Jump to content

Aitareya/C2/S3

From Grantha
Revision as of 05:32, 8 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

तृतीयोऽध्यायः

ॐ यो ह वा आत्मानं पञ्चविधमुक्थं वेद यस्माद्धीदं सर्वमुत्तिष्ठति स सम्प्रतिवित् ।


योऽसौ नारायणो देवः परमात्मा सनातनः ।
             नित्याततगुणत्वात् स आत्मेत्युक्तः सदा श्रुतौ ॥
             नारायणादिरूपेण पञ्चधाऽवस्थितः सदा ।
             सर्वस्योत्थापकत्वात् स उक्थमित्यभिधीयते ॥
             बृहतीसहस्ररूपे च स उक्थे पञ्चधा स्थितः ।
             पञ्चभेदं हि तच्छस्त्रं तृचाशीतित्रयं च यत् ॥
             पूर्वापरं तृचीशीत्या इति पञ्चात्मकं हि तत् ।
             प्रथमे पञ्चकाद्भागे स्थितो नारायणः स्वयम् ॥
             ऋक्त्रयाशीतिके पूर्वे गायत्रीच्छन्दआत्मके ।
             वासुदेवः स्थितो नित्यमृगशीतित्रये तथा ॥
             द्वितीये बृहतीच्छन्दस्यसौ सङ्कर्षणः स्थितः ।
             यस्यावेशबलेनैव जीवः सङ्कर्षणोऽपरः ॥
             पृथिवीं बिभर्ति सततं तत्प्रसादात्तवैभवः ।
             तृतीयायां तृचाशीत्यामुष्णिक्छन्दसि केशवः ॥
             प्रद्युम्नरूपी सततं स्थितो यस्यैव सन्निधेः ।
             कामः प्रद्युम्ननामाऽभूत् तत्प्रसादात्तवैभवः ॥
             उक्थस्यैवान्त्यभागे तु सोऽनिरुद्धो हरिः स्थितः ।
             कामपुत्रोऽनिरुद्धाख्यं यदावेशेन लब्धवान् ॥
             एवं पञ्चात्मकं विष्णुं बृहत्युक्थस्य देवताम् ।
यो वेद सम्यग्वेत्ता स .......
पृथिवी वायुराकाश आपो ज्योतींषीत्येव वा आत्मोक्थं पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं ह वै समानानां भवति य एवं वेद ।


.... तानि रूपाणि वै हरेः ॥
             स्थितानि पञ्चभूतेषु पृथिव्याद्यभिधानि च ।
             तदावेशात् पृथिव्यादिनाम भूतेषु पञ्चसु ॥
             पृथुत्वात् पृथिवीनामा भूमौ नारायणः स्थितः ।
             बलज्ञानस्वरूपत्वाद् वायुनामा स एव च ॥
             वायौ सङ्कर्षणो नित्यं स्थित आकाशनामकः ।
             व्याप्तत्वाद्वासुदेवस्तु सदाकाशे स्थितः प्रभुः ॥
             अनिरुद्धस्तथैवाप्सु बहुरूपो व्यवस्थितः ।
             अम्नामा पालनान्नित्यं प्रद्युम्नो ज्योतिषि स्थितः ॥
             ज्योतिर्नामा द्योतनाच्च बहुरूपः पृथक् पृथक् ।
             यद्यप्यस्य हरेः सर्वरूपाण्यप्यखिलैर्गुणैः ॥
             पूर्णान्यथापि चैकैकरूपेषु स पृथग्गुणैः ।
             व्यवहारान्पृथग्देवः करोतीव हि लीलया ॥
             तस्मात् पृथगिवास्येति नाम विष्णोः परात्मनः ।
             सर्वत्र सर्वनाम्नोऽपि व्यवहारार्थमीर्यते ॥
             एतस्माद्धि हरेर्नित्यं जगदुत्तिष्ठति प्रभोः ।
             मुक्तौ लये च तं याति स च सर्वाश्रयः प्रभुः ॥
             य एवं वेत्ति तं विष्णुमुपास्ते चापरोक्षतः ।
             स मुक्तः समजातीनामाश्रयश्च भविष्यति ॥
             स्वजातीनामुत्तमत्वपदयोग्या हि ये सुराः ।
             ब्रह्मेन्द्राद्यास्ते हि योग्याः साक्षादस्मिन्नुपासने ॥
अन्येषां ज्ञानमात्रेण योग्यमाधिक्यमाप्यते ।
तस्मिन् योऽन्नं चान्नादं च वेदाहास्मिन्ननादो जायते । भवत्यस्यान्नमापश्च पृथिवी चान्नमेतन्मयानि ह्यन्नानि भवन्ति ॥ज्योतिश्च वायुश्चान्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश आकाशे हीदं सर्वं समोप्यत आवपनं ह वै समानानां भवति य एवं वेद ।


सङ्कर्षणश्च प्रद्युम्नस्तत्र भोक्तृषु संस्थितौ ॥
             भोक्तृशक्तिप्रदौ नित्यं भोक्तारौ च विशेषतः ।
             नारायणानिरुद्धौ तौ भोग्यवस्तुषु संस्थितौ ॥
             तर्पकौ सर्वलोकानां तस्माद्भोग्यौ न चर्व्यतः ।
             अवकाशप्रदो नित्यं वासुदेवो नभःस्थितः ॥
             एवं पञ्चात्मकं विष्णुं य उपास्ते सदैव च ।
             अवकाशप्रदः सोऽपि स्वजातीनां भविष्यति ॥
             भोक्ता चाप्यायकश्चैव तस्य विष्णोः प्रसादतः ।
             ब्रह्मेन्द्राद्याः स्वजातीयपदयोग्या अमुष्य च ॥
योग्या उपासनस्य स्युस्तदन्ये ज्ञानमात्रके ।
तस्मिन् योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नं प्राणभृतोऽन्नादमोषधिवनस्पतीन् हि प्राणभृतोऽदन्ति । तेषां य उभयतोऽदन्ताः पुरुषस्यानुविधां विहितास्तेऽन्नादाः अन्नमितरे पशवस्तस्मात् त इतरान् पशूनधीव चरन्त्यधीव ह्यन्नेऽन्नादो भवत्यधीव ह समानानां जायते य एवं वेद ॥१ ॥


सङ्कर्षणश्च प्रद्युम्नो जङ्गमेषु व्यवस्थितौ ॥
             नारायणानिरुद्धौ तु स्थावरान्तर्गतौ प्रभू ।
             तत्राप्याकाशगो नित्यं वासुदेवो निरञ्जनः ॥
             प्राणानां भरणान्नित्यं प्राणभृन्नाम तद्धरेः ।
             न ह्यन्यः प्राणभर्ताऽस्ति तमृते पुरुषोत्तमम् ॥
             ओषणाच्च निधानाच्च स एवौषधिनामकः ।
             वननीयपतित्वाच्च स एव हि वनस्पतिः ॥
             अन्ने स्थित्वा तृप्तिदत्वं तस्याद्यत्वमपीष्यते ।
             पुरुषस्य हरेर्ये तु सदाकारेण संस्थिताः ॥
             देवगन्धर्वमर्त्याद्यास्तेषु सङ्कर्षणो हरिः ।
             प्रद्युम्नश्च स्थितो नित्यं पुरुषाकृतिरेव तु ॥
             तौ भोक्तारौ च भोग्यानां भोजकावखिलस्य च ।
             नारायणानिरुद्धौ तु तथान्यपशुषु स्थितौ ॥
             वृषभाश्वादिरूपेण तृप्तिदावखिलस्य च ।
             वाहनोपानहादीनामारोढारो नरादयः ॥
             यतः सङ्कर्षणश्चैव प्रद्युम्नस्तेषु संस्थितौ ।
             ततस्तयोर्हि सञ्चार उपरीव भविष्यति ॥
             आकाशगो वासुदेवः पञ्चमोऽत्राप्युपास्यते ।
             वाहनादियुतो मुक्तौ भवेदेतदुपासकः ॥
इत्यैतरेयसंहितायाम् ।
आत्मशब्दाच्च न भूतमात्रमत्रोच्यते । न च मुख्यार्थं परित्यज्योपचारार्थोऽङ्गीकर्तव्यो विरोधाभावे । सर्वनामवत्वं च भगवतः श्रुत्यैवोपपादितं पूर्वत्र । वपनीरोमकरणावकाशप्रदानबीजवर्धनेषु इति च धातुः । तस्मिन् पञ्चके योऽन्नमन्नादं च वेद सोऽस्मिन् स्वजातियूथे विशेषेणान्नाद आजायते ह । तस्मिन् वेद अस्मिन्नाजायत इति पृथक् पृथक् पुनः पुनर्विशेषणादुपासकस्य स्वजातिसन्निधानाच्च स्वजाताविति ज्ञायते ।
क्षीराब्धिशयनं विष्णो रूपं यत्पुरुषाभिधम् । सङ्कर्षणश्च प्रद्युम्नस्तदाकारौ नृषु स्थितौ ॥
             नारायणानिरुद्धौ तु पश्वाकारौ पशुस्थितौ ॥
इति सत्तत्त्वे ।
गुणवैशेष्याभावेन वाहनादिषु चरणमात्रादधीव चरन्तीत्यादाविवशब्दः ॥ १ ॥
तस्य य आत्मानमाविस्तरां वेदा । अश्नुते हाऽऽविर्भूय ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् । स आत्मानमाविस्तरां वेद । ओषधिवनस्पतिषु हि रसो दृश्यते । चित्तं प्राणभृत्सु । प्राणभृत्सु त्वेवाविस्तरामात्मा । तेषु हि रसोऽपि दृश्यते । न चित्तमितरेषु । पुरुषे त्वेवाविस्तरामात्मा । स हि प्रज्ञानेन सम्पन्नतमः । विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनम् । वेद लोकालोकौ । मर्त्येनामृतमीप्सत्येवं सम्पन्नः । अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानम् । न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकौ । त एतावन्तो भवन्ति । यथाप्रज्ञं हि सम्भवाः ॥२ ॥


