Aitareya/C3/S2
Appearance
द्वितीयोऽध्यायः
ॐ प्राणो वंश इति स्थविरः शाकल्यः । तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन् प्राणे चक्षुः श्रोत्रं मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितस्तस्यैतस्यात्मनः प्राण ऊष्मरूपम् । अस्थीनि स्पर्शरूपम् । मज्जानः स्वररूपं मांसं लोहितमित्येतदन्यच्चतुर्थमन्तस्थरूपम् ।
गृहस्याच्छादनादीनां मध्यवंशो यथाऽऽश्रयः ।
तथेन्द्रियाभिमान्यादिदेवानां वायुराश्रयः ॥
तेषु सर्वेषु भगवान् बहुरूपो हरिः स्थितः ।
विष्णुनामाऽक्षरेष्वेवमन्येष्वपि तदर्थतः ॥
प्राणनामापि भगवान् प्राणस्थश्चोष्मसु स्थितः ।
ऊष्मनामा समर्थत्वात् स एव भगवान् हरिः ॥
पूर्णत्वादात्मनामासौ प्रतिमात्वादमुष्य तु ।
सङ्घात आत्मशब्दोक्तो ह्यस्थिरश्चास्थिनामकः ॥
अस्थिस्थितो हरिः स्पर्शसंस्थितः स्पर्शनामकः ।
स्पर्शहेतुत्वतः स्पर्शनामा स भगवान् हरिः ॥
मज्जासुस्थो स मज्जाख्यो मदं जनयतीति ह ।
स एव स्वरसंस्थश्च स्वराख्यः स्वरतेः प्रभुः ॥
प्रमाणं सारयेद्यस्मान्मांसाख्यो मांससंस्थितः ।
लोहिताख्यो रक्तवर्णो लोहितस्थो जनार्दनः ॥इति ह स्माह ह्रस्वो माण्डूकेयः । त्रयं त्वेव न एतत्प्रोक्तम् । तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति त्रीणीतः षष्टि शतानि त्रीणीतः । तानि सप्तविंशति शतानि भवन्ति ।
अस्थिस्थान्येव रूपाणि पर्वस्वपि हरेर्यतः ।
तत एव विभक्तानि सङ्ख्या तेषां पृथङ् न तत् ॥
तस्मात् सप्तशतान्येव देहे विंशच्च तस्य हि ।
रूपाणि विष्णोर्भागे तु षष्ठ्युत्तरशतत्रयम् ॥सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः । स एषोऽहःसंमानश्चक्षुर्मयः । श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा । स य एवमेतमहःसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं वेदाह्नां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान् भवति सर्वमायुरेति ॥१ ॥
तान्येव विष्णो रूपाणि वत्सराहस्सु सर्वशः ।
अहर्नामा च भगवानहार्यत्वात् प्रकीर्तितः ॥
अहोभिः समसङ्ख्यानि यस्मादध्यात्मगानि तु ।
रूपाणि विष्णोस्तेनायमहस्संमान उच्यते ॥
पूर्णदर्शनशक्तित्वाच्चक्षुर्मय उदीरितः ।
तादृक् श्रवणशक्तित्वात् तथा श्रोत्रमयः स्मृतः ॥
छन्दोमयः सत्यकामो मन्तृवक्तृबलात्मकः ।
एवं विद्वांस्तस्य रूपाण्याप्नोति ज्ञानपुत्रवान् ॥
पीयमानं शमाप्नोति प्राप्याहर्नामकं हरिम् ॥ १ ॥अथ कौण्ठरव्यः । त्रीणि षष्टिशतान्यक्षराणां त्रीणि षष्टि शतान्यूष्मणां त्रीणि षष्टि शतानि सन्धीनाम् । यान्यक्षराण्यवोचामाहानि तानि यानूष्मणोऽवोचाम रात्रयस्ता यान् सन्धीनवोचामाहोरात्राणां ते सन्धय इत्यधिदैवतम् ।अथाध्यात्मं यान्यक्षराण्यधिदैवतमवोचामस्थीनि तान्यध्यात्मम् । यानूष्मणोऽधिदैवतमवोचाम मज्जानस्तेध्यात्मम् । एष ह वै सम्प्रति प्राणो यन्मज्जा । एतद्रेतो न ह वा ऋते प्राणाद्रेतः सिच्यते । यद्वा ऋते प्राणाद्रेतः सिच्येत । पूयेन्न सम्भवेत् । यान्सन्धीनधिदैवतमवोचाम पर्वाणि तान्यध्यात्मम् । तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति । पञ्चेतश्चत्वारिंशच्छतानि पञ्चेतः तदशीतिसहस्रं भवति । अशीतिसहस्रं वा अर्कलिनो बृहतीरहरभिसम्पादयन्ति ।
एवमुक्तप्रकारेण तस्य ह्यक्षरनामकम् ।
अशीत्युत्तरसाहस्ररूपं वर्णेषु संस्थितम् ॥
विष्णुनाम्नोऽथवान्येषु पञ्चाशत्सङ्ख्यकेष्वपि ।
तावत् सङ्ख्यानि देहेषु पृथङ्मज्जास्थिपर्वसु ॥
रूपाणि विष्णोस्तावन्ति चेष्टकानि पृथक् पृथक् ।
अर्कस्थितबृहत्याख्यरूपाण्यह्नां च सर्वशः ॥
सम्पादकानि तान्येव तान्यक्षरमितानि च ।
