Jump to content

ब्रह्मसूत्रभाष्यम्/C04/S02/A014

From Grantha
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

समनाधिकरणम्

ॐ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ॥ 07-510 ॥


देशतः कालतश्च व्याप्त्या समो ना परमपुरुषो यस्याः सा समना । संसारानुपक्रमात् स्वतः एवामृतत्वं तस्याः । बृहच्छ्रुतिश्च –


‘द्वौवाव सृत्यनुपक्रमौ प्रकृतिश्च परमश्च द्वावेतौ नित्यमुक्तौ नित्यौ च सर्वगतौ चैतौ ज्ञात्वा विमुच्यते’ इति । नैतावता साम्यम् ॥ 07 ॥


ॐ तदपीतेः संसारव्यपदेशात् ॐ ॥ 08-511 ॥


‘समावेतौ प्रकृतिश्च परमश्च नित्यौ सर्वगतौ नित्यमुक्तावसमावेतौ प्रकृतिश्च परमश्च विलीनो हि प्रकृतौ संसारमेति विलीनः परमे ह्यमृतत्वमेति’ इति सौपर्णश्रुतेः ॥ 08 ॥


ॐ सूक्ष्मं प्रमाणतश्च तथोपलब्देः ॐ ॥ 09-512 ॥


सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादिप्रमाणाधिक्यं च ।



ॐ नोपमर्देनातः ॐ ॥ 10-513 ॥


अतस्तस्ये यो विशेषगुणास्तेषामनुपमर्देनैव साम्यम् ।


‘देशतः कालतश्चैव समा प्रकृतिरीश्वरे ।

उभयोरप्यबद्धत्वं तदबन्धः परात्मनः ।

स्वत एव परेशस्य सा चोपास्ते सदा हरिम् ॥



ॐ अस्यैव चोपपत्तेरूष्मा ॐ ॥ 11-514 ॥


‘द्विधा हीदमवदृष्यते ऊष्मावदनूष्मावच्च । तत्रोष्मावत्परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृण्वन्ति न विजानन्ति । अथानूष्मावत्प्रकृतिश्च प्राकृतं च यन्न जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च’ इति सौपर्णश्रुतेः किञ्चित्साम्योपपत्ते ॥ 11 ॥


ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ॥ 12-515 ॥


‘असमो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्येतेऽणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति । अथ परो न जायते न म्रियते पूर्णश्चैष भवति’ इति चतुर्वेदशिखायां साम्यप्रतिषेधान्नेति चेन्न । शरीराद्धि साम्यं प्रतिषिध्यते ॥ 12 ॥


कुतः ? –


ॐ स्पष्टो ह्येकेषाम् ॐ ॥ 13-516 ॥


‘अथातः समाश्चासमाश्चाभिधीयन्ते समासमाश्चाथ समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिर्लयो नियतिरायतिश्चैकं