आविर्भावं तारतम्याद्यो वेद परमात्मनः ।
             स तस्यैव विशेषेण प्रीतियोगाद् भविष्यति ॥
             स्थावरं जङ्गमं चैव भूयस्त्वेनाश्नुते हरिः ।
             आविर्भूतस्तेषु सदा सम्यक्स्वात्मानमेव च ॥
             तारतम्यात् सन्निहितं सर्वभूतेषु केशवः ।
             वेत्त्येक एव विष्णोर्यद्विशेषावेशनं सदा ॥
             जङ्गमेषु च वृक्षेषु नैव तादृक्शिलादिषु ।
             तस्माद् वृक्षादिषु रसश्चित्तं चलनवत्सु च ॥
             दृश्यते न शिलाद्येषु सन्निधिर्न हि तादृशी ।
             शिलाद्येषु स्थितो विष्णुर्भारदार्ढ्यादिकारणम् ॥
             नैव चित्तादिकस्यातो वृक्षाद्या उत्तमास्ततः ।
             विशेषोऽयं पदार्थानां न तु विष्णोः कदाचन ॥
             यत्र विष्णुर्गुणाधिक्यं दर्शयेद् वस्तु तद्वरम् ।
             गुणपूर्णो हि सर्वत्र स्वयं विष्णुः सनातनः ॥
             वृक्षेभ्योऽप्यधिकं विष्णुर्जङ्गमेषु प्रकाशितः ।
             तेभ्योऽपि पुरुषे विष्णुर्गुणाधिक्यप्रकाशकः ॥
इत्यादि च ।
य आत्मानं परमात्मानमाविस्तरां आविर्भावतारतम्येन वेद स तस्य विष्णोरेव । सर्वेषां तदीयत्वेऽपि प्रियत्वात् तदीयत्वविशेषणम् । ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् तत्सर्वं शिलादिभ्यो भूयस्त्वेन तेष्वाविर्भूतोऽश्नुते भगवान् । स एव च नारायणः सम्यक् स्वात्मानमाविस्तरां वेद । अन चेष्टायामिति धातोश्चेष्टावत्त्वमेव प्राणभृत्त्वं पश्वादीनाम् । ज्ञानानुसारेण ह्युत्पत्तयः सम्भवाः ॥
स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किञ्चाश्नुतेत्येनं मन्यते । यद्यन्तरिक्षलोकमश्नुतेऽत्येनं मन्यते यद्यमुं लोकमश्नुवीतात्येवैनं मन्येत ।


योऽस्मिन् पुरुषे पश्वादिभ्य आधिक्येन सन्निहितो भगवान् स एष पुरुषः समुद्रः समुद्रिक्तोऽन्येभ्यः । स जीवो यद्यपि भगवत्प्रसादात् सर्वलोकाधिपो भवति । सर्वलोकानतीत्य यत्ककिञ्चिदलौकिकं मोक्षाख्यमप्यश्नुते । तथापि तमेनमात्मशब्देन प्रस्तुतं विष्णुमत्येव मन्यतेऽधिकमेव मन्यते स्वात्मनः सर्वस्माच्च । मुक्तोपि न तेन साम्यं तद्भावं वा मन्यते । कृष्णो मुक्तैरिज्यते वीतमोहैः मुक्तानां परमा गतिः अमृतस्यैष सेतुः इत्यादिवाक्याच्च ।।
यद्यपि देवलोकाधिपत्यं तद्योग्यस्य विष्णुर्ददाति तदप्यश्नुवीतैव । बहुगणिकादिपरिवाररूपमशुचीदं पदमित्यादिबुद्ध्या नापह्नुवीत । एनं भगवन्तमतिमन्येतैव सर्वथा स्वतः सर्वस्माच्चाधिकमेव मन्येत । यद्यमुं लोकमश्नुते प्राप्नोति अश्नुवीत भुञ्जीत । पृथिवीलोकाधिपत्येऽपि विष्णोराधिक्यं सत्पुरुषो मन्यत इति प्रत्यक्षसिद्धत्वान्न पृथगुक्तम् । अतिशब्दाद्यद्ध किञ्चेति प्रथमोक्तो मोक्ष इति सिद्धम् । अन्तरिक्षप्राप्तेरल्पत्वान्मोक्षे स्वतः सिद्धत्वाच्चातिमन्यते इति सिद्धवचनमेव कृतम् । स्वर्गादिप्राप्तेरधिकैश्वर्याद् भगवत्समोऽहं भगवत्स्वरूप इति वा मन्तुं प्राप्तिरस्तीत्येवैनं मन्येतेति सावधारणा विधिः ।।
न च मन्यते इति काममात्रम् । मनु अवबोधन इति धातोः । न ह्यवबोध एव कामः । अन्यथा राज्यं जानन्नपि राज्यकाम इति स्यात् । न च मन्यते मन्येतेति द्विविधः प्रयोगस्तस्मिन् पक्षे युज्यते । न च सर्वलोकमतीत्याश्नतो मुक्तस्य मुक्तेरन्यत्र कामो विद्यते । सर्वलोकाधिकं च मुक्तिं विना नान्यत् । तस्मान्मुक्तैरमुक्तैरपि भगवान् सर्वोत्तमत्वेन चिन्त्य इति सिद्धम् ।
स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपः । यच्छरीरं सा पृथिवी । यः प्राणः स वायुः । स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः । ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं मनो वागिति । प्राणस्य ह्यन्वपायमेता अपि यन्ति ।


पुरुषस्थपञ्चभूतेषु पञ्चरूपो हरिः स्थितः ।
             प्रद्युम्नादिस्वरूपेण ज्योतिरादौ पृथक् पृथक् ॥
             स एव च पुनर्वायौ पञ्चधाऽवस्थितः प्रभुः ।
             प्राणादिरूपे वसति ह्यनिरुद्धादिरूपवान् ॥
             अनिरुद्धः स प्रद्युम्नस्तथा सङ्कर्षणः प्रभुः ।
             वासुदेवो नारायणः पञ्चरूप इति क्रमात् ॥
             पञ्चरूपोऽपि भगवान् यस्माद्वायौ विशेषतः ।
             स्थितस्तेन च खादिभ्यो वायुरेव विशिष्यते ॥
             अत एव पृथिव्यादिस्वरूपा मनआदयः ।
             देवाः प्राणाश्रिता नित्यं गच्छन्ति प्राणमन्वपि ॥
             पृथिवीमयं मनस्तत्र शेषवीन्द्रशिवेन्द्रकाः ।
             कामानिरुद्धौ देवगुरुर्मनोदेवाः सचन्द्रकाः ॥
             श्रोत्रमाकाशरूपं च मित्रधर्मजलाधिपाः ।
             कुबेरश्च दिशां देवाः श्रोत्रदेवा इति श्रुताः ॥
             ज्योतीरूपं तथा चक्षुश्चक्षुर्देवो रविः स्मृतः ।
             किञ्चित् तेजोयुता वाक्च विशेषेण त्वबात्मिका ॥
             उपचीयते ततः साऽद्भिस्तदभावे च शुष्यति ।
             तृषितस्य हि वागेव पूर्वं मन्दा प्रवर्तते ॥
             वाग्देवते ततो वह्निरुमा चापि प्रकीर्तिते ।
             चक्षुष्ट्वमग्नेः श्रोत्रत्वं चन्द्रस्यापि सहोच्यते ॥
             स्वाहाया अपि वाक्त्वं च पर्जन्यस्य मनःस्थितिः ।
             द्वितीयमेतदास्थानं श्रुतिवाक्यप्रमाणतः ॥
             शेषवीन्द्रशिवादीनां मनआदिस्वरूपिणाम् ।
आश्रयो वायुरेवैकस्तस्य नारायणः स्वयम् ॥
स एष वाचश्चित्तस्योत्तरत्तरिक्रमो यद्यज्ञः । स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः । स एव यज्ञानां सम्पन्नतमो यत्सोमः एतस्मिन् ह्येताः पञ्चविधाः अधिगम्यन्ते यत् प्राक्सवनेभ्यः सैका विधा त्रीणि सवनानि, यदूर्ध्वं सा पञ्चमी ॥३ ॥


तस्माद् वायुवशानां हि वाक्चित्तादिस्वरूपिणाम् ।
             देवानां क्रमवृत्तिभ्यो जाते यज्ञेऽपि केशवः ॥
             अग्निहोत्रादिके नित्यमनिरुद्धादिरूपकः ।
             पञ्चधाऽवस्थितः सोमे पञ्चरूपो व्यवस्थितः ॥
             सवनत्रयात् पूर्वके च सवनत्रितये परे ।
             अनिरुद्धादिरूपेण क्रमेणैव व्यवस्थितः ॥
             तमेतं परमं विष्णुं मुक्तोऽप्यत्येव मन्यते ।
             अधिकं ह्येव तस्मात् तं मन्येतान्योऽपि सर्वदा ॥
इत्यादि च ।
पञ्चरूपभगवद्ध्यानार्थमेव चैतत्पञ्चविधत्वं सर्वत्रोक्तम् ॥ ३ ॥
यो ह वै यज्ञे यज्ञं वेदाहन्यहर्देवेषु देवमध्यूळ्हं स सम्प्रतिवित् । एष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोऽध्यूळ्हो यदेतन्महदुक्थम् । तदेतत्पञ्चविधम् । त्रिवृत्पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमतः । गायत्रं रथन्तरं बृहद्भद्रं राजनमिति सामतः । गायत्र्युष्णिग्बृहतीत्रिष्टुब् द्विपदेति छन्दस्तः । शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम् ।


यज्ञेषु यज्ञनामानं याज्यत्वात् पुरुषोत्तमम् ।
             अधिरूढं तथाऽहस्सु चाहर्नामानमेव तु ॥
             अहार्यत्वाद्धि देवेषु देवं सर्वोत्तमत्वतः ।
             एवं च सर्वनामानं सर्वेषु स्थितमच्युतम् ॥
             स्तोमादिषु च यो वेद स सम्यग्विदिति श्रुतः ।
             य एष उक्थनामासौ सर्वोत्थापनको हरिः ॥
             महांश्च परिपूर्णत्वात् सहस्रबृहतीस्थितः ।
             अहरह्नां स यज्ञानां यज्ञो देवाधिकोऽपि सः ॥
             अनिरुद्धादिरूपेण स विष्णुः पञ्चधा स्थितः।
             स्तोमसामचितिच्छन्दश्शस्त्रेष्वपि पृथक् पृथक् ॥
एकैकमेव तद्रूपमनिरुद्धादिपञ्चकम् ।
पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निधनमुपयन्ति । तत्स्तोभसहस्रं भवति । एवं ह्येताः पञ्चविधाः अनुशस्यन्ते यत्प्राक्तृचाशीतिभ्यः सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी ।


प्रस्तावादिष्वपि विभुः पञ्चधैव व्यवस्थितः ॥
             प्रस्तावादीन् पञ्चकृत्वस्तस्मादेव प्रकुर्वते ।
             पञ्चरूपं तमेवैकं स्तोतुमेव पृथक् पृथक् ॥
             तत्र ये स्तोमशब्दाश्च संस्थिता बहुकोटयः ।
पृथक् पृथक्तेऽपि विष्णोः प्रादुर्भावान् प्रचक्षते ॥
तदेतत्सहस्रम् ।