अस्थ्यादिस्थितरूपाणि तान्युपास्य विमुच्यते ॥ इति च ।तस्यैतस्यात्मनस्तस्य शरीराख्यस्यात्मनो य आत्मा आदानादिकर्ता तस्य परमात्मन एतस्य । अस्थ्नां मज्ज्ञां पर्वणां च मिलितानामपि विंशोत्तरसप्तशतत्वोक्तेस्तत्रस्थविष्णुरूपाण्येवोच्यन्त इति सिद्धम् । अस्थ्यादीन्येव चेदशीत्युत्तरसहस्राणि सन्ति हि । विष्णुरित्येतानि विष्णुनामगतान्यूष्णाक्षरसन्धिनामकानि तद्गतभगवद्रूपाणि मुख्यतस्तन्नामकानि ।
अहार्यत्वादहर्नामा रात्रिनामा रतिप्रदः ।
सन्धानात् सन्धिनामासौ स्वयं नारायणः प्रभुः ॥
सन्ध्यूष्माक्षरगाण्यस्य विष्णो रूपाणि सर्वशः ।
सन्ध्यारात्रिदिवास्थानि साशीतिकसहस्रकम् ॥
तान्येवास्थिषु मज्जासु पर्वस्वपि च सर्वशः ।
परज्ञानात् तु पर्वाणि विष्णो रूपाणि तानि हि ॥
अस्थानान्मदनाच्चैव ह्यस्थिमज्जाभिधानि च ।
व्यक्तिर्मज्जासु तस्यैव प्राणो मज्जासु संस्थितः ॥
मज्जैव रेतो भवति रेतसिस्थो विशेषतः ।
प्राणस्तेन हि तद्रेतोयुक्तं प्राणेन सर्वदा ॥
यदि प्राणो न तद्रेतो न गर्भत्वं व्रजेत् क्वचित्।
विशेषप्राणसम्बन्धवर्जितान्यत एव हि ॥
न मांसादीनि गर्भत्वं यान्त्यतः स हि रेतसि ।
विशेषेण स्थितः प्राणः प्राणे चैव विशेषतः ॥
स्थितो नारायणो देवस्तस्मान्मज्जासु च स्थितः ॥इति च ।मज्जास्वधिकसन्निधानज्ञापनार्थमिदं वचनम् । अशीत्युत्तरसहस्रवर्णानामभावाच्च तत्स्थविष्णुरूपाण्येव तत्सङ्ख्यानीति सिद्धम् । र्ओ निलीनत्वेनादृश्यत्वेन स्थिता भगवत्प्रादुर्भावा अर्कलिनः । त एव शरीरे स्थित्वा सहस्रं बृहतीः सम्पादयन्ति । वाक्प्रेरकत्वाद् विष्णुनामार्थवत्वादेव च बृहतीसहस्रस्य तद्देवताश्चैतान्येवाशीत्युत्तरसहस्ररूपाणि । एतान्येवाहःप्रवर्तकानि च । अहःशब्देन यज्ञो दिवसश्चोभावप्यभिप्रेतौ ।
यज्ञानां दिवसानां च साशीतिकसहस्रकैः ।
विष्णुः प्रवर्तको रूपैर्बृहत्युक्थस्य चाञ्जसा ॥
बृहत्युक्थेन वाच्यानि रूपाण्येतान्यधीशितुः ॥
इति च ॥ २ ॥चत्वारः पुरुषाः इति बाध्वः । शरीरपुरुषश्छन्दःपुरुषो वेदपुरुषो महापुरुष इति । शरीरपुरुष इति यमवोचाम स य एवायं दैहिक आत्मा । तस्य योऽयमशरीरः प्रज्ञात्मा स रसः । छन्दःपुरुष इति यमवोचामाक्षरसमाम्नाय एव । तस्यैतस्याकारो रसः । वेदपुरुष इति यमवोचाम येन वेदान् वेद । ऋग्वेदं यजुर्वेदं सामवेदम् । तस्यैतस्य ब्रह्मा रसः । तस्माद् ब्रह्माणं ब्रह्मिष्ठं कुर्वीत । यो यज्ञस्योल्बणं पश्येत् । महापुरुष इति यमवोचाम संवत्सर एव प्रध्वंसयन् अन्यानि भूतान्यैक्याभावयन्नन्यानि । तस्यैतस्यासावादित्यो रसः ।
संसारबाधितैः प्राप्यो बाध्वो वायुरुदाहृतः ।
स हि मोक्षप्रदो विष्णोराज्ञया स उवाच ह ॥
सर्वदेहाभिमानी तु शरीरपुरुषः शिवः ।
सर्ववर्णाभिमानी च शेषोऽसौ छान्दसः पुमान् ॥
सर्ववेदाभिमान्येव गरुडो वेदपूरुषः ।
संवत्सराभिमानी तु ब्रह्मैव हि महापुमान् ॥
सारः शिवस्यानिरुद्धनामा देहस्थितो हरिः ।
अ इत्याक्रियते यस्माद् वासुदेवो ह्यकारकः ॥
शेषस्य सारः स विभुर्ब्रह्माख्यो ज्ञानबृंहणात् ।
सङ्कर्षणाख्यस्तु हरिः सारः स गरुडस्य च ॥
ब्रह्मर्त्विक्संस्थितश्चासौ तस्माद् ब्रह्मिष्ठमेव हि ।
कुर्याद् ब्रह्मर्त्विजं तस्मिन् विशेषेण स्थितो हरिः ॥
ब्रह्मणः सारभूतस्तु प्रद्युम्नो भगवान् हरिः ।
स एवादित्यसंस्थश्च स ह्यादिर्जगतो विभुः ॥
ततश्च सर्वभूतेषु जीवानां विनियामकः ।स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एतमेतदिति विद्यात् । तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवति । तदप्येतदृषिणोक्तं–चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
स एवादित्यगो विष्णुर्यः प्रद्युम्नाभिधो हरिः ॥
स एव सर्वदेहेषु चानिरुद्धतनुः स्थितः ।
सङ्कर्षणो वासुदेव इत्येकः स चतुर्विधः ॥
प्रतिपूरुषमेतस्मात् स्थितो विष्णुर्नियामकः ।
आदित्यादिषु च स्थित्वा द्योतकोऽसौ प्रति प्रति ॥
स चेतनतमत्वाद्धि चित्रमित्यभिधीयते ।
मुख्यत्वात् सर्वदेवानामननादीशितृत्वतः ॥
कर्तृत्वादप्यनीकं स उदैत् सूर्यस्थितो हरिः ।
ज्ञानदत्वाच्च देवानां चक्षुरेनेन दर्शनात् ॥
