Jump to content

Bhagavatatatparyanirnaya/C1/S7

From Grantha
Revision as of 05:32, 8 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

सप्तमोऽध्यायः

सूत उवाच—ब्रह्मनद्याः सरस्वत्याः आश्रमः पश्चिमे तटे ।


शम्यां प्रास्य तत्र शालां कृत्वा यत्र यज्ञः क्रियते स शम्याप्रासः ॥२॥
भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयाम् ॥ ४ ॥


भक्तियोगेन सम्यक् प्रणिहिते लोकानां मनसि ॥ ४ ॥
भर्तुः प्रियं द्रौणिरिति स्म पश्यन्कृष्णासुतानां स्वपतां शिरांसि ।


माता शिशूनां निधनं सुतानांनिशम्य घोरं परितप्यमाना ।


Template:AuthorNote

स्वात्मन एव विप्रियं न भर्तुः । प्रयोजनाभावाद् विप्रियमिव च अस्य प्रियमिति हि प्रस्वापोक्तम् ॥स्वप्नोऽयम्–'पार्थानुयातमात्मानं द्रौणिः स्वप्ने ददर्श ह ।बन्धनं चाऽत्मनस्तत्र द्रौपद्या चैव मोक्षणम् ॥ इति स्कान्दे ।तस्मान्नैषीकविरोधः ॥ १४-१५ ॥