अनन्तरूपो हि हरिः शब्दोऽप्येष ह्यनन्तधा ।
             विष्णोः सहस्रनामस्तु यत्तद्रूपसहस्रकम् ॥
             बृहतीसहस्रमेतच्च तद्वक्ति हि पृथक् पृथक् ।
             सहस्रशब्दोऽप्यमितं यतो वक्त्यमितान्यतः ॥
             नामानि विष्णोरुच्यन्ते सहस्रमिति चाख्यया ।
             अनन्तनामवचने त्वशक्तत्वात् सहस्रकम् ॥
             नाम्नां पृथगिदं प्रोक्तमनन्ततनुवाचकम् ।
             विष्णोरनन्तरूपाणामुक्त्वा पञ्चशतद्वये ॥
             आसीत् सहस्रमित्याख्या सहस्रं मुख्यतोऽमितम् ।
             ब्रह्म यावत् तावती वागिति वेदप्रमाणतः ॥
             सहैवानन्तरूपैस्तु सरणेन सहस्रकम् ।
             नाम्ना सह सृतेरेव रूपाणां वा सहस्रता ॥
             बृहतीसहस्रं चैतस्माद्रूपानन्ताभिधायकम् ।
             पृथक् पृथग्घि नामार्था ऋच एताः प्रकीर्तिताः ॥
             सर्वनामात्मकं तस्मादृक्सहस्रमिदं हरेः ।
सर्वरूपाण्यतो विष्णोस्संस्तुतान्यमुनैव हि ॥४० ॥
तत्सर्वम् । तानि दश


मत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः ।
             कृष्णबुद्धौ च कल्कीति रूपाणां दशकं हरेः ॥
             पञ्चभेदविभिन्नेन ह्यृक्सहस्रेण शस्यते ।
             रूपाणां पञ्चकं पूर्वमपरं पञ्चकं हरेः ॥
             प्रस्तावाद्यैरानिधनैः स्तूयते सामभक्तिभिः ।
             तानि रूपाण्यस्य दश सर्वरूपात्मकानि च ॥
             दशनामानि चास्यैव सर्वरूपाभिधान्यपि ।
             पञ्चकं सामभक्तीनामृक्सहस्रं च तद्द्वयम् ॥
स्तावकं सर्वरूपाणामत एव रमापतेः ।
दशेति वै सर्वम् ।


दशेति सर्वनामैतत्प्रथितं मुख्यतः श्रुतौ ॥
             शं रूपं भगवन्तं यद्दद्याद् व्यक्त्या समस्तशः ।
             दशेत्यमितनाम्नां तदाख्या रूपेषु शन्ददेः ॥
             सर्वनामार्थवचनात् पञ्चकद्वितयस्य च ।
             अभूद्दशेति वै नाम तस्मादेतद्दशाखिलम् ॥
             एतावती हि सङ्ख्या । दश दशतस्तच्छतम् । दश शतानि तत्सहस्रम् । तत्सर्वम् ।
             दशैव मूलसङ्ख्या च तद्विभेदाः शतादयः ।
             ऋक्सहस्रमिदं तस्मादनन्तगुणमच्युतम् ॥
             अनन्तशक्तिममितरूपनामानमेव च ।
वक्ति ...
तानि त्रीणि च्छन्दांसि भवन्ति । त्रेधा विहितं वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति ॥४ ॥


.... छन्दस्त्रयं चात्र तृचाशीतित्रयात्मकम् ॥
             अशनादित्रिकं तच्च भूत्वा विष्णुमुपैति च ।
             सर्वच्छन्दोऽभिधश्चैव सर्वदेवाभिधस्तथा ॥
             सर्वमुन्यभिधश्चैव सर्ववस्त्वभिधो हरिः।
             अनन्तपूर्णगुणकस्तस्माज्ज्ञेयो रमापतिः ॥
             मुख्यतोऽस्यां च विद्यायां योग्य एकश्चतुर्मुखः ।
             एकदेशपरिज्ञाने त्वन्ये योग्याः शिवादयः ॥
इति च ।
..त्रिविधो ह्यनिरुद्धोऽसावध्यात्मादिविभेदतः ।
             अतस्त्रिवृदिति प्रोक्तस्तथा पञ्चदशात्मकः ॥
             प्रद्युम्नः पञ्चभूतेषु ह्यध्यात्मादिविभेदतः ।
             लिङ्गसप्तदशस्थत्वात् तावान् सङ्कर्षणः श्रुतः ॥
             सप्तधातुषु संस्थः सन्नध्यात्मादिविभेदतः ।
             एकविंशो वासुदेवो मन आदिचतुष्टये ॥
             गुणत्रये च प्रकृतावध्यात्मादिविभेदतः ।
             मूलरूपेण च सह पञ्चविंशात्मकः प्रभुः ॥
             नारायणस्त्वचिन्त्यात्मा स एकोऽपि ह्यनन्तधा ।
             गायकानां त्राणतोऽसौ गायत्रमनिरुद्धकः ॥
             प्रद्युम्नो हि रथारूढस्तेन चोक्तो रथन्तरम् ।
             बृहद्रूपो बृहन्नामा तथा सङ्कर्षणः प्रभुः ॥
             भद्रं तु वासुदेवोऽसौ भद्रमोक्षप्रदो यतः ।
             नारायणो राजनं स्याद् राजयत्येष मोक्षिणः ॥
             गायत्री त्वनिरुद्धोऽसौ त्रिकाले गीयते यतः ।
             उष्णिगुष्णस्वरूपत्वात् प्रद्युम्नोऽग्न्यादिसंस्थितः ॥
             स्त्रीरूपो बृहतीनामा बृहत्सङ्कर्षणः प्रभुः ।
             वासुदेवस्तथा त्रिष्टुप् त्रिवेदैः स्तूयते यतः ॥
             नारायणस्तु स्त्रीरूपो द्विधैवासौ व्यवस्थितः ।
             द्विपदेति ततो नाम सर्वच्छन्दोभिधा इमे ॥
             वनितातनवः प्रोक्ताः मध्यं नारायणः प्रभुः ।
             वासुदेवोऽस्य पुच्छं च वामदक्षौ च पक्षकौ ॥
             सङ्कर्षणश्च प्रद्युम्नः क्रमादेव प्रकीर्तितौ ।
             अनिरुद्धः शिरश्चैव तथैकोऽपि हि पञ्चधा ॥
             प्रस्तावनामानिरुद्धो रक्षन् संस्तूयते यतः ।
             सृजन् जगच्च रमया प्रद्युम्नस्तत्र गीयते ॥
             उद्गीथनामा तेनासौ जगदुद्गमनेन वा ।
             संहारात् प्रतिहाराख्यस्तथा सङ्कर्षणः प्रभुः ॥
             मोचयित्वा समीपं हि द्रावयेद् वासुदेवकः ।
             तेनोपद्रवनामासौ निधीयन्ते यतोऽखिलाः ॥
             मुक्ता नारायणे देवे तेनासौ निधनाभिधः ॥
इत्यादि च ।
..स्तूयमानत्वात् स्तोमः । समत्वात् साम । छन्द्यत्वात् छन्दः ॥ ४ ॥
तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तद्धैतदेके नानाच्छन्दसां सहस्रं प्रतिजानते किमन्यत्सत् । अन्यद् ब्रूयामेति त्रिष्टुप्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्सहस्रमेके ।


तदिदमुक्तप्रकारेणैव बृहतीसहस्रं सम्पन्नं भवति । तदेके नानाच्छन्दसां सहस्रं शंसितव्यमेव बृहतीसहस्रसम्पादनमविवक्षितमिति प्रतिजानते । केचित् त्रिष्टुप्सहस्रमेव शंसितव्यमिति ।
तदुक्तमृषिणाऽनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति । वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत् तदुक्तं भवति ।


अनुष्टुप्सहस्रमेवेति वदन्तोऽनुष्टुप्प्रशंसात्मिकामृचं दर्शयन्ति । बीभत्सूनां जगद्भर्तुमिच्छूनाम् । अपां सयुजं सहैव चरन्तं चाहुः विष्णुं हंसस्वरूपिणम् । अनुष्टुभं चर्चूर्यमाणं पुनः पुनर्वदन्तं परमेश्वरं ददृशुश्च ।
मेघसंस्थं हंसरूपं तं विष्णुं परमेश्वरम् ।
             विरिञ्चशिवपूर्वेभ्यो नृसिंहानुष्टुभं पराम् ॥
             उच्चारयन्तमर्थांश्च व्याचक्षाणं समन्ततः ।
             ददृशुर्मुनयो दिव्या आचार्यं ब्रह्मशर्वयोः ॥
             एवं वायुं च ददृशुस्तत्र हंसस्वरूपिणम् ।
             शिवादिभ्यो व्याहरन्तं तामेवानुष्टुभं पराम् ॥
इत्यादि च ।
वागाख्यायामनुष्टुभ्युच्चार्यमाणायां हि मुनयो विष्णुं ददृशुः । अतो ब्रह्मादयोऽपि विष्णोः सकाशादनुष्टुभर्थं सर्वदा शृण्वन्तीति ज्ञायतेऽतोऽनुष्टुबेव छन्दसां वरेति चोक्तं भवति ।
स हेश्वरो यशस्वी कल्याणकीतिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माह ।


अनुष्टुभां सहस्रं तु यः शंसीतात एव तु ।
             भवितुं चेश्वरः स स्याद् भावो मुक्तिर्न चान्यथा ॥
             यशस्वी स प्रसिद्धः स्याच्छुभकीर्तिश्च सर्वदा ।
स्वच्छन्दमृत्युता च स्यात् तस्येत्याहैतरेयकः ॥
अकृत्स्नो ह्येष आत्मा यद्वागभि हि प्राणेन मनसेस्यमानो वाचा नानुभवति । बृहतीमभि सम्पादयेदेष वै कृत्स्न आत्मा यद्बृहती ।


महैतरेयो भगवान् तन्नेत्याह रमापतिः ।
             नानाच्छन्दःप्रशंसादिप्रमाणरहितत्वतः ॥
             परिहाराय चापूर्णमैतरेयमुने शृणु ।
             त्वं तु मन्त्रमुदाहृत्य यस्मादेतदवोचथाः ॥
             तस्माद् वक्ष्याम्युत्तरं ते प्रियः शिष्योऽसि मे यतः ।
             उमैव वागिति प्रोक्ता साऽनुष्टुबभिमानिनी ॥
             अकृत्स्ना सा ततो नैव ब्रह्मेत्युक्ता कथञ्चन।
             वागिन्द्रियाभिमानिन्यां न हि ब्रह्मवचः क्वचित् ॥
             वायुना प्राणरूपेण मनोरूपशिवेन च ।
             अभ्यस्यमानोऽनुभवेत् पुमान् वाचा तु न क्वचित् ॥
             अभिमानी बृहत्यास्तु वायुरेव यतः प्रभुः ।
             तस्मादेषा छन्दसां हि वरिष्टा बृहती स्मृता ॥
             पूर्णो हि वायुर्देवानां तस्माद् ब्रह्मेति चोच्यते ।
माहात्म्याधिक्यतश्चैव बृहतीत्येव नाम तत् ॥
सोयमात्मा सर्वतः शरीरैः परिवृतः । तद्यथाऽयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता । मध्यं ह्येषामङ्गानामात्मा । मध्यं छन्दसां बृहती । स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुरायुषः प्रैतोरिति ह स्माऽऽह । कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद् बृहतीमेवाभिसम्पादयेत् ॥ ५ ॥