आपूरयत्सर्वलोकान् प्रकाशेन जनार्दनः ।
आदानात् सर्वजीवानामत्तृत्वात् प्रलयेऽपि च ॥
आत्मेत्युक्तः स भगवान् जगतः स्थावरस्य च ।एतामनुविधां संहितां सन्धीयमानां मन्य इति ह स्माऽह बाध्वः । एतां ह्येव बह्वृचा महत्युक्थे मीमांसन्ते । एतमग्नावध्वर्यवः । एतं महाव्रते छन्दोगाः । एतमस्यामेतं दिव्येतं वायावेतमाकाश एतमप्स्वेतमोषधीष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेषु । एतमेव ब्रह्मेत्याचक्षते । स एष संवत्सरसंमानश्चक्षुर्मयः श्रोत्रमयः छन्दोमयो मनोमयो वाङ्मय आत्मा । स य एवमेतं संवत्सरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं परस्मै शंसति, दुग्धदोहा अस्य वेदा भवन्ति । न तस्यानूक्ते भागोऽस्ति । न वेद सुकृतस्य पन्थानमिति ।
एवं चतुर्विधो विष्णुः संहितादेवता यदा ॥
ज्ञायते पूर्ववर्णस्य रूपं नारायणाभिधम् ।
प्रादुर्भावाः समस्ताश्च चरमार्णस्य देवताः ॥
तदा तु संहितां सम्यङ् मन्येऽहं सन्धितामिति ।
आह वायुरिमं विष्णुं बृहत्युक्थस्य देवताम् ॥
महाव्रताख्यस्तोत्रस्य चेष्टकानां च देवताम् ।
एतमेवाखिलजगद्व्याप्तं पूर्णगुणात्मकम् ॥
संवसद्रतिदातृत्वाद् ब्रह्मा संवत्सराभिधः ।
नियामकः स जीवानां सर्वेषां प्रभुरीश्वरः ॥
अनन्तमूर्तिर्ब्रह्मासावनन्तजगदास्थितः ।
नियामकस्तस्य विष्णुस्तावद्रूपेषु संस्थितः ॥
तत्संवत्सरसम्मानः स विष्णुः परमेश्वरः ॥ ३ ॥
य एनं वक्त्ययोग्येभ्यो योऽथ चैनं महाव्रते ।
कर्मण्याचार्यतोऽन्यस्य शंसेत पितृतोऽथवा ॥
महाव्रतेन स्तोत्रेण स्तुवीतैनमथापि वा ।
महाव्रते चितिं वापि कुर्यान्नास्य फलं श्रुतेः ॥
सुकृतस्य फलं चैव नासौ सम्यगवाप्स्यति ।
प्रत्यक्षज्ञानिनोऽप्येतदानन्दह्रासकृद्भवेत् ॥
प्रत्यक्षज्ञानिनो मोक्षो न कथञ्चिद्धि हीयते ।
आचार्यमेव तं विद्याद् गुणैर्यः स्वात्मनोऽधिकः ॥
गुणाधिकस्य तेनैव शंसनादि न दुष्यति ।
अयोग्यस्योपदेशे तु कृते हौत्रादिकेऽपि वा ॥
प्रायश्चित्तार्थमेतत्तु शंसीत शतवारकम् ।
अन्यथा मानुषेष्वेव जायते न दिवं व्रजेत् ॥
योग्या अस्याश्च विद्याया देवा ऋषय एव च ।
एकदेशज्ञानयोग्या मानुषा उत्तमा यदि ॥तदप्येतदृषिणोक्तम्–यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति ।
कर्मसञ्चयवेत्तारं त्यजेन्नारायणं हि यः ।
प्रीत्यैकदेशसंस्थत्वात् सखायमिति चोदितम् ॥
न विद्यायाः फलं तस्य श्रुतं च नरकावहम् ।
नैव प्राप्नोति सुकृतं सन्त्यागात् परमात्मनः ॥
मुख्यत्यागो हरेरेव यन्नास्तीति वदेदमुम् ।
तत्समं वाऽधिकं वाऽपि ब्रूयादैक्यमथापि वा ॥
ऐश्वर्यादिगुणानां वा ह्रासं नास्तित्वमेव वा ।
तत्प्रसादं विना मोक्षं ब्रूयाद्वा कस्यचित् क्वचित्॥
ऐक्यं वा ब्रह्मशर्वादेर्मुक्तावैक्यमथापि वा ।
व्यत्यासं चावताराणां जीवाभेदममुष्य वा ॥
भेदज्ञानं तद्गुणानां तेन वाऽथ मिथोऽपि वा ।
तथैव तत्क्रियाणां च तद्रूपाणामथापि वा ॥
असाम्यदर्शनं वापि तद्गुणानां परस्परम् ।
देहदेहिविभेदं च तस्मिन्नवयवेषु वा ॥
परस्परं भेददृष्टिं तेन वा कुत्रचित् क्वचित्।
दोषसंसर्गमस्यापि स्वतः परत एव वा ॥
अज्ञानतो ज्ञानतो वा निर्देहत्वममुष्य च ।
तद्देहस्य प्राकृतत्वमचिदानन्ददेहताम् ॥
प्रादुर्भावेष्वपि विभोर्देहत्यागोद्भवादिकम् ।
अज्ञानदुःखासामर्थ्यपारवश्यादिकं तथा ॥
अतद्वशत्वं कस्यापि कदाचित् क्वचिदप्युत ।
परिमाणं बलादेर्वा तस्य विष्णोर्महात्मनः ॥
भेदाभेददृशिर्वास्य जीवैर्वा स्वगुणादिभिः ।
तर्कैस्तस्यापलापो वा तत्र रक्तेन चेतसा ॥
त्यागानामेवमुक्तानां तर्काद्यैः साधनं तथा ।
अचिन्त्यविभवेऽप्यस्मिन्नसम्भवनिरूपणम् ॥
स एव मुख्यतस्त्यागो वासुदेवस्य कीर्तितः ।
रमाब्रह्मादिकानां च तारतम्यानभिज्ञता ॥
संशयश्चोक्ततत्त्वेषु जगन्मिथ्यात्वदर्शनम् ।
अस्मृतिर्वासुदेवस्य तद्भक्तानां च निन्दनम् ॥
