Bhagavatatatparyanirnaya/C10/S23
Appearance
त्रयोविंशोऽध्यायः
वाचालं मानिनं मत्तमज्ञं पण्डितमानिनम् ।कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥
'अत्यल्पस्त्वसुरावेशो देवानां च भविष्यति ।प्राणमेकं विनाऽसौ हि आखणाश्मसमः स्मृतः ॥तस्मिन्नप्यसुरावेशे गते प्रकृतिरेव तु॥ इति तन्त्रभागवते ॥ ५ ॥