अङ्गेभ्य एव सम्भूतान्यन्यच्छन्दांसि चाब्जजात् ।
             मध्यात् तु बृहती जाता तस्मात् सा मध्यमुच्यते ॥
             पठ्यते तेन मध्ये सा छन्दसां प्रवरा सती ।
             छन्दांस्यन्यान्यङ्गवत् स्युर्मध्यवद् बृहती परा ॥
             सप्तछन्दांसि चैवं हि प्रतिमा वैष्णवी मता ।
             गायत्रीदेवतात्वं च लक्ष्म्या यत्राभिधीयते ॥
             बृहती देवता तत्र भगवान् पुरुषोत्तमः ।
             आधिक्यं छन्दसां यत्र गायत्र्यास्तु विवक्षितम् ॥
             तत्र तत्पुत्रको वायुः बृहतीदेवता मता ।
             ऋचामाधिक्ययोगार्थं नाङ्गीकर्तव्यमत्र तत् ॥
             प्रधानत्वाद् बृहत्यास्तु जगत्याद्यं न युज्यते ।
             सम्पादनाद् बृहत्यास्तु मुक्तो भवितुमीश्वरः ॥
             स्यात् प्रसिद्धः सुकीर्तिश्च छन्दोमृत्युर्गुणाधिकः ।
             इति प्राह स्वयं विष्णुर्महिदासाभिधः प्रभुः ॥
इत्यादि च ।
इतोऽन्यत् सत्किमित्याहुर्नानाच्छन्दस्त्ववादिनः । अन्यत् सद्रूपमित्याहुस्त्रिष्टुब्वादिन एव ते ॥
ऐन्द्रं प्राणं परमेश्वरसहितं वायुम् । प्राणेन मनसा च अभि इस्यमानोऽभ्यस्यमानः । तृतीयोऽतिशये इति सूत्रादकारस्येकारः । मथनात् मिथिलो जातः सहनात् सिंह उच्यते । हत्वी दस्यून् इत्यादिवच्च । अभ्यस्यमानः अभितः क्षिप्यमाणो विषयेषु बहुशः । कृत्स्न आत्मा कृत्स्नप्रतिमा विष्णोः ।
एकापि प्रतिमा विष्णोर्बृहती च्छन्दसां वरा ।
             अन्यच्छन्दोऽभिधा यत्स्यात् प्रतिमा मध्यमैव तत् ॥
इति च ।
एवं ब्रह्मादिभिः श्रूयमाणानुष्टुबपि बृहत्या अङ्गमिति बृहत्या एवाधिक्यमुक्तं भवति ॥ ५ ॥
तद्वा इदं बृहतीसहस्रं सम्पन्नं तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्यैकादशानुष्टुभां शतानि भवन्ति । पञ्चविंशतिश्चानुष्टुभः । आत्तं वै भूयसा कनीयः ।


बृहतीसम्पादनेऽनुष्टुप्शंसनमात्रात् पञ्चविंशोत्तरशतानुष्टुबाधिक्यं च भवति । अत आधिक्यात् बृहतीसम्पादनमेव वरम् । तस्यात्रैवान्तर्भावात् । जगत्यादिकं त्वधिकत्वेऽपि बृहतीवन्माहात्म्याभावादेवोपेक्ष्यते ।
तदुक्तमृषिणा ॥वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवित । नवस्रक्तिमिति बृहती सम्पद्यमाना नवस्रक्ति । ऋतस्पृशमिति सत्यं वै वागृचा स्पृष्टा । एन्द्रात् परि तन्वं मम इति । तद्यदेवैतद्बृहतीसहस्रमनुष्टुप्सम्पन्नं भवति । तस्मात् तदैन्द्रात् प्राणाद् बृहत्यै वाचमनुष्टुभं तन्वं संनिर्मिमीते ।


वाचमष्टापदीमहमित्यनुष्टुभो बृहतीसम्पादनवचनाच्च । अष्टचतुरक्षराण्यनुष्टुप् । तस्या एव बृहतीसम्पादने नव स्रक्तयो भवन्ति । ऋचा वाक् ऋग्रूपेण वागृतं स्पृष्टा सत्यरूपं विष्णुं स्पृष्टा भवति । इन्द्रस्य परमेश्वरस्य विष्णोः सम्बन्धी नितरां प्रियत्वाद्यः प्राणदेवता वायुः तस्य प्रतिमारूपमिदं बृहतीसहस्रम् । स च वायुर्विष्णोर्मुख्यप्रतिमा । तस्माद् विष्णोरेव प्रतिमा बृहतीसहस्रम् ।
तस्मात् तस्यैव बृहतीसहस्रत्वेन सम्पन्नस्य पञ्चविंशोत्तरैकादशशतानुष्टुप्त्वेन सम्पादने बृहतीदैवतप्राणरूपाद् वायोरनुष्टुब्देवताया वाग्रूपाया उमाया उत्पत्तिः संस्मृता भवत्येवं जानतः । ततश्चोमाया अपि भगवत्प्रतिमात्वाद् विष्णुप्रतिमास्थापक एव भवत्येतत् सर्वं सम्यग्ध्यायन् । विष्णुरेव बृहत्याः प्राणस्याधिष्ठातृदेवता । प्रतिमाधिष्ठितदेवतावत् । तस्माद् बृहत्याः सकाशादनुष्टुप्सम्पादने तस्यैव विष्णोः प्रतिमान्तरं तस्मादेव निर्मितं भवति । अत एवेन्द्रात् परितन्वं मम इत्युक्तम् । बृहतीस्थविष्णोर्बलादेव तत्सम्पद्यते । स हि तस्याः षट् त्रिंशदक्षरादित्वमपि नियमयति तत्प्रसादाद् वायुश्च । वायुरेव यद्भगवन्नियतो नियमयति तस्मादिन्द्रात् परीत्यस्यैन्द्रात् प्राणादिति व्याख्या कृता ।
यावत्सहस्रं बृहती तावच्छंसेदनुष्टुभाम् ।
             छन्दसां वा तदन्येषां बृहतीत्वं स्मरेत् ततः ॥
             तेन सर्वगतो विष्णुः सर्वस्मादधिकोऽर्चितः ।
             भवेदेवं जानतस्तु कृता च प्रतिमा भवेत् ॥
             तथा वायोरपि कृता वायुर्हि प्रतिमा हरेः ।
             तस्माद् वायुकृतं सर्वं क्रियते विष्णुनैव हि ॥
             बृहतीसहस्रं सम्पन्नमेकादशशतं पुनः ।
             अनुष्टुभां स्मरेत् पञ्चविंशोत्तरमुदारधीः ॥
             तेन वायोरुमोत्पत्तिः सम्यग्ज्ञानात् स्मृता भवेत् ।
             ततो द्वितीयप्रतिमा विष्णोरेव कृता भवेत् ॥
             विष्णुनाऽनुप्रविष्टौ यदुमा वायुश्च तद्वशौ ॥
इत्यादि च ।
स्रक्तयो विभागाः । स्रक्तिरंशो विभागश्च विदलं चेति कथ्यते । इति शब्दनिर्णये ।
स वा एव वाचः परमो विकारो यदेतन्महदुक्थम् ।


स वा एष वाचः परमो विकारः अकाराख्यवाग्विकारेषूत्तमो बृहतीसहस्राख्यः ।
अकारः प्रथमं नाम विष्णोः सर्वगुणान् ब्रुवन् ।
             सर्वदोषविरुद्धत्वाद् गुणनामन्यतामपि ॥
             विष्णोर्वदति जीवेभ्यो जडेभ्यश्चैव सर्वदा ।
             अभावं चैव दोषाणां सर्वेषां केशवे वदेत् ॥
             सम्यग्वक्तृत्वतस्तस्मादकारो मुख्यनाम हि ।
             तदर्थानेकदेशेन शब्दाः सर्वेऽपि चोचिरे ॥
             व्याख्याव्याख्येयरूपत्वं विकारत्वमिहोदितम् ।
             विकारत्वं च नान्यत् स्यान्नित्या वेदा यतोऽखिलाः ॥
             वाचकेषु तथा विष्णोः सहस्रबृहतीमयम् ।
             उक्थमुत्तममुद्दिष्टं व्याख्याऽकारस्य सा परा ॥
             अन्येऽपि शब्दाः सर्वेऽपि ह्यकारार्थाभिधायिनः ।
येषां परममुक्थं तत् ....
तदेतत्पञ्चविधम् । मितममितं स्वरः सत्यानृते इति । ऋग्गाथा कुम्ब्या तन्मितम् । यजुर्निगदो वृथावाक्तदमितम् । सामाथो यः कश्च गेष्णः स स्वरः । ओमिति सत्यम् । नेत्यनृतम् । तदेतत्पुष्पं फलं वाचो यत्सत्यम् । सहेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः पुष्पं हि फलं वाचः सत्यं वदति ॥अथैतन्मूलं वाचो यदनृतम् । तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते । तस्मादनृतं न वदेद् । दयेत त्वेनेन ॥