द्वितीय एष त्यागस्तु विष्णोरेव प्रकीर्तितः ।
निषिद्धकर्मकरणं विहितस्य च वर्जनम् ॥
त्यागस्तृतीयो हि हरेश्चतुर्थोऽयोग्यपूरुषे ।
उपदेशः केशवस्य यथाशास्त्रोदितक्रमात् ॥
आचार्यपित्रोरन्यत्र तथैव च महाव्रते ।
हौत्रौद्गात्राध्वर्यवाणि त्याग एव चतुर्विधः ॥
त्यागद्वयात् तु प्रथमात् प्राप्यतेऽन्धन्तमः क्रमात् ।
तृतीयान्निरयप्राप्तिश्चतुर्थान्न दिवं व्रजेत् ॥
उपदिष्टेऽपि यस्तत्त्वे संशयं कुरुते पुमान् ।
सोऽन्धन्तमो व्रजेदन्यो निरयायैव गच्छति ॥
स एव भगवान् विष्णुरेतैदोषैर्विना यदि ।
ज्ञायते मुक्तिदः साक्षान्नात्र कार्या विचारणा ॥
यदि ज्ञानं नातिपक्वं सरागं च मनो भवेत् ।
तदा स्वर्गादिलोकाप्तिः संशयश्चेत् क्वचित्क्वचित्॥
आवृत्तिरेव संसारे यावन्निःसशंयो भवेत् ।
पुनरावृत्तिहीनं तु तमोऽन्धं मुक्तिरेव च ॥
पूर्वं तु निःसुखं तत्र निर्दुःखं चापरं मतम् ।
निश्शेषगुणहीनं च पूर्वं निर्दोषकं परम् ॥
विमिश्रगतयस्त्वन्याः पुनरावृत्तिसंयुताः ।
असुरा देवता मर्त्या योग्या एतेषु च क्रमात् ॥
न च तेषां सङ्करोऽस्ति यथायोग्या हि तद्गतिः । ।
मानुषेषूत्तमा मुक्तिमधमा निरयं तथा ॥
आप्नुवन्ति मनुष्येषु मध्यमाः सृतिभागिनः ।
नियमोऽयं नान्यथा स्यादच्छिद्रत्वं यथा भवेत् ॥
दोषेऽथवा गुणे वापि तदा दैत्याः सुरा अपि ।
स्वां स्वां गतिं समायान्ति तावत् संसारभागिनः ॥
अच्छिद्रत्वं नैव सर्वैः कदाचित् प्राप्यते यतः ।
सृष्टिस्थितिलयादीनां नोच्छेदस्तेन कुत्रचित् ॥
तस्माद्दोषान् प्रहायैव विष्णुं सर्वोत्तमोत्तमम् ।
जानीयात् तेन मुक्तिः स्यादपरोक्षदृशेरनु ॥स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदित्यवोचाम । तौ यत्र विहीयेते चन्द्रमा इवाऽदित्यो दृश्यते । न रश्मयः प्रादुर्भवन्ति । लोहिनी द्यौर्भवति यथा मञ्जिष्ठाः । व्यस्तः पायुः । काककुलायगन्धिकमस्य शिरो वायति । सम्परेतोऽस्यात्मा न चिरमिव जीविष्यतीति विद्यात् । स यत्करणीयं मन्येत तत्कुर्वीत । यदन्ति यच्च दूरके इति सप्त जपेत् । आदित्प्रत्नस्य रेतस इत्येका । यत्र ब्रह्मा पवमानेति षट् । उद्वयं तमसस्परीत्येका ।
सूर्यमण्डलगो विष्णुर्देहे चक्षुषि संस्थितः ।
अनिरुद्धश्च हृदये न च भेदोऽनयोः क्वचित्॥
अन्येषामपि रूपाणामिति विद्याद् विचक्षणः ।
द्विरूपः स यदा विष्णुरपगच्छति देहतः ॥
तदैव दुर्निमित्तानि जायन्ते नान्यदा क्वचित्।
तस्मात् तेषां दर्शने तु कर्तव्यं पारलौकिकम् ॥
सर्वमेव जपेच्चैव यदन्तीत्यादिका ऋचः ।
ऋग्भिः षडि्भर्वायुरेव पवमानादिना मतः ॥
स्तूयते सोऽङ्गनेतृत्वादग्निरित्यभिधीयते ।
परस्य ब्रह्मणो विष्णोर्ज्ञापनाख्यप्रसूतिभिः ॥
वायुः पुनाति यल्लोकान् सविता तेन कथ्यते ।
पवित्रं नाम साक्षात् तत्परं ब्रह्म जनार्दनः ॥
प्रसादयित्वा तं विष्णुं तेन लोकान् पुनात्यसुः ।
ज्ञानाख्यप्रसवेनापि स्वयं वायुः पुनात्ययम् ।
प्राणाग्नेरर्चिषो देहे विततास्तेषु केशवः ॥
अचिष्मान् विततो नित्यं वायुस्तेन पुनात्ययम् ।
यत्र ब्रह्मेति षडि्भश्च प्रार्थनीयः स मारुतः ॥
मोचयित्वैव संसारद्विष्णोर्लोके कृधीति च ।
आदित्प्रत्नस्येति विष्णुः स्तुत्यो वैकुण्ठलोकगः ॥
आदित्यमण्डलस्थश्च साक्षान्नारायणः प्रभुः ।
उद्वयं त्वितिमन्त्रेण स्तुत्यो वायोरपीश्वरः ॥
अपमृत्युभयं तस्य यदन्तीत्यृग्जपाद् व्रजेत् ।
कालमृत्युर्यदि भवेत् तथा जन्मादिकं भयम् ॥
अन्याभिः कर्मतः पूतो यत्र ब्रह्मेति वैष्णवम् ।
लोकं व्रजेत् तथाऽन्याभ्यां विष्णुर्मोक्षसुखप्रदः ॥
इष्टप्रदानशीलत्वादिन्दुर्वायुः स एव च ।
सोमः सौम्यस्वरूपत्वात् पवमानश्च पावनात् ॥
विष्णुः पुरातनत्वात् तु प्रत्नो रेतो महारतिः ।
देवत्रा देव एवासौ सर्वदेवेश्वरो यतः ॥
