Bhagavatatatparyanirnaya/C10/S16
Appearance
षोडशोऽध्यायः
उवाह कृष्णो भगवान् श्रीदामानं पराजितः ।वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ २३ ॥
श्रीदामा कृष्णमुवाह । हरिवंशादिवचनात् ।'बहुमानविरोधे तु व्यत्यासः शब्दतोऽर्थतः ।कार्योऽनिरुक्तदेवानां गुणसिध्द्यै न चान्यथा ॥विष्णुर्ब्रह्मा तथा वायुरनिरुक्ताः प्रकीर्तिताः ।तत्पत्न््नयश्चेतरगुणा व्यत्यस्यास्तेष्वसंशयः॥ इति ब्रह्मतर्के ॥ २३ ॥