....तदेतत्पञ्चधा स्थितम् ॥
             व्याख्यानमेवाकारस्य सहैवोक्थेन सर्वशः ।
             मितामिते स्वरस्सत्यमनृतं चेति पञ्चधा ॥
             तस्मादकार एवायं सर्ववागात्मकः श्रुतः ।
             तस्यैव व्यक्तिरूपोऽयं सर्ववेदादिविस्तरः ॥
             तस्मात् सर्वगुणान् विष्णोरकारो वक्ति यत्प्रभोः ।
             तद्व्यक्तयोऽपि शब्दा ये सर्वे विष्णुगुणब्रुवाः ॥
             अकारस्य तथोपांशोरभिमानी तु मारुतः।
             देहेन्द्रियान्तःकरणनाम्नोऽस्य द्विविधस्य च ॥
             स्थूलसूक्ष्मशरीरस्य सर्वेषामभिमानिनी ।
             भारत्युच्चोदितस्यापि ह्यकारस्याभिमानिनी ॥
             तस्मादुच्चादुपांशुर्हि जपादिषु फलाधिकः ।
             वायुः पतिर्हि भारत्या उपांशोर्देवता मतः ॥
             अकारस्य विकारोऽयमोङ्कार इति कथ्यते ।
             अधिकोच्चत्वमानं हि तस्यार्थः समुदीरितः ॥
             अकारेणैव तत्सर्वमुक्तमाधिक्यवक्तृतः ।
             अधिकोच्चस्वरूपोऽसौ माता चाधिक एव हि ॥
             एकार्थत्वादकारोऽसौ नकारत्वमुपागतः ।
             दीर्घीभूतः पुनस्तेनैवाकारेण सह स्थितः ॥
             अभाववाच्यकारस्य ह्यर्थो रेफः क्षयं वदन् ।
             सोऽप्यकारेण सहितो दीर्घत्वं समुपागतः ॥
             अभाववाच्यकारः स एकार्थाद्गत्यभावयोः ।
             यकारत्वं गतस्तस्मान्नो रेफस्योत्तरत्वतः ॥
             णत्वं गतो ह्यकारोऽसौ नो विरुद्धार्थवाचकः ।
             अन्यत्वात् सर्वजीवेभ्यो जडेभ्यश्च सदैव हि ॥
             सर्वदोषोज्झितत्वाच्च सर्वतोऽप्यधिकत्वतः ।
             निरासनाच्च दोषाणां स्वभक्तेभ्यः समन्ततः ॥
             सर्वदोषविरुद्धोरुगुणपूर्णस्वरूपतः ।
             नारायण इति प्रोक्तो ह्यकारार्थोऽयमेव हि ॥
             तस्मादकारबीजेयं विष्णोर्नारायणाभिधा ।
             प्रणवश्च ततोऽकारः प्रधानं नाम चक्रिणः ॥
             अकारनामा नान्योऽस्ति तमृते पुरुषोत्तमम् ।
             ब्रह्मरुद्रादिनामानि ब्रह्मादिष्वप्यमुख्यतः ॥
             वर्तन्ते न त्वकारोऽयं वर्तते केशवं विना ।
             नारायणादिनामानि नृणां नामक्रियास्वपि ॥
             विहितान्यकारो नैवायं विहितस्तमृते प्रभुम् ।
             वायुर्ब्रह्मापि चाकारदेवते न तु नामिनौ ॥
             यथा वेदाभिधेयोऽन्यो वेदाख्या देवता परा ।
             एवं नामाभिमानी तु वायुर्वाच्यो जनार्दनः ॥
             तस्माद इति नामेतद्विष्णोः केवलमेव हि ।
             विशेषतोऽस्य व्याख्यानं बृहतीनां सहस्रकम् ॥
             तस्मात् प्रीतो भवेद् विष्णुः शंसनादस्य सर्वदा ।
             तस्माद्यज्ञेऽपि वा शंसेदयज्ञेऽपि रहः पुमान् ॥
             ध्यात्वा नारायणं देवं विष्णोरन्नं हि तत्परम् ॥
इत्यादि ब्रह्मसारे ।
. परमविकारेण सह विकारमात्रस्यापि प्रस्तुतत्वात् तदेतत्पञ्चविधमिति परामर्शः ।
.स्वराणां नियमो यत्र ह्यृचो नामैव ताः स्मृताः ।
             अन्या मिताक्षरा यास्तु ता गाथाः परिकीर्तिताः ॥
             खण्डवाक्यानि कुम्ब्याः स्युरसमानि परस्परम् ।
             यज्ञाङ्गं यजुरुद्दिष्टं निगदं वाक्यमात्रकम् ॥
इत्यादि शब्दनिर्णये ।
. अकारार्थत्वान्नकारस्य ककिञ्चिन्मूलमिव । तस्मान्मूलत्वादकारार्थोऽपि ज्ञेय एव । नायोग्यानां सम्यग्वाच्य इति स्वल्प एव प्रकाशितोऽस्माभिः । वाच उद्वर्तनाशक्तेः स्वयमेवोद्वर्तते । यद्धि देवतासु करोति तदात्मन्यापतति । तस्माद् द्रव्यदानं ज्ञानदानं वा काले पात्राद्यनुसारेणैव कुर्यात् ।
.अकारस्योङ्कारता त्वकारलोपेनैव जातेति सत्यमोङ्कारः । अकारस्यादौ स्थितत्वेन च यथार्थरूपत्वात् । उकारादिविकारसहितत्वात् पुष्पफलात्मकश्च । अकारस्यार्थरूपः सन्नेव च भगवांस्तमेवोङ्कारो वक्ति । अतश्च सत्यमोङ्कारः । यमर्थमकारो वक्ति तमेव वक्तीति । नकारस्त्वच्छिरस्कत्वात् मूलभूतस्याकारस्यान्ते स्थितिरूपत्वादयथास्थितेरसत्यरूपः । तथाप्यकारस्य चैकार्थत्वात् मूलभूतश्च । तस्मादकारस्यैतद् वृथा वागादिकमपि व्याख्यानम् । तस्माद् विजानतः सर्वमपि भगवन्नामैव ॥ ६ ॥
तद्वा इदं बृहतीसहस्रं सम्पन्नं तद्यशः । स इन्द्रः स भूतानामधिपतिः । स य एवमेतमिन्द्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात् प्रैतीति ह स्माऽऽह महिदास ऐतरेयः ।


विद्यान्तरोपदेशार्थं तद्वा इदं बृहतीसहस्रमिति पुनः पुनः परामर्शः । तदिदं बृहतीसहस्रं तद्यशस्तस्य नारायणस्य यशः । यस्य नारायणस्यैतद्यशः स भगवानेवेन्द्रनामा । स हि यत्प्रथमत इन्द्रो बभूव स्वेच्छया यज्ञनामा । तस्मात् तमेव वेदा इन्द्रशब्देन वदन्ति मुख्यतः । इदि परमैश्वर्ये इति धातोश्च । तस्यैव हि परमैश्वर्यम् । अन्येषां तु द्वादशानां तेन दत्तमेवेन्द्रत्वं न तु मुख्यतः । अतो विष्णावेवेन्द्रशब्दं प्रयुङ्क्ते श्रुतिः । मत्सि सोमं वरुणं मत्सि मित्रं मत्सीन्द्रिमिन्दो पवमान विष्णुम् इति ।
न चेन्द्रं विष्णुं चेति पृथगन्वयः क्रियते । तदा वरुणादिषु पृथक् पृथक् मत्सिशब्ददर्शनादत्रापि पृथङ् मत्सिशब्दो दृश्येत । न हि सर्वेषां पृथङ्मत्सिशब्ददर्शने एकस्यैवान्यथात्वं युज्यते । न चात्र द्वित्वगमकं चकारादिकं विद्यते । तस्मात् प्रातर्भगं पूषणं ब्रह्मणस्पतिमित्याद्यप्येकस्यैव विष्णोर्विशेषणम् ।
यत्र चैवं भूतेष्वेकत्वे विरोधो दृश्यते तत्र तेनैव विरोधेन द्वित्वं भवति । अन्यथैकत्वमेव । यो देवानां नामधा एक एव इति चोक्तम् । बहुरूपत्वाद् बहुवचनं च विष्णोरेव युज्यते । तस्मान्मुख्यतो विष्णावेवेन्द्रादिशब्दा अन्येषामुपचारतः । मत्सि महामिन्द्रमिन्दो मदायेत्यन्येन्द्रस्य पृथगुक्तेश्च मत्सीन्द्रमिन्दो पवमानेति पूर्वोक्त इन्द्रो विष्णुरेवेति सिद्धम् ।
महत्त्वं च तस्यादितिपुत्रत्वेऽग्रजत्वमात्रम् । न तु सामर्थ्यतः । मह पूजायामिति धातोः । पूज्यो ह्यग्रजो भवति ।
आयो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः । वेधा अजिन्वत् त्रिषधस्थ आर्यमृतस्य भागे यजमानमभजत् ॥
इतीन्द्रस्य परमदैवं जनको यज्ञभागादिप्रदाता विष्णुरेव हि श्रूयते । इन्द्रश्च यजमानः । तस्मात् तत्प्रसादादवताराग्रजत्वमेव तस्य महत्वम् ।
अन्येन्द्रो ह्यहं प्रथमः पिबेयमहं प्रथमः पिबेयमिति वायुना विवदमान आजौ पराजितो वायुं प्रसादयित्वा चतुर्थे वायुना सह ग्रहमाप । विष्णुस्तु क्रतुं सचन्त मारुतस्य वेधस इति वायोरपि विधाता श्रूयते । डुधाञ् धारणपोषणयोरिति धातोर्विशेषेण धारणपोषणकर्ता हि वेधाः । तस्माद् भगवत एवैतद्यशो बृहदुक्थादिकम् ।
ऋक्सहस्रात्मकं विष्णोर्यश इन्द्राभिधस्य हि ।
             इन्द्रो हि प्रथमो विष्णुर्यज्ञनामा जगत्पतिः ॥
             तत्प्रसादादथेन्द्रत्वं द्वादशान्ये प्रपेदिरे ।
             पुरन्दरस्त्वेक एव वासुदेवप्रसादतः ॥
             द्विवारमिन्द्रतामाप तस्मात् द्वादश ते परे ।
             अग्रजत्वाददित्यां तु महेन्द्रो नाम चाभवत् ॥
             महाव्रतं कर्म कृत्वा चैव नाम्ना महेन्द्रकः ।
             महत्त्वं मुख्यतो विष्णोर्न ह्यन्यस्य कदाचन ॥
             एवं यो वेद तं विष्णुं विस्रस्तो बन्धतोऽखिलात् ।
             अस्माल्लोकाद्धरेर्लोकमेति नास्त्यत्र संशयः ॥
इत्याह भगवान् विष्णुर्महिदासस्वरूपकः ।
प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति । तदाहुर्यदनेन रूपेणामुं लोकमभिसम्भवती३ । अथ केन रूपेणेमं लोकमाभवती३ ।


श्वेतद्वीपादिकान् प्राप्य स इन्द्राख्यो हरिः स्वयम् ॥
             महिदासाभिधो भूत्वा लोकेष्वेषु विराजति ।
             तत्र पृच्छन्ति केचित्तु यद्येष भगवान् हरिः ॥
             महिदासादिरूपेण भूमिष्ठो रमते प्रभुः ।
             तदा यदा स्त्रिया विष्णू रमते नित्यसत्सुखः ॥
             कया स्त्रिया रतिं कुर्यान्न ह्यन्यरतिरच्युतः ।
             स्त्रीरूपे तत्स्वयं स्वस्मिन् रमतेऽसावितीदृशम् ॥
             वाच्यं तत्र च भूमिष्ठरूपेण तु दिवि स्थितम् ।
             स्त्रीरूपं किमसौ गच्छेदथ यद्येवमत्र च ॥
             स्त्रीरूपं पृथिवीसंस्थं केन रूपेण संव्रजेत् ।
न ह्यन्यगम्यो भगवान् स्त्रीरूपोऽपि जनार्दनः ॥
तद्यदेतत् स्त्रियां लोहितं भवत्यग्नेस्तद्रूपम् । तस्मात् तस्मान्न बीभत्सेत । अथ यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपम् । तस्मात् तस्मान्न बीभत्सेत । सोऽयमात्मेममात्मानममुष्मा आत्मने सम्प्रयच्छति । सावात्माऽमुमात्मानमिममस्मा आत्मने सम्प्रयच्छति । तावन्योन्यमभिसम्भवतः । अनेन अह रूपेणामुं लोकमभिसम्भवत्यमुनो रूपेणेमं लोकमाभवति ॥७ ॥