सूर्यश्च सूरिभिः प्राप्यो नित्यानन्दो रमापतिः ।अथापि यत्र च्छिद्र इवादित्यो दृश्यते रथनाभिरिवाभिख्यायेत च्छिद्रां वा छायां पश्येत् तदप्येवमेव विद्यात् । अथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽशिरसं वाऽऽत्मानं पश्येद्विपर्यस्ते वा कन्याके जिह्मेन वा दृश्येयातां तदप्येवमेव विद्यात् । अथाप्यपिधायाक्षिणी उपेक्षेत तद्यथा वटरकाणि सम्पतन्तीव दृश्यन्ते तानि यदा न पश्येत् तदप्येवमेव विद्यात् । अथाप्यपिधाय कर्णा उपशृणुयात् स एषोऽग्निरिव प्रज्वलतो रथस्येवोपब्दिस्तं यदा न शृणुयात् तदप्येवमेव विद्यात् । अथापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा मेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महामेघे वा मरिचीरिव पश्येत तदप्येवमेव विद्यात् । अथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येवमेव विद्यात् । इति प्रत्यक्षदर्शनानि ।अथ स्वप्नाः । पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एनमास्कन्दयत्याशु वायुरेनं प्रवहति सुवर्णं खादित्वाऽपगिरति मध्वश्नाति बिसानि भक्षयत्येकपुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्णं धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो व्राजयति । स यद्येतेषां ककिञ्चित् पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रिसूक्तेन प्रत्यृचं हुत्वाऽन्येनान्नेन ब्राह्मणान् भोजयित्वा चरुं स्वयं प्राश्नीयात् ।
देशतः कालतश्चैव गुणतश्चापि पूर्तितः ॥
अत इत्युच्यते विष्णुः सन्ततो ह्यत उच्यते ।
तृतीयवर्णोऽतिशये यतस्तेनातिरेव वा ॥
अत इत्युच्यते विष्णुः सम्यक्श्रुत्याद्यशक्यतः ।
पूर्णत्वाद् भगवान् विष्णुरश्रुतत्वादिनोदितः ॥
अन्तस्थः सर्वजीवानां पूर्णत्वात् पुरुषाभिधः ।
समः स सर्वरूपेषु सर्वजीवनियामकः ॥
इति विद्यात् परं विष्णुं मुच्यते तेन संसृतेः ॥ इत्यादि च ।शरीरपुरुषादीनां प्राप्यत्वात् तदुपास्यत्वात् तेषां नियामकत्वेन तेभ्योऽप्युत्तमत्वेन तेषु स्थितत्वाच्च तेषां सार इत्युच्यते भगवान् । यदीं एव अलकं अरकम् । यत्ककिञ्चिच्छृणोति तत्सर्वमरतिरूपान्धतमःप्राप्तिकारणमेव तस्य भवति । तत्र हि सर्वरत्यभावो रतिविरुद्धदुःखं च पूर्णम् । परस्मै शंसनमात्रादरतिरेवेत्यतः प्रस्तुते चतुर्थत्यागेन न तस्य वाच्यपि भागो अस्ति । न हि प्रवेद सुकृतस्य पन्थामिति दोषद्वयमेवेत्यवधारयति । न तस्यानूक्ते भागोऽस्ति न वेद सुकृतस्य पन्थानमित्येतत् तदुक्तं भवतीति । अलकं शृणोतीति त्यागद्वयस्य मुख्यतः । तृतीयस्यापि नरकं शृणोतीति किञ्चिद्भवति । तौ यदाऽस्माच्छरीराद् विहीयेते तदैवैतानि निमित्तानि पश्यन्तीति नियमः । न च तदा पश्यत्येवेति । वासेन रमयतीति वासरं विष्णुर्ज्योतिः ।
यत्र ब्रह्मा वेदवाक्यं व्याचक्षाणो मखैर्यजन् ।
सोमेन च सुतेनेशमास्ते लोके हरेर्हि सः ॥ इति स्कान्दे ।
ग्राव्णा सोमविषये सोमेनेष्ट्वा महीयते तेनैव विष्णुप्रीत्या स्वस्यानन्दं जनयन् । स्वरानन्दरूपो विष्णुः । दिवो देव्या अवरोधनं तस्याः परिवारभूताः सर्वदेव्यः । द्यौर्नाम वायुपत्नी । अजनयो मरुतो वक्षणाभ्यो दिव आवक्षणाभ्य इत्यादेः । यह्वतीः स्यन्दमानाः ।
सर्वेष्टद जगत्प्राण मामादाय परिस्रव ।
यत्रासौ भगवान् विष्णुस्त्वं हि मोक्षप्रदः सदा ॥ इति च ।
इन्दुरिष्टप्रदत्वाद्यो वायुरादाय गच्छति ।
इन्द्रनाम्नः केशवस्य समीपं मुक्तमञ्जसा ॥ इति च ।
अनन्यहेतुकं साक्षाद्भगवद्भक्तिरूपकम् ।
सुखमानन्द इत्युक्तो मोदो भोगनिमित्तकः ॥प्रमोदस्तद्विशेषोत्थो मुन्नामात्यल्पभोगतः ॥ इत्यृग्वेदसंहितायाम् ।
तमसः सकाशात् उद्गता वयमुत्तरं सर्वोत्तमं विष्ण्वाख्यं ज्योतिः परिपश्यन्तस्तमेव देवत्रा देवं देवविषयेऽपि देवमगन्म । तदेव ज्योतिष्ट्वेनोत्तरत्वेन च पश्यन्त इति दर्शने इत्थम्भावविधानार्थं पूर्वम् । तथैवासौ भगवानुत्तमज्योतिः न राजादिष्विवाविद्यमानभक्तिमात्रमिदमिति ज्ञापयितुमगन्म ज्योतिरुत्तममिति पुनर्वचनम् ।
