Jump to content

Bhagavatatatparyanirnaya/C3/S17

From Grantha
Revision as of 05:33, 8 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

सप्तदशोऽध्यायः

तद् वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।तद्ध्येवात्मकृतं मन्ये यत् स्वपुंभिरसत्कृताः ॥ ४ ॥


यस्यामृतामलयशः श्रवणावगाहःसद्यः पुनाति जगदाश्वपचं विकुण्ठः ।


यत्सेवया चरणपद्मपवित्ररेणोःसद्यः क्षताखिलमलं प्रतिलब्धशीलम् ।


'सर्वोत्तमोऽपि भगवान्विप्रादेः पूजनाय तु ।गुणलब्धिं ततो ब्रूते नित्यपूर्णगुणोऽपि सन् ॥ब्रूयुश्चान्ये क्वचित्तत्तु तदुक्तेरनुसारतः ।उपादत्ते वरांश्चापि लोकानां मोहनाय च॥ इति कौर्मे ॥विप्राणां चरणपद्मपवित्ररेणोः सेवया प्रतिलब्धशीलं श्रीर्न जहातीति यत् । अतश्छिन्द्याम् ।'अनुक्ताश्च गुणा विष्णोरुक्ता दोषा न तस्य तु ।अज्ञानाद्दोषविज्ञानं गुणज्ञानं यथार्थतः॥ इति पैङ्गिश्रुतिः ॥'विप्राणां चापि भक्तानामन्येषां च जनार्दनः ।ब्रह्मणः शङ्कराद्वापि देवताभ्यस्तथैव च ॥आत्मनश्च श्रियश्चैव सकाशात्प््रिायतामपि ।पूज्यतामत्ययुक्तं च वदेत्क्वापि विमोहयन्॥ इति स्कान्दे ॥ ४-७ ॥
ब्रह्मोवाच–अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।


देवीं द्योतमानाम् । ऋषिकुल्याम् ऋषिकुलस्तुतिपराम् ॥ १३ ॥
ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम् ।प्रचुः प्रञ्जलयो विप्र प्राहृष्टाः कम्पितत्वचः ॥ १५ ॥


'तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यम्॥ इत्युक्तम् ॥ १५ ॥
त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥ १८ ॥


धर्मस्यापि दुर्ज्ञेयः ॥ १८ ॥
यं वै विभूतिरुपयात्यनुवेलमन्यै-रर्थार्थिभिः स्वशिरसा धृतपादरेणुः ।


मधुव्रतपतेः सारग्राहिणां पतेः । अङ्घ्रिस्थतुलसीलोकं स्थानमुरसि स्थिताऽपि स्पर्धयेव कामयाना । 'लब्ध्वाऽपि वक्षसि पदम्। इति च ॥ २० ॥
यस्तां विविक्तचरितैरनुवर्तमानांनात्याद्रियत् परमभागवतप्रसङ्गः ।


परमभागवतत्वेन तस्यामत्यादरः । न तु कामात् ।'हरिभक्तिर्हरेः प्रीतिर्ज्ञानानन्दादयो गुणाः ।अधिकारे च मुक्तौ च ब्रह्मवाय्वोश्च तत्स्त्रियोः ॥शेषवीन्द्रहराणां च तत्स्त्रीणां वासवादिनाम् ।यथाक्रमं तु विज्ञेया भूमौ कारणतोऽन्यथा ॥देहस्य लक्षणं चैव भूमावप्यन्यथा भवेत् ।ब्रह्मादिषु क्रमेणैव नित्यं स्याद्देहलक्षणम् ॥श्रियोऽधिका गुणाः सर्वे सर्वेभ्यो नियमेन तु ।उक्ताश्चैवाप्यनुक्ताश्च ततो विष्णोर्न संशयः॥इति तत्त्वनिर्णये ॥ २१ ॥
धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैःपद्भिश्चराचरमिदं द्विजदेवतार्थम् ।


'धारणाद् भगवान् धर्मो यमनाद् यम उच्यते। इति शब्दनिर्णये ।'अनन्तासनवैकुण्ठक्षीरसागरगैस्त्रिभिः ।रक्षां करोति भगवान्कपिलः सत्ववर्धनात् ।असत्वोऽपि रजश्चैव तमश्चापि निरस्य तु॥ इति मूर्तिभेदे ॥'कपिलो वरदश्चैव विकलश्चेति कथ्यतेइति च ।अतः सत्वस्य कारणत्वमात्रं कपिलो वरदा तनुः ॥ २२ ॥
न त्वं द्विजोत्तमकुलं यदिहात्मगोपंगोप्ता वृष स्वर्हणेन सुसूनृतेन ।


आत्मैव गोपो गोपको यस्य तदात्मगोपम् ॥ २३ ॥
तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोःक्षेमं जनाय निजशक्तिभिरुद्धृतारेः ।


'असुरा अप््रिायाश्चापि नित्यानन्दान्न लोकवत् ।निषेध्यबुद्धिविषयमप््रिायं हि हरेर्मतम्॥ इति च ।तस्मादनभीष्टमिव ॥ २४ ॥
भगवानुवाच–एतौ सुरेतरगतिं प्रतिपद्य सद्यः


'अन्तर्भक्ता बहिःक्रुद्धा हिरण्याद्या हरिं प्रति ।सर्वक्रुद्धाः शम्बराद्या अन्तः क्रोधवशास्तथा॥ इति च ॥ २६ ॥
ब्रह्मोवाच–भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।


'स्वरूपश्रीस्तथा भार्या द्वेधा श्रीस्तु हरेर्मता। इति च ॥ २८ ॥
मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥


Template:AuthorNote

'अन्तर्भक्ता बहिर्वैरा हिरण्याद्या हरेर्मताः ।तत्र भक्त्याऽभवन्पूता द्वेष आवेशकान्गतः ॥ब्रह्मजा असुरा ये तु विष्णोः पार्षदतां गताः ।बल्याद्याश्च हरेर्द्वेषमन्तः कृत्वा तमोगताः॥ इति च ॥तस्मात् संरम्भोऽल्पफलः कथ्यत एव । भक्तियोग एव ब्रह्महेलन-निस्तारकः ॥ ३१ ॥