Bhagavatatatparyanirnaya/C4/S11
Appearance
द्वादशोऽध्यायः
अहं त्वमित्यपार्था धीरज्ञानात् पुरुषस्य हि ।स्वाप्नीव भात्यनुध्यानाद् यया बन्धविपर्ययः ॥ ४ ॥
परमेश्वरं विनाऽहं त्वं कर्तेति भ्रान्तिः ।'नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः। इति मोक्षधर्मे ।विपर्ययो दुःखादिः सुखादिरूपस्य ॥ ४ ॥
भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम् ।युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥ ६ ॥
आत्मसामर्थ्याख्यया शक्त्या युक्तम् । गुणमय्या विरहितम् ॥ ६ ॥
वृणीहि कामं नृप यन्मनोगतंमत्तस्त्वमौत्तानपदेऽविशङ्कितः ।
निरन्तरं भगवत्पादमानसम् ॥ ७ ॥
अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।द्रव्यक्रियादेवतानां कर्माकर्मफलप्रदम् ॥ १० ॥
द्रव्यक्रियादेवतानां विषयम् । अकर्मफलप्रदं मोक्षफलप्रदम् ॥ १० ॥
सर्वात्मन्यच्युते सर्वे तीव्रौघां भक्तिमुद्वहन् ।ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११ ॥
'विश्वः पूर्णस्तथा सर्वः समस्तश्चाभिधीयते। इत्यभिधानम् ॥११॥
मन्यमान इदं विश्वं मायारचितमात्मनि ।अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५ ॥
'अन्यथात्वात्क्षिप्रनाशाज्जगत्स्वप्नादिवत्स्मृतम् ।वर्तमानं नियत्यैव सदैव परमात्मनि॥ इति वाराहे ॥'महामायेत्यविद्येति नियतिर्मोहिनीति च ।प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते॥ इति स्कान्दे ॥ १५ ॥
तस्या विशुद्धकरणः शिववार्विगाह्यबद्धासनो जितमरुन्मनसाऽऽहृताक्षः ।
स्थूले पातालादिके । शिलावत्प्रतिमारूपे ।'शिलावत्प्रतिमैषा हि विष्णोर्लोकचतुर्दशि। इति च ॥ १७ ॥
सुदुर्जयं विष्णुपदं जितं त्वयायत् सूरयोऽप्राप्य विचक्षते परम् ।
अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् ।आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥ २६ ॥
'शिंशुमारो ध्रुवश्चैव संस्थितौ यत्पुरे सदा ।तत्पश्यन्ति न यान्त्यन्ये लोकं यान्ति सुरान् विना॥ इति च ॥ २५,२६ ॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः ।नेच्छंस्तत्राऽत्मनाऽऽत्मानं संतुष्ट इति सिध्यति ॥ ४९ ॥
मनसा परमात्मानं प्रति सन्तुष्टः ॥ ४९ ॥