अर्चिषोंऽशा वर्तुलास्तु नाम्ना वटरकाः स्मृताः इति शब्दनिर्णये ।
बृहत्तमं मधु यदि सहापूपं प्रभक्षयेत् ।
स्वप्ने तस्याचिरान्मृत्यू रक्ताब्जे वा शिरोधृते ॥ इति ब्रह्माण्डे ।
रात्र्यास्तु देवता दुर्गा दुःस्वप्ने सा प्रपूजिता ।
पायसेन हरेन्मृत्युं रात्रिसूक्तादकालिकम् ॥
यदि कालिकमृत्युः स्यात् पदं सा परमं नयेत् ।
सहैव विष्णुना भक्तं विष्णोस्तद्वेदिनं तथा ॥
रतिदत्वात् परो विष्णुर्मुख्यतो रात्रिरुच्यते ।
तदाश्रयत्वाद् दुर्गाऽपि रात्रिरित्यभिधीयते ॥
स्त्रीरूपः स परो विष्णुः पायसेष्टो हि मोक्षदः ।
तस्मादुभौ सहैवेज्यौ भक्त्या दुःस्वप्नदर्शने ॥
बहुभिर्नयनैर्विष्णुर्बहुधेदं ददर्श ह ।
आयन् सर्वेषु लोकेषु धृतास्तेनैव हि श्रियः ॥
नीचानुच्चांश्च जीवान् स ब्रह्मादीनुर्वपूरयत् ।
ज्ञानेन बाधतेऽज्ञानं स्वसारं स्वं तथाऽकरोत् ॥
उषआख्यं शुक्लवर्णं प्रमदारूपमेव च ।
तमश्चापाकरोत्येव तदा सूर्यादिषु स्थितः ॥
स नः स्वामी यदुदरे यमनाद्यमनामके ।
अविक्ष्महि वयं सर्वे वृक्षे यद्वत्पतत्रिणः ॥
शेनाख्यास्तु सुखीनत्वादासमन्तात् सुरोत्तमाः ।
पद्वन्तो मानुषाश्चैव पादमात्रप्रयायिनः ॥
ग्रामाख्या बहुलत्वात्तु दैत्या एव प्रकीर्तिताः ।
अर्थिनस्तु कृतार्थत्वात् मुक्ता एव श्रुताः श्रुतौ ॥
ऊरीकृतप्रमाणत्वादूर्म्यः स भगवान् हरिः ।
वृकास्तेनैव निर्याप्याः वृकाः क्रूरत्वतोऽसुराः ॥
तत्स्वभावाश्च वृक्याः स्युः स्तेनास्तत्र महासुराः ।
ब्रह्मस्तेना यतस्ते हि नित्यमैकात्म्यवेदिनः ॥
विष्णुः सुखतरश्चैव भक्तानां भवति प्रभुः ।
कृष्णं व्यक्तं तमोऽज्ञानमज्ञानां पेशलं हि तत् ॥
तद्यातयत्यृणमिव भगवान् पुरुषोत्तमः ।
स एव चोषाः कथितः प्रकाशत्वाज्जनार्दनः ॥
जयिनः स्तोममिव च ब्राह्मणाय यथा च गाः ।
उपाकरं तथा स्तोमं तवाहं तद्वृणीष्व च ॥
द्यौरिति ज्ञानमुद्दिष्टं तद्व्यङ्गत्वाज्जनार्दनः ।
दुहिता दिव इत्युक्तः एवमर्थेन पूज्यते ॥
रात्रीसूक्तेन भगवान् साक्षान्नारायणः प्रभुः ।
तत्सन्निधानाद् दुर्गाया एषोऽर्थ उपचारतः ॥
एवं स्तुतस्तथैवेष्टो भगवान् मोक्षदो भवेत् ।
यदन्तीत्याद्यृचः सर्वा अपि दुःस्वप्नदर्शने ॥
जप्या एव विशेषोऽयं होमो दुःस्वप्नदर्शने ।
परोक्षज्ञानिनो विष्णुरापरोक्ष्यं व्रजेत् त्वरन् ॥
अपरोक्षदृशः प्रीतः सुखाधिक्यं करोत्यतः ।
मुक्तस्य द्विविधैस्तस्माज्जपो योगश्च सर्वथा ॥
कर्तव्यो न्यासिभी रात्रिसूक्तं जप्यं त्रिशोऽञ्जसा ॥
इत्यैतरेयसंहितायाम् ॥ ४ ॥अथ खल्वियं सर्वस्यै वाच उपनिषत् । सर्वा ह्येवेमाः सर्वस्यै वाच उपनिषदः । इमां त्वेवाऽऽचक्षते । पृथिव्या रूपं स्पर्शा अन्तरिक्षस्योष्माणो दिवः स्वराः । अग्ने रूपं स्पर्शा वायोरुष्माण आदित्यस्य स्वराः । ऋग्वेदस्य रूपं स्पर्शा यजुर्वेदस्योष्माणः सामवेदस्य स्वराः । चक्षुषो रूपं स्पर्शाः श्रोत्रस्योष्माणो मनसः स्वराः । प्राणस्य रूपं स्पर्शा अपानस्योष्माणो व्यानस्य स्वराः ।
अथ सर्ववाग्विषया विद्योच्यते । विष्णुशब्दार्थत्वात् सर्ववाचाम् । पूर्वोक्ता अपि सर्ववागुपनिषद एव । तथापि मुख्यत एव सर्ववाग्विषयत्वाद् वक्ष्यमाणामेव सर्वस्यै वाच उपनिषदिति सर्वेऽप्याचक्षते ।
पृथिव्यादिस्थितो विष्णुः पृथिव्याद्यभिधानवान् ।
स्पर्शादीनां देवताऽसौ क्रमेणैव प्रकीर्तितः ॥
अथ खल्वियं दैवी वीणा भवति । तदनुकृतिरसौ मानुषी वीणा भवति । यथाऽस्याः शिर एवममुष्याः शिरः । यथाऽस्याः उदरमेवममुष्या अम्भणम् । यथाऽस्यै जिह्वैवममुष्यै वादनम् । यथाऽस्यास्तन्त्रय एवममुष्या अङ्गुलयः । यथाऽस्याः स्वरा एवममुष्याः स्वराः । यथाऽस्याः स्पर्शा एवममुष्याः स्पर्शाः । यथा ह्येवेयं शब्दवती तर्द्मवत्येवमसौ शब्दवती तर्द्मवती । यथा ह्येवेयं लोमशेन चर्मणा पिहिता भवत्येवमसौ लोमशेन चर्मणा पिहिता । लोमशेन ह स्म वै चर्मणा पुरा वीणा अपिदधति । स यो हैतां दैवीं वीणां वेद श्रुतवदनो भवति भूमिप्राऽस्य कीर्तिर्भवति यत्र क्व चार्या वाचो भाषन्ते विदुरेनं तत्र ।