इति पृष्ठः स्वशिष्यैः स महिदासोऽवदद्धरिः ।
             स्त्रीषु यल्लोहितं लोके तत्राग्निस्थो जनार्दनः ॥
             स्त्रीरूपः सोऽग्निनामैव ज्वलज्ज्वालासमप्रभः ।
             तस्माद्विष्णोः सन्निधानाद्भर्ता भार्याशरीरगात् ॥
             न बीभत्सेतैव रक्तात् तथा पुं रेतसि स्थितः ।
             आदित्ये संस्थितो विष्णुरादेरादित्यनामकः ॥
             तस्मान्न रेतसो भार्या बीभत्सेत पतिस्थितात् ।
             पुंरूपो भगवान् विष्णू रेतसिस्थो द्युमत्प्रभः ॥
             तस्माद्यद्भूमिगं विष्णोः स्त्रीरूपं तत्स्वयं हरिः ।
             प्रादुर्भावगतो दद्याद्दिवि स्थितपुमात्मनः ॥
             सूर्यगस्य तथा पुंसो रेतसिस्थस्य चात्मनः ।
             देवीषु यल्लोहितगं स्त्रीरूपं परमात्मनः ॥
             तत्स सूर्यगतो विष्णुः पुंरेतःस्थस्य चात्मनः ।
             दद्याद्भूमिगतस्यैव रूपद्वयमिदं ततः ॥
             परस्परं सम्भवति विष्णोर्नित्यसुखात्मकम् ।
             प्रादुर्भावस्थितं रूपं यच्च भूमौ पुमात्मकम् ॥
             विष्णोस्तदपि देवीषु स्थितस्स्त्रीरूपकात्मना ।
             एवमन्योन्यतो विष्णू रतः स्वस्मिन्न चान्यतः ॥
             रमया रममाणोऽपि तत्स्थेनैव स्त्रियात्मना ।
             रमते नान्यतः क्वापि रतिर्विष्णोः सुखात्मनः ॥
             रमया रमणं तस्माद्रमाया रतिपात्रता ।
             नैवास्या रतिदातृत्वं विष्णोर्न ह्यन्यतो रतिः ॥
             इत्यादि च ।
             स एव महिदास इन्द्रनामा प्राप्येमं लोकमत्र भूत्वा प्रादुर्भूय मनुष्यदृष्टिगोचरतां प्राप्येषु लोकेषु राजति । नात्र प्रेत्यशब्दो मरणवाची । किन्तु प्रेतां यज्ञस्य शम्भुवे त्यादिवत् प्राप्तिवाच्येव । न हि मृतः पुनरेषु लोकेष्वेव राजति । न च यशोमात्रराजनेन स्वस्य राजनं भवति । भिन्नपदार्थत्वात् । यद्वा एति च प्रेति चेत्यादौ प्राप्त्यर्थेऽपि वेदेषु प्रसिद्धत्वाच्च ।
             लक्ष्मणः प्रेत्य सुग्रीवं बभाषे रामचोदितम् इति स्कान्दे ।
             यदनेन रूपेणामुं लोकमभिसम्भवति । अनेन महिदासादिरूपेणामुं लोकं दिविष्ठं स्वरूपम् । लोक्यत इति स्वरूपवाची लोकशब्दः । आत्मानमेव लोकमुपासीत इतिवत् । यच्छब्दः किंशब्दार्थे । अनेन रूपेण तद्रूपमभिसम्भवति किम्? उभयोरपि परिहारदर्शनादस्यापि प्रश्नत्वमवगम्यते । यतश्चोदेति सूर्य इत्यादिवत् । रङ्गस्तु प्रश्नविषयस्य दुरवगमत्वं प्रकाशयति ।
             दुर्गमे प्रश्नविषये प्रश्नो रङ्गयुतो भवेद् इति शब्दनिर्णये ।
             केन रूपेणेमं लोकमाभवति । केन स्वरूपेण भूमिष्ठेनात्मन एव स्त्रीरूपेण विष्णुः सम्बध्यते । सोऽयं महिदासादिप्रादुर्भावरूप इदं भूमिष्ठस्त्रीरूपं लोहितगतं च स्वकीयमेव रूपममुष्यै दिविष्ठाय स्वपुरुषरूपाय प्रयच्छति । देवरेतःस्थिताय च देवीलोहितस्थितमात्मनः स्त्रीरूपं महिदासादिरूपेभ्यो मानुषरेतःस्थितरूपेभ्यश्च दिविष्ठैश्च विष्ण्वादिस्वरूपैः प्रयच्छति च ।
             तानि भूमिष्ठत्वेन दिविष्ठत्वेन द्विविधत्वात् तावित्युच्यन्ते । अग्नेस्तद्रूपमग्निनाम्नो विष्णोः प्रतिमा तत्सन्निधानात् । एवमादित्यनाम्नो विष्णोः । न ह्यग्न्यादिस्वरूपमेव लोहितादि । न च लौकिकस्त्रीपुरुषसम्बन्धमात्रमत्रोच्यते । अप्रस्तुतत्वात् तस्य । भगवानेव ह्यत्र प्रस्तुतः ।
             असावात्मेत्यात्मशब्दाच्च भगवानेवेति ज्ञायते ।
             आत्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ।
             गुणपूर्त्यभिधायी स नान्यस्य गुणपूर्णता ॥
             अमुख्यात्मान एवातो ब्रह्माद्याः सर्व एव हि ॥
             इत्यादि च ब्रह्माण्डे ।
             यदक्षरं पञ्चविधं समेति । सत्यस्य सत्यमनु यत्र युज्यत इत्यादिनोक्तार्थविषयोदाहृतैः श्लोकैरपि भगवत एव स्वरूपाणां परस्परयोगस्योक्तत्वात् । गायत्र्युष्णिग्बृहतीत्यादिना भगवत एव पञ्चविधस्य स्त्रीरूपस्य महिदासादिपञ्चपुंरूपाणां च प्रस्तुतत्वाच्च ॥
७ ॥
तत्रैते श्लोकाः–यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत् संवहन्ति ।


यन्नारायणादिरूपेण पञ्चविधमक्षरं परं ब्रह्म तत्स्वस्मिन्नेव स्त्रीपुंरूपेण समेति । स्त्रीपुंरूपेण युजो देवा अश्वरूपेण रथे युक्ताः सन्तो यन्नारायणाख्यं परं ब्रह्माभिसंवहन्ति । तदेतत्सत्यस्य सत्यं नारायणाख्यं ब्रह्म यत्रानुयुज्यते यस्मिन् स्वरूप एव स्त्रीपुंरूपेण युज्यते । तत्र तस्मिन् एव परे ब्रह्मणि नारायणाख्ये सर्वदेवा एकीभवन्ति मुक्ताः सन्तो मिलिता भवन्ति । नायमेकीभावो नाम स्वरूपैक्यम् । किन्त्वेकस्थाने वासोऽत्यनुकूलचित्तता च । एकीभूय नृपाः सर्वे ववृषुः पाण्डवं शरैः ।
             एकीभूता तु सा सेना पाण्डवानभ्यवर्तत ॥
             इत्यादिवत् ।
न चैकीभावशब्दः स्वरूपैकत्वविषये प्रयुज्यमानः कुत्रचिद् दृष्टः । एकः पुरुषोऽपि यदा द्विधा भूत्वा एकीभवतीत्युच्यते तदापि स्थानैक्यमेव । स्वरूपैक्यस्य पूर्वमेव सिद्धत्वात् । न चाज्ञात एकत्वे पुनर्ज्ञाते ऐक्यं प्राप्त इति प्रयोगो दृश्यते । किन्तु ज्ञात इत्येव प्रयुज्यते । तस्माद् भावसहित एकशब्दो न स्वरूपवाची । न हि पूर्वं भिन्नस्य पश्चात् स्वरूपैक्यं भवति किन्तु संसर्ग एव भवति । तस्मादत्रापि संसर्ग एव विवक्षितः । यदक्षरं पञ्चविधं समेतीत्युक्तस्य सत्यस्य सत्यमनु यत्र युज्यत इति परामर्शं कृत्वा तत्र देवाः सर्व एकं भवन्तीत्युच्यते । तस्मान्न पुनरुक्तिः ।
यदक्षरादक्षरमेति युक्तं युजो युक्ता अभियत् संवहन्ति ।सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥


यस्मादक्षरान्नारायणाख्यात् स स्वयमेव भगवान् प्रादुर्भावरूपी स्त्रीपुंरूपेण युक्त आगच्छति । तात्पर्यार्थं तस्यैवार्थस्य पुनरभ्यासः ।
यद्वाचा ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु ।तद्वियूया कवयोऽन्वविन्दन् आत्मायत्ता समतृप्यञ्च्छृतेऽधि ॥


वियूय विचार्य नामायत्तान्येव नामार्थभूतान्येव विष्णोर्माहात्म्यादीन्यन्वविन्दन् । ततश्चाधिकं समतृप्यन् । शृते परिपक्वे सति ज्ञाने । यस्मिन् विष्णौ नामानि ज्ञात्वा तस्मिन् ज्ञाने परिपक्वे समतृप्यन् तस्मिन्नेव देवाः सर्वयुजो भवन्तीत्यवधारणार्थं पुनर्वचनम् । सर्वयुजो भवन्ति मनोवाक्कर्मभिस्तत्रैव युक्ता भवन्ति ।
अर्थतः कठिनं क्रूरमुल्बणं श्रवणाप्रियम् इति शब्दनिर्णये ।
नैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान् ब्रुवन् ।पुमांसं न ब्रुवन्नेनं वदन् वदति कश्चन ॥


अस्त्री पुमान् ब्रुवन् अस्त्री पुमांसं ब्रुवन् ।सप्तसु प्रथमा इति सूत्रात् । स्वातन्त्र्ये विभक्तिव्यत्ययः इति च । स्वतन्त्रो हि भगवान् तत्प्रेरित एव तं वदतीत्यभिप्रायः । वदन् वदति वदन्नेव वदति । वदन्नेव न वदति । भवत्येव हि भगवान् स्त्रीरूपः पुंरूपश्च । तस्माद् वदत्येव । अप्रसिद्धत्वान्न वदति च ।
अ स्त्रीरूपश्चैव पुंरूपो यस्मान्नारायणः स्थितः ।
             पुमांस्त्री चेति वाच्योऽतो वैलक्ष्ण्यान्न चोच्यते ॥
             विष्णोर्नपुंसकाकारो नैवास्ति क्वचन प्रभोः ।
             तथाप्यरागाकृष्टत्वात् तच्छब्दैरपि कथ्यते ॥
इति गारुडे ।
नारायणादिरूपेण पञ्चधैष हरिः स्थितः ।
             तन्नामभिश्च स्त्रीरूपैः समेति स्वैः स केशवः ॥
             यत्स्यन्दनं वहन्त्येते देवा भार्यासमन्विताः ।
             अधिदैवे तथाऽध्यात्मे जीवदेहात्मकं रथम् ॥
             स सूर्यः सूर्यभार्या च चक्षुर्द्वयसमाश्रितौ ।
             वहतोऽश्वात्मकौ देहं नारायणरथात्मकम् ॥
             सोमश्च रोहिणी चैव दक्षवामश्रुतिस्थितौ ।
             उभयोः पक्षयोः स्थित्वा वहतोऽश्वात्मकौ तयोः ॥
             उद्धारणार्थमेतेषामुमा वाचि समास्थिता ।
             नागाकारैव रश्मित्वमगमद्वैष्णवे रथे ॥
             मनःस्थितः शिवश्चात्र मनोनामा महाबलः ।
             अभवत् सारथिर्विष्णोर्विष्णुर्वायुश्च तं रथम् ॥
             प्रकृष्टानन्दरूपत्वात् प्राणाख्यावधितिष्ठतः ।
             तावेव चाश्विनामानौ हयास्यौ जगदीश्वरौ ॥
इत्यादि गारुडे ।
तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सत्यम् । तेषामेष सत्यम् इति च श्रुतिः ।
सर्वसाधुगुणत्वात् तु वायुः सत्य इतीर्यते ।
             तस्यापि सत्यतादाता साधुपूर्णगुणो हरिः ॥
             सत्यस्य सत्य एतस्मात् स्त्रीपुंरूप स केशवः ।
             यस्मिन् स्वात्मनि युक्तः स रमते स्त्रीपुमात्मना ॥
             मुनिगन्धर्वपित्राद्यैर्न तत्प्राप्यं कथञ्चन ।
             आप्नुवन्ति सुराः सर्वे तद्रूपं जाज्वलत् सदा ॥
             अर्धनारीपुमाकारं तस्य वामस्थितानि च ।
             स्त्रीरूपाणि तु सर्वाणि विष्णोरत्यद्भुतानि च ॥
             विष्णोर्यानि तु पुंरूपाण्यास्थितान्यस्य दक्षिणे ।
             तान्यस्यैव तु रूपाणि युज्यन्तेऽत्र परस्परम् ॥
             एष नारायणो देवो ह्यर्धनारीपुमात्मकः ।
             सर्वे देवास्सभार्याश्च तं प्राप्य पुरुषोत्तमम् ॥
             एकीभावं स्वभार्याभिरर्धनारीपुमात्मना ।
             प्राप्यैवोपासते विष्णुं मुक्ताः संसारसागरात् ॥
             मोदन्ते च रमन्ते च विभागं चेच्छयाऽऽप्नुयुः ।
             बहुधा च भवन्त्येते स्त्रीपुमात्मपृथक्त्वतः ॥
             प्रसादाद् वासुदेवस्य भागैः स्त्रीपुंस्वरूपिणः ।
             तेनैव नियता नित्यं तद्वशास्तत्परायणाः ॥
             रमन्ते नान्यगम्योऽसौ देशो विष्णोः परात्मनः ।
             स्त्रीपुंरूपेण युक्तं तद्विष्ण्वाख्यं परमक्षरम् ॥
             अक्षरादेव परमात् पुंसो नारायणाभिधात् ।
             आगच्छन्ति तदैते च देवा भार्यासमन्विताः ॥
             वहन्त्यश्वादिरूपेण रथस्थं परमं वपुः ।
             तत्सर्वदेवैः प्राप्यं च नान्यैः कथमपि क्वचित्॥
             मितादिपञ्चरूपं यद्वाक्यं लोकेऽथवा श्रुतौ ।
             नारायणस्य नामैतदिति जानन्ति देवताः ॥
             मनोवाक्कर्मभिस्तस्माद् योगमाप्स्यन्ति तत्र ते ।
             सर्वशब्दान् हरौ नेतुं कस्य देवानृते बलम् ॥
             वाय्वन्तास्तारतम्येन विष्णुनामार्थवेदिनः ।
             सम्यग्वेत्ता मारुतोऽत्र तस्मान्मुक्तेभ्य एव च ॥
             सुरेभ्योऽधिकमानन्दं नित्यं भुङ्क्ते हरेरनु ॥
इत्याद्यर्धनारीनारायणतन्त्रे ।
अ इति ब्रह्म । तत्राऽऽगतमहमिति ।


एवं सर्वे शब्दा भगवद्वाचका इत्युक्त्वा अकारो विशेषतो नारायणवाचक इत्याह– अ इति ब्रह्मेति ॥
इतिशब्दोऽभिधानान्ते यत्र वैशेषिकं हि तत् ।
             नाम स्यादिति मे साक्षान्निर्णयः समुदाहृतः ॥
इति शब्दनिर्णये ।
तत्रागतमहमिति यस्माद् अः इत्ययं शब्दः प्रस्तुतस्य भावं विरोधिनमन्यं च वदति तस्मात् प्रत्यक्षत्वाज्जीवजडात्मकस्य जगत एवानुक्तावपि प्रस्तुतरूपत्वात् तदन्यस्तद्विरोधी तत्र दृश्यमानदोषवर्जितश्चाकारशब्दार्थ इति सिद्ध्यति । मनसि प्रस्तुतत्वादवचनेऽपि प्रस्तुतमेवेदं सर्वम् । दृष्टसम्बन्धित्वाददृष्टं सर्वमपि प्रस्तुतं भवति । भगवांस्तु अव इति पृथग्विवक्षितत्वादेव न प्रस्तुतसमुदाये ।
न च शून्यस्याशब्दार्थता । शून्याङ्गीकारे ह्यकारस्याभावताख्य एक एवार्थ इति सिद्ध्यति । विष्णोरङ्गीकारे त्वभावताऽन्यता विरोधितेति त्रयोऽप्यर्थाः सम्यगेव सिद्ध्यन्ति । तस्मादकारस्य भगवानेव मुख्यार्थो न शून्यम् । एकदेशार्थत्वात् । तस्मादमुख्यार्थत्वादन्ययुक्तेनैवाकारेणाभाव इति तदुच्यते । न तु अव इत्येव केनचित्क्वचित्। न च तथा प्रयोगोऽस्ति । तस्मात् पारतन्त्र्याल्पगुणत्वादिसर्ववस्तुस्वभावविरुद्धस्वभावं स्वतन्त्रं पूर्णगुणं सर्वजीवजडेभ्यो अन्यदज्ञानदुःखाल्पत्वपारतन्त्र्योत्पत्तिनाशादिसर्वदोषविवर्जितं ब्रह्मैवाशब्दार्थः । पूर्णं हि ब्रह्मशब्दस्यार्थः । न च दोषयुक्तस्य पूर्णता । न च जीवजडाद्यपूर्णवस्त्वभिन्नस्य पूर्णत्वं भवति । तस्मादकारशब्दार्थ एव ब्रह्मशब्दार्थः । तदेतदुक्तं अः इति ब्रह्मेति । अः इति पृथक्त्वेन वचनं तत्सममधिकं वा किमपि नास्तीति दर्शयितुम् ।
विवृतावपि सर्गः स्यात् संहितायां च यत्र हि ।
             समानोत्तमहीनत्वमुच्यते वस्तुनोऽञ्जसा ॥
इति शब्दनिर्णये ।
अः इति ब्रह्म पूर्णं वस्तूच्यते । तत्रागतमहमिति तत्राकारस्य पूर्णवाचित्वेऽहमेव सोऽकारवाच्य इत्याह महिदासरूपो भगवान्नारायणः । अहमेक एव परिपूर्णः । अन्येषां सर्वेषां मदधीनत्वादल्पत्वादिति । मुक्तेभ्यः प्रलये लीनेभ्यश्च सर्ववस्तुभ्यः सदा विभिन्न एव भगवानिति दर्शयितुं च अः इति पृथग्वचनम् ।
तच्चोक्तं वाक्यनिर्णये–
             मुक्ता अपि न विष्णुत्वं यान्ति तत्समतामपि ।
             आधिक्यं कुत एव स्यान्मुक्तानां मुक्तिदातृतः ॥
             कुत एव प्रलीनानां प्रलये तु तदात्मता ।
             ब्रह्मशर्वेन्द्रपूर्वाणां मुक्तावपि न विष्णुता ॥
             यदा तदा तु संसारे क्व तद्रूपत्वमिष्यते ।
             अन्योऽसौ सर्वतो विष्णुः स्वातन्त्र्याद् गुणपूर्तितः ॥
             सर्ववस्तुस्वभावस्य विरुद्धोरुस्वभावकः ।
             पारतन्त्र्याल्पताज्ञानजनिनाशादिवर्जितः ॥
             अकारेण ततो विष्णुः संहितायां पदात्मना ।
             बह्वृचोपनिषत्प्रोक्तस्तेनैव परमात्मना ॥
             महिदासावतारेण सोऽहमेवंविधस्त्विति ।
             मत्तोऽन्यो न हि पूर्णोऽस्ति यतोऽकारश्च पूर्णताम् ॥
             वक्ति तस्मादकारोऽयं मामेव वदति स्फुटम् ।
             नाभाववाच्यकारः स्यादर्थत्रययुतो यतः ॥
             एकार्थात्मा ह्यभावः स्यान्निषेधैकस्वरूपतः ।
             अन्यता च निषेधश्च विरुद्धत्वमिति त्रयः ॥
             अकारार्था ह्यभावस्तु निषेधैकस्वरूपतः।
             एकदेशस्वरूपत्वान्नाकारेणैव भण्यते ॥
             किन्त्वभाव इति त्वेव तेनाकारोदितो हरिः ॥
इति च ।
न च निषेधस्वरूपे विरुद्धता चान्यता चास्तीत्येतावता पूर्णार्थता भवति । तदाऽर्थत्रयकल्पनस्य वैयर्थ्यात् ।
उक्तं हि शब्दनिर्णये ।
             विरुद्धता निषेधान्यभावयुक्ते हि केवलः ।
             अकारो वर्तते तेषामेकार्थात्मन्यभावके ॥
             वर्ततेऽभाव इत्येव न त्व इत्येव केवलः ॥
इति ।
तस्मान्नारायणः एवाकारवाच्य इति सिद्धम् ।
             यतोऽकारः सदा विष्णोर्वाचकत्वेन संस्थितः ।
             तस्माद्वर्णत्रयात्माऽयं प्रणवोऽपि त्रयात्मकम् ॥
             हरिमेव सदा वक्ति न वाऽन्यं कञ्चन क्वचित्।
             सृष्टिकर्ता ब्रह्मनामा योऽसृजच्चतुराननम् ॥
             अन्तर्यामी विरिञ्चस्य सोऽकारार्थो जनार्दनः ।
             वैकुण्ठलोक आस्ते स द्वितीयवपुषा हरिः ॥
             उकारवाच्यः स विभुर्नृसिंहो रुद्रनामकः ।
             रौद्रत्वात् स शिवस्यापि स्रष्टा संहारकारकः ॥
             अन्तर्यामी शिवस्यापि मकारार्थः प्रकीर्तितः ।
             एवं त्रियात्मकं विष्णुं प्रणवोऽयं त्रियात्मकः ॥
             एवं पृथगिवाचष्टे बिन्दुर्वक्त्यनिरुद्धकम् ।
             प्रद्युम्नाद्यान्नादपूर्वाः सर्वान्नारायणात्मकान् ॥
             पद्मनाभादिका एव मूर्तीर्नारायणोत्तराः ।
             प्रणवोऽयं वदत्यष्टौ तस्मान्नान्याभिधायकः ॥
इति तत्त्वसारे ।
तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट् त्रिंशतमक्षराणां सहस्राणि भवन्ति । तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति । जीवाक्षरेणैव जीवाहराप्नोति, जीवाह्ना जीवाक्षरमित्यनकाममारः ।


षट्त्रिंशतिसहस्राणि बृहत्युक्थार्णगानि तु ।
             स्त्रीरूपाणि हरेस्तावदह्नामप्यभिमानिषु ॥
             सूर्यरूपेषु रूपाणि पुमाकाराणि सर्वशः ।
             एतैः पुरुषगैः रूपैर्बृहत्युक्थव्यवस्थितैः ॥
             कदाचिद् भगवान् विष्णुः पुमाकाराणि तानि च ।
             कृत्वा सूर्यगतान्येव स्त्रीरूपाणि विधाय च ॥
             तान्याप्नोति च पुंरूपैस्तैरेवाक्षरगानि च ।
             स्त्रीरूपाणि जगन्नाथः प्राप्नोत्यात्मेच्छया प्रभुः ॥
             पुंरूपप्रमदारूपस्वरूपै रमते स्वयम् ।
             एकीकृत्य च तान्येव द्विरूपो रमते तथा ॥
             स एव रमते मायां स्थितात्मस्त्रीतनौ हरिः ।
             प्राणस्योत्पत्तिकामः सन्ननेच्छामारनामकः ॥
इत्यर्धनारीनारायणतन्त्रे ।
वायोरुत्पत्तिकामो मायां रमायां रमत इत्यनकाममारः । जीवस्थितेनाक्षरगेनाक्षरनाम्ना स्वरूपेण जीवाख्यसूर्यस्थितमहराख्यं स्वरूपमाप्नोति तेन चाक्षराख्यं स्वरूपमाप्नोति । यदक्षरादक्षरमेति युक्तमित्यस्य व्याख्यानरूपत्वाच्चैतदवसीयते । पुमांसं स्त्रियं च वदन्नेव न वदतीत्युक्तत्वादुभयात्मकं रूपं प्रतीयते । अस्त्रीपुमानिति ब्रुवन्नपि न वदतीत्युक्तत्वाच्च स्त्रीत्वं पुंस्त्वं च प्रतीयते विष्णोः ।
न च नपुंसकरूपं भगवतः कुत्रचिदुक्तम् । प्रसिद्धमेव च रूपद्वयम् । अतो नपुंसके वदन्नपि न वदतीति न तद्वदनुषज्यते । नपुंसकरूपे प्रमाणाभावादेव लौकिकस्त्रीपुंविलक्षणत्वादस्त्री पुमानित्यपि वदन्निति भवति ।
स्त्रीपुंरूपद्वयं विष्णोर्न तृतीयं कथञ्चन ।
             साक्षान्नपुंसकस्तस्मान्मुक्तिभागी न तु क्वचित्॥
इति ब्रह्माण्डे ।
न च रक्ष इति नपुंसकशब्दमात्रेण रावणादयो नपुंसका भवन्ति । भवतीतिपदाभावादनकाममार इति भगवन्नामैवेति ज्ञायते
अथ देवरथः । तस्य वागुद्धिः, श्रोत्रे पक्षसी, चक्षुषी युक्ते, मनः सङ्ग्रहीता । तदयं प्राणोऽधितिष्ठति । तदुक्तमृषिणा । आतेन यातं मनसो जवीयसा । निमिषश्चिज्जवीयसेति जवीयसेति ॥८ ॥


Template:AuthorNote

ऋष ज्ञान इति ह्यस्माद्धातोः सर्वज्ञ एकराट् ।
             वेदद्रष्टा परमऋषिर्हयास्यः पुरुषोत्तमः ॥
             मन्त्राणां प्रथमो द्रष्टा सर्वेषां यत एव तु ।
             ऋषिणोक्तमिति प्राहुर्मन्त्रोक्तं ब्राह्मणान्यतः ॥
             तत्प्रसादाद्धि तपसा पश्चान्मन्त्रान् प्रपेदिरे ।
             ब्रह्माद्या ब्राह्मणं पश्चात् तैर्दृष्टमृषिभिः पृथक् ॥
             मन्त्राश्चोपनिषच्चैव नाकृत्वा सुमहत्तपः ।
             प्रथमं तद्धयास्येन दृष्टं केनचिदीक्ष्यते ॥
             विना पृथक् तपो दृश्येत् ब्राह्मणं मुनिभिर्यतः ।
             मन्त्राश्चोपनिषच्चैव ब्राह्मणादुत्तमास्ततः ॥
             तत्राप्युपनिषच्छ्रेष्ठा युक्तावस्थाधिगम्यतः ॥
             इत्यादि प्रमाणविवेके ।
             तेन रथेनाध्यात्मशरीराख्येनाधिदैवं रथरूपेण । ऋभव इत्यत्र देवानां साधारणं नाम ।
             आदित्या वसवो रुद्रा विश्वे ऋभव इत्यपि ।
             सर्वदेवसमाख्या च द्वादशाष्टादिकेष्वपि ॥
इति शब्दनिर्णये ।
निर्मितो दैवतैः सर्वैर्विष्णुना वायुना सह ।
             अधिष्ठितो रथो दिव्यः सोऽध्यात्मं देहनामकः ॥
             सम्यग्योगो यदा तस्य मनोवाक्कर्मभिर्भवेत् ।
             देहाख्यस्य रथस्यैव तदा नारायणात् प्रभोः ॥
             विविधं वासवत्वात् तु विवस्वन्नामकाच्छुभम् ।
             संसारवारकं ज्ञानं दिवो दुहितृनामकम् ॥
             विष्णुतत्त्वापरोक्षाख्यमहनी द्वे च शोभने ।
             ज्ञानावस्था मुक्त्यवस्थेत्युभे एवाहनी परे ॥
             जायन्ते देवतास्त्वेषां भारती वायुरेव च ।
             जीवन्मुक्तेश्च मुक्तेश्च दाता रूपद्वयी प्रभुः ॥
             सर्वस्त्रीणामुत्तमत्वाद् द्यौर्नामा श्रीरुदाहृता ।
             दुहिताऽस्या भारती तु नित्याहेयस्वरूपतः ॥
             अहरित्युच्यते वायुर्ज्ञानात्मत्वात् तथैव च ।
             अधिदैवे रथेऽप्येते विष्णोर्लक्ष्म्यां प्रजज्ञिरे ॥
             रथेन तेन देवेशौ विष्णुवायू जगत्पती ।
             आयातमिति हैवैतौ प्रार्थयेद्यज्ञकर्मणि ॥
             अन्यथाप्यर्थयेदेतौ ज्ञानेच्छुः पुरुषः सदा ।
             जपेन्मन्त्रद्वयं नित्यमातेन निमिषस्तथा ॥
             रक्षणं वां समीपे स्यान्ममेत्यध्यात्ममेव च ।
             हयास्यत्वाच्चाश्विनौ तावित्याह परमा श्रुतिः ॥
             ऐन्द्राग्नेयादिकाश्चैवं सर्वे मन्त्रा हरिं परम् ।
             वदन्ति मुख्यतो नान्यं सर्वनामानमच्युतम् ॥
             अथवा वायुदेवस्थं पृथक्संस्थं च केशवम् ।
             मन्त्रो द्विवचनो वक्ति तथा बहुवचस्स्वपि ॥
इत्याद्येतरेयसंहितायाम् ।
सुखं ददत इति सुदिने । विवस्वतो विष्णोः सकाशाद्दिवो दुहिता अहनी च जायन्ते । अहनी इति द्विवचनेन द्वित्वे सिद्धेऽप्युभे इति वचनमध्यात्माधिदैवतयोरुभयोरपि वचनार्थम् ।
             न च सूर्यरथोऽत्र वर्ण्यते । न चाहोरात्रे अहनी इत्युच्येते । सूर्यस्याश्विनामाभावात् सप्ताश्वत्वाच्च तद्रथस्य । चतुरश्वत्वं चात्रोच्यते । श्रोत्रे पक्षसी चक्षुषीयुक्ते इत्यध्यात्मसम्बन्धाच्च । न च रात्रौ सुदिनमिति प्रयोगो दृष्टः । असुदिनस्यापि तत एव जातत्वाद् व्यर्थविशेषणता च ।
अस्मिन् पक्षे तु लौकिकाहर्व्यावृत्त्यर्थ सुदिने इति युज्यते । जीवन्मुक्तिश्च मुक्तिश्च हि मुख्ये सुदिने । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते इति ज्ञानावस्थायां मुक्तौ भोगबाहुल्यकारणत्वात् सापि मुक्तिवत् सुदिनम् । न हि मुक्तावधिक्यार्जनमस्ति । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते इति वचनात् । अतो ज्ञानोत्पत्तिसमनन्तरमेव मुक्तौ न पुनरार्जनमस्तीति ककिञ्चित्कालं ज्ञानित्वेनावस्थानमपि सुदिनमेव । ज्ञानात् पूर्वं तु पतनसंशयादेव न सुदिनम् ।
न चाश्विरथो वर्ण्यते । न ह्यश्विरथयोगादहनी जायेते । एकरासभयुक्तो हि तद्रथः । तद्रासभो नासत्या सहस्रम् इति वचनात् । न च विवस्वच्छब्दोऽश्विनोर्विद्यते । यो देवानां नामधा एक एव इति विष्णोः सर्वनामानि प्रसिद्धानि च । युजो युक्ता अभियत्संवहन्ति इत्यादिना तस्यैव प्रस्तावाच्च । अतो विष्णुरेव मुख्यतः सर्वनामोक्त इति सिद्धम् ॥ ८ ॥