Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A024

From Grantha
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

वियदधिकरणम्

ॐ न वियदश्रुतेः ॥ 01-219 ॥


न वियदनुत्पत्तिमत् । तथाऽश्रुतेः ॥ 01 ॥


ॐ अस्तितु ॐ ॥ 02-220 ॥


अस्त्येव चोत्पत्तिश्रुतिः- ‘आत्मन आकाशः सम्भूतः’ इत्यादि ॥ 02 ॥


ॐ गौण्यसम्भवात् ॐ ॥ 03-221 ॥


‘अनादिर्वा अयमाकाशः शून्योऽलौकिकः’ इत्यादिश्रुतिर्गौणी । अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवात् ॥ 03 ॥


ॐ शब्दाच्च ॐ ॥ 04-222 ॥


‘अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति । अथ यान्यनित्यानि प्राणः श्रद्धाभूतानि भौतिकानीति । यानि ह वा उत्पत्तिमन्ति तान्यनित्यानि।यानि ह वा अनुत्पत्तिमन्ति तानि नित्यानि । न ह्येतानि कदाचनोत्पद्यन्ते न विलीयन्ते पुरुषः प्रकृतिरात्मा काल इति । अथैतान्युत्पत्तिमन्ति चानुत्पत्तिमन्ति च प्राणः श्रद्धाऽऽकाश इति भागशो ह्युत्पद्यन्ते’ इति भाल्लवेयश्रुतेश्च ॥ 04 ॥


ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ॥ 05-223 ॥


स्यादेवैकस्योत्पत्तिमत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्यत्वापेक्षया । यथा ब्रह्मशब्दः ।


‘अथ कस्मादुच्यते परं ब्रह्म बृहति बृंहयति च’ इति श्रुतेः परे ब्रह्मणि मुख्योऽपि गौणत्वेन विरिञ्चादिष्वपि वर्तते । अत एवाब्रह्मत्वं च तेषाम् । एवमत्राप्यनुत्पत्तिमच्छब्दः ॥ 05 ॥


ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥ 06-224 ॥


ब्रह्मणोऽन्यस्य नित्यत्वे’इदं सर्वमसृजत’ इत्यादि प्रतिज्ञाहानिः।आकाशस्यापि सर्वस्मादव्यतिरेकात्।


‘अत्मा वा इदमेक एवाग्र आसीत्’ ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ ‘इदं वा अग्रे नैव किञ्चनासीत्’ इत्यादिश्रुतिभ्यः ॥ 06 ॥


ॐ यावद्विकारं तु विभागो लोकवत् ॐ ॥ 07-225 ॥


विभक्तत्वाच्च विकारित्वं युक्तम् । विकारिण एव हि विभक्तालोके दृश्यन्ते ।


‘एकोऽविभक्तः परमः पुरुषो विष्णुरुच्यते । प्रकृतिः पुरुषः कालस्त्रय एते विभागतः ॥


चतुर्थस्तु महान् प्रोक्तः पञ्चमाऽहङ्कृतिर्मता । तद्विभागेन जायन्त आकाशाद्याः पृथक् पृथक् ॥