तस्य विष्णोरयं देहो वीणा साक्षात् प्रकीर्तिता ।
दैवी वीणा ततः सेयं लोकसिद्धा तु मानुषी ॥
ब्रह्मादिदेहान् यो वेद विष्णोर्वीणेति भक्तितः ।
विद्यापूर्णसुखः स स्याद्भूमिपूरितकीर्तिमान् ॥अथातो वाग्रसः । यस्यां संसद्यधीयानो वा भाषमाणो वा न विरुरुचुषेत । तत्रैतामृचं जपेत् । ओष्ठापिधाना न कुलीदन्तैः परिवृता पविः ।सर्वस्यै वाच ईशाना चारु मामिह वादयेत् ।इति वाग्रसः ॥५ ॥
विद्याधिक्यार्थमेवैतां वाक्सारामप्यृचं जपेत् ।
ध्यात्वा नारायणं देवं स्त्रीरूपं वाचि संस्थितम् ॥
ओष्ठा पिधानेत्येषा ह्यृक्सारो वाचः प्रकीर्तितः ।
विष्णोर्हि वाचि संस्थस्यैवोष्ठावेतौ पिधानवत् ॥
कुलीति चोक्तो भगवान् प्रलीनाशेषकुत्सितः ।
पाति सर्वं विशिष्टश्च सर्वस्मादित्यतः पविः ॥
सर्ववागीश्वरो विष्णुः स्त्रीरूपो मां सुवादयेत् ॥ इति च ।नेत्युपमानार्थम् । ओष्ठावपिधानवदस्येति । न च विष्णोरन्या सर्वस्या वाच ईशाना । स हि मुख्यतः सर्वेश्वरः । तस्यैव प्रस्तुतत्वात् वक्ष्यमाणत्वाच्च ।
श्रियःपतिर्यज्ञपतिर्जगत्पतिर्गिराम्पतिर्लोकपतिर्धरापतिः इति भागवते ।
यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ् न वेद इत्यादिश्रुतिश्च ।
स्त्रीलिङ्गत्वं देवतेत्यादिवदपि युज्यते । स्त्रीरूपत्वाच्च ॥ ५ ॥
अथ हास्मा एतत्कृष्णहारीतो वाग्ब्राह्मणमिवोपोदाहरति । प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत संवत्सरः । स च्छन्दोभिरात्मानं समदधात् । यच्छन्दोभिरात्मानं समदधात् तस्मात् संहिता ।
संवत्सर इति विशेषणाद्विरिञ्च एवात्र प्रजापतिः ।
ब्रह्मा विश्वः कतमः स्वयम्भूः प्रजापतिः संवत्सरः इत्यादि श्रुतेः ।
श्रान्तो ब्रह्मा सर्ववेदैः स्तुत्वा नारायणं प्रभुम् ।
तेनैव सम्यक्सन्धाय दार्ढ्यं देहस्य सोऽकरोत् ॥सन्धानात् संहितेत्युक्तो विष्णुरेव सनातनः
तस्यै वा एतस्यै संहितायै णकारो बलम् । षकारः प्राण आत्मा । स यो हैतो णकारषकारावनुसंहितमृचो वेद । सबलां सप्राणां संहितां वेद । आयुष्यमित विद्यात् ।
विष्णुनाम्नि णशब्देन विष्णोर्बलमुदीर्यते ॥
ण इत्याक्रियमाणत्वात् णकारोऽस्य बलं मतम् ।
विष्णुनाम्नि षकारेण रमाब्रह्मेशपूर्विणः ॥
प्रणेतृताऽखिलस्यैव विष्णोरुक्ता तथात्मता ।
आततत्वं सर्वगुणैर्देशतः कालतस्तथा ॥
आत्मशब्दोदितं तच्च षशब्देनाभिधीयते ।
ष इत्याक्रियमाणत्वं प्रणेतृत्वं च पूर्णता ॥
विष्णोः षकार इत्युक्ता वीत्युक्तस्य विशिष्टता ।
अन्त्यस्थित उकारस्तु ताच्छील्यादि हरेर्वदेत् ॥
एवं विशिष्टप्राणत्वमाततत्वं च सर्वतः ।
विशिष्टं च बलं विष्णोः सर्वस्माच्छीलमित्यपि ॥
उदितं विष्णुशब्देन तस्मादृक्संहितामनु ।
वर्णद्वयसमायोगे ष्णुशब्दस्यार्थमेव तु ॥
विष्णोः प्राणत्वमात्मत्वं बलं चैवात्र वेत्ति यः ।
स एव विष्णोर्बलवित् तथा प्राणत्वविद्भवेत् ॥
स एव मुक्तः संसारान्नित्यायुष्मान् भविष्यति ।स यदि विचिकित्सेत् सणकारं ब्रवाणीं३ अणकारां ३ इति सणकारमेव ब्रूयात् । सषकारं ब्रवाणीं ३ अषकारां इति । सषकारमेव ब्रूयात् । ते यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयीयमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ताविति ह स्माह ह्रस्वो माण्डूकेयः । अथ यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयीयमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्तावन्ति ह स्माह स्थविरः शाकल्यः ।
संहितासहितत्वेन यदृचो धीमहे वयम् ॥
वेदानन्यान्पुराणं वा तेन विष्णुपदोदितः ।
अवाप्तो भगवान् स्यान्नस्तन्नामार्था यतोऽखिलाः ॥
इत्याहुर्ऋषयः सर्वे ...एतद्ध स्म वै तद्विद्वांस आहुः ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे । किमर्था वयं यक्ष्यामहे । वाचि हि प्राणं जुहुमः प्राणे वा वाचम् । यो ह्येव प्रभवः स एवाप्ययः ।
