Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S02/A012

From Grantha
Revision as of 10:10, 2 March 2026 by Chandrashekars (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

रचनानुपपत्त्यधिकरणम्

ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ 01-174 ॥


अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ । चशब्देन प्रमाणाभावं दर्शयति ॥ 01 ॥


ॐ प्रवृत्तेश्च ॐ ॥ 02-175 ॥


चेतनस्य स्वतः प्रवृत्तिदर्शनाच्च ॥ 02 ॥


ॐ पयोऽम्बुवच्चेत् तत्रापि ॐ ॥ 03-176 ॥


पयोऽम्बुवदचेतनस्यापि प्रवृत्तिर्युज्यत इति न युक्तम् ।


‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते , याश्च श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां य दिशमनु’


‘एतेन ह वाव पयो मण्डं भवति’ इत्यादिना तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥ 03 ॥


ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ॥ 04-177 ॥


‘न ऋते त्वत्क्रियते किञ्चनारे’ इति तद्व्यतिरेकेण कस्यापि कर्मणोऽनवस्थितेरनपेक्षितमेवाचेतनवादिमतम् ॥ 04 ॥