्धरौ नित्यं संस्थितः श्रीरपि स्फुटम्॥ इति प्रातिस्विके ॥ २०,२१ ॥
द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दशैकशाखो द्विसुपर्णनीड- स्त्रिवल्कलो द्विफलः खं प्रविष्टः ॥ २२ ॥


अदन्ति चैकं फलमस्य गृध््र• ग््र•मेचरा एकमरण्यवासाः । हंसा य एवं बहुरूपमिष्टं मायामयं वेद स वेद वेदम् ॥ २३ ॥


एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४ ॥


Template:AuthorNote

'जगद्वृक्षस्य बीजे द्वे ब््राह्मा चैव सरस्वती ।मूलभूतानि कर्माणि मनो बुद्धिरहङ्कृतिः ॥नालत्वेन समुद्दिष्टाः खमाद्याः स्कन्धसंज्ञिताः ।एकादशेन्द्रियाण्येव शाखास्तु त्रिगुणास्त्वचः ॥प्रवृत्तं च निवृत्तं च फले अस्य प्रकीर्तिते ।पुष्पमैहिकमुद्दिष्टं रसाः शब्दादयस्तयोः ॥प्रवृत्ताश्च निवृत्ताश्च पक्षिणस्तत्र संस्थिताः ।वृक्षस्य पृथिवीवच्छ्रीर्विष्णुराकाशवायुवत् ॥तस्या अपि सदाधार एवं ज्ञात्वा विमुच्यते॥ इति निवृत्ते ॥'प्राकृतान्तःकरणजं ज्ञानमस्त्रं सृतिच्छिदम् ।तदेव तेन संछेद्यं चित्तं प्रकृतिसम्भवम् ॥तेनैव सह संत्याज्यं नैव पूर्वं कथञ्चन ।ज्ञानं प्रकृतिजं चापि मूलनाशे विनश्यति ॥ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम् ।वेत्ति मुक्तस्तस्थाऽऽत्मानं जीवानन्यांश्च सर्वशः॥ इति माहात्म्ये ॥'बीजभूतावपि ह्यस्य ब््राह्मा चैव सरस्वती ।न रिष्यतो जगत्सृष्टौ वटवृक्षादिबीजवत् ॥स्वकार्यतो महान्तौ च गुणतो रूपतस्तथा ।पृथिव्युदकवत्तस्माद्बीजत्वं न तु बीजवत् ॥व्यञ्जकत्वान्न चाल्पत्वान्महाक्ष्मावद्रमा स्मृता ।अण्डो महाक्ष्मा सम्प्रोक्तस्ततः पृथ्व्युदकं तथा ॥जायते नित्यशस्तस्माद्भुक्तं भुक्तं न हीयते ।तत्राप्युदकवद्ब्रह्मा मृद्वच्चापि सरस्वती ॥जलाधारा यतो मृच्च सर्वत्रापि व्यवस्थिता ।अन्यथा तु रजोभूता नीयते वायुनाऽखिला ॥अथवा सर्वनाशः स्याज्जलाधारा ततः स्मृता ।वटादिबीजवत्तस्य पुण्यापुण्यमुदीरितम् ॥बाह्योदवच्चाग्निवच्च विष्णुरेव प्रकीर्तितः॥ इति सत्यसंहितायाम् ॥श्रियादेरप्याप्यायकत्वाद्बाह्योदवत् । ब््राह्मादेरपि लयकर्तृत्वादग्निवत् । आधारत्वात्सुखदत्वाच्च वायुवत् । अवकाशप्रदत्वाद्व्योमवद्विष्णुः ।'व््राीह्यादिवत्तु मूलत्वं कर्मणां जगतः स्मृतम् ।उदवत्पृथिवीवच्च ब््राह्मणो वाच एव च ॥मूलभूवच्छ्रियश्चैव मूलभूरण्डमुच्यते ।बाह्योदाग्नीरखंवत्तु विष्णोर्बीजत्वमिष्यते॥ इति विश्वसंहितायाम् ॥देहेन्द्रियमनोवाक्षु स्थितो भक्त्यादिसाधकः ।सुपर्णशेषरुद्रादेरपि ब््राह्मा चतुर्मुखः ॥अतो भक्त्यादिकाः सर्वे गुणास्तस्यैव सर्वगाः ।अतिरिक्ताश्च सम्पूर्णाः सुपर्णादेः शताधिकाः ॥सुपर्णादिभिरज्ञातास्तदभीमानवर्जिताः ।ब््राह्मणस्तु पुनः सन्ति तेषां कर्ता जनार्दनः ॥तस्मात्सर्वाधिको ब््राह्मा गुणैः सर्वैर्न संशयः ।वर्णस्थो वर्णनामाऽसौ स्वरस्थः स्वरनामकः ॥मनःस्थश्च मनोनामा तन्नामा चक्षुरादिगः ।तस्य सर्वाणि नामानि मुख्यतः कवयो विदुः ॥तत्स्थानत्वादिन्द्रियादेर्वर्णादेश्चोपचारतः ।एवमस्योपचारेण विष्णोः साक्षात्तु मुख्यतः॥ इति शब्दनिर्णये ॥'कृष्णप््रिायाभ्यो गोपीभ्यो भक्तितो द्विगुणाधिकाः ।महिष्योऽष्टौ विना यास्ताः कथिताः कृष्णवल्लभाः ॥ताभ्यः सहस्रसमिता यशोदा नन्दगेहिनी ।ततोऽप्यभ्यधिका देवी देवकी भक्तितस्ततः ॥वसुदेवस्ततो जिष्णुस्ततो रामो महाबलः ।न ततोऽभ्यधिकः कश्चिद्भक्त्यादौ पुरुषोत्तमे ॥विना ब््राह्माणमीशेशं स हि सर्वाधिकः स्मृतः इत्यन्तर्यामिसंहितायाम् ॥'पापद्वेषादिका दोषा अवराणां न संशयः ।भक्त्यादिगुणपूगस्तु पराणामा विरिञ्चतः ॥स्वातन्त्र्यात्सर्वदेहेषु स्थितानामपि सर्वशः ।स्पृश्यन्ते नैव दोषैस्ते गुणादानैकतत्पराःइति विवेके ॥'यदु किञ्चेमाः प्रजाः । शोचन्त्यमैवासां तद्भवति । पुण्यमेवामुं गच्छति । न ह वै देवान्पापं गच्छतिइति च ॥ २२-२४ ॥