.... किमन्याध्ययनाद् भवेत् ।
यज्ञैर्वेत्यृषयोऽप्यन्ये कावषेया वदन्ति हि ॥
मौनेन विष्णुशब्दार्थं ध्यायन्तो वाचमेव वा ।
जुहुमो विष्णुनामाख्यां जपन्तो मन्त्रमेव वा ॥
नमस्कारसमायुक्तं जुहुमः प्राणमत्र हि ।
किमन्यैर्बहुभिः कार्यैरेतस्यैवाधिकत्वतः ॥
एतदर्थानुसन्धानपूर्वं वेदानथापि वा ।
अधीमहे यजामो वा नान्यथा तु कथञ्चन ॥
एष एव हि सर्वेषां वेदानामर्थ ईरितः ।
विष्णुनामोदितो योऽर्थस्तद्व्याख्याऽन्यद्वचोऽखिलम् ॥
एवं विशिष्टप्राणात्मबलाद्यखिलसद्गुणैः ।
पूर्णस्वभावः सर्वेषां वचसामर्थ ईरितः ॥ता एताः संहिता नानन्तेवासिने प्रब्रूयात् ।नासंवत्सवासिने नाप्रवक्त्रे इत्याचार्या आचार्याः ॥ ६ ॥
संहिताख्यानि विष्णोस्तु रूपाण्येतानि सर्वशः ।
अन्यविद्यास्वशिष्यस्य न ब्रूयात् प्रथमं क्वचित्॥
व्याख्यानशक्तिहीनाय नैव ब्रूयात् कथञ्चन ।
वैष्णवाय सुवृत्ताय सुव्रताय सुशिक्षिणे ॥
शान्ताय सुविशुद्धाय मेधाश्रद्धायुताय च ।
गुरोः शुश्रूषकायैव ब्रूयादित्यनुशासनम् ॥ इति च ।य एतेन ण इति शब्देनाक्रियमाणं विष्णोः पूर्णबलं षशब्देनाक्रियमाणं देशतः कालतो गुणतश्चाततत्वं सर्वर्चां सर्वासां संहितामनु तदर्थत्वेन वेद । अक्षरद्वयसंयोगरूपया संहितयैतदेव सर्वत्रोच्यत इति, स सम्पूर्णबलं सर्वप्रणेतृत्वशक्त्यादियुक्तं विष्णुं वेद । अथेत्यादिका अपि संहितारूपा एव । पदवर्णयोः पृथगनभिव्याहारात् । तस्मात् सर्वशब्दा विष्णुनामव्याख्यानरूपा एव । यद्द्वयं संहितायुक्तत्वेनर्चोधीमहे तेनास्माकं णशब्दषशब्दार्थरूपो विष्णुरुपात्तः । तद्व्याख्यानत्वात् सर्ववाचाम् । वीत्युपसर्गत्वादुकारस्य च ताच्छील्यार्थत्वादुक्तार्थविशेषणरूपत्वेन प्रसिद्धत्वान्न पृथक्तयोर्व्याख्यानमत्र कृतम् । ऋच इति सर्ववाचामुपलक्षणम् । अतः सर्ववेदादिशब्दोदितः सर्वगुणपरिपूर्णो भगवान्नारायण इति सिद्धम् ॥ ६॥
सर्वैश्च वैदिकपदैरपि लोकशब्दैर्मेघाग्निवारिधितलादिरवैश्च सर्वैः ।
एकोऽभिधेयपरिपूर्णगुणः प्रियोऽलं नारायणो मम सदैव सुतुष्टिमेतु ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं
वपुर्मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥हनुशब्दो ज्ञानवाची हनुमान् मतिशब्दितः ।
रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि ॥
भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृतः ।
ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् ॥
प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः ।
मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥
मध्व आनन्दतीर्थः स्यात् तृतीया मारुतीतनुः ।
इति सूक्तगतं रूपत्रयमेतन्महात्मनः ॥
यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥
इति च ।साधको रामवाक्यानां तत्समीपगतः सदा ।
हनुमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः ॥
पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः ।
पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकीर्तितः ॥
दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते ।
प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः ॥
आसमन्तात् पतित्वे तु गूढं कलियुगे हरिम् ।
असत्यमप्रतिष्ठं तु जगदेतदनीश्वरम् ॥
वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति ।
येन विष्णोर्हि वर्पाख्यान् गुणानज्ञासिषुः परान् ॥
ईशानासः सूरयश्च निगूढाभिर्गुणोक्तिभिः ।
त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः ॥
येषां हि परमो विष्णुर्नेता सर्वेश्वरेश्वरः ।
स्वयम्भुब्रह्मसञ्ज्ञोऽसौ परस्मै ब्रह्मणे नमः ॥ इति च ।पूर्णानन्दगुणोदारधाम्ने नित्याय वेधसे ।
अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः ॥