ब्रह्मसूत्रभाष्यम्/C02/S02/A020
Appearance
अनुपलब्द्यधिकरणम्
विज्ञानवादमपाकरोति-
ॐ न भावोऽनुपलब्धेः ॐ ॥ 30-203 ॥
न विज्ञानमात्रं जगत् । तथाऽनुभवाभावात् ॥ 30 ॥
ॐ क्षणिकत्वाच्च ॐ ॥ 31-204 ॥
ज्ञानं क्षणिकम् । अर्थानां च स्थायित्वमुक्तम् । आतश्च नैक्यम् ॥ 31 ॥
ॐ सर्वथाऽनुपपत्तेश्च ॐ ॥ 32-205 ॥
प्रमाणाभावात् सर्वश्रुतिस्मृतिर्युक्तिविरुद्धत्वाच्च नैते पक्षा ग्राह्याः ॥ 32 ॥