Jump to content

Anubhashya/C1

From Grantha
Revision as of 05:32, 8 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्।ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥१॥

विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽऽगमोदितः।समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्‌॥ २॥


प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु।उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ ३॥


सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ४॥


सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन्‌ हृदब्जगः।सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ५॥


ज्ञेयो न वेदैः शूद्राद्यैः कम्पकोऽन्यश्च जीवतः।पतित्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः॥ ६॥


मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः।अव्यक्तः कर्मवाच्यैश्च(कर्मवाक्यैश्च) वाच्य एकोऽमितात्मकः॥ ७॥


अवान्तरं कारणं च प्रकृतिः शून्यमेव च।इत्याद्यन्यत्र नियतैरपि मुख्यतयोदितः।शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः॥ ८॥


Template:AuthorNote