Bhagavatatatparyanirnaya/C3/S2
Appearance
द्वितीयोऽध्यायः
यद्धर्मसूनोर्बत राजसूयेनिरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।
त्रिलोकस्याज्ञानं बत ।'आनन्दरूपं दृष्ट्वाऽपि लोको भौतिकमेव तु ।मन्यते विष्णुरूपं च अहो भ्रान्तिर्बहुस्थिता॥ इति स्कान्दे ॥१३॥
मन्येऽसुरान् भागवतांस्त्र्यधीशेसंरम्भमार्गाभिनिविष्टचित्तान् ।
'असुरा अपि ये विष्णुं शङ्खचक्रगदाधरम् ।भक्तिपूर्वमवेक्षन्ते ज्ञेया भागवता इति ॥विद्विषन्ति तु ये विष्णुमृषिपुत्रा अपि स्फुटम् ।असुरास्तेऽपि विज्ञेया गच्छन्ति च सदा तमः ॥जीवद्वयसमायोगाद्धिरण्यकमुखाः परे ।भक्तिद्वेषयुताश्च स्युर्गतिस्तेषां यथा निजा ॥कंसपूतनिकाद्याश्च बान्धवादियुता यतः ।जीवद्वयसमायोगाद्गतिद्वयजिगीषवः ॥सर्वथा भक्तितो मुक्तिर्द्वेषात्तम उदीरितम् ।नियमस्त्वनयोर्नित्यं मोहायान्यवचो भवेत्॥ इति ब्राह्मे ॥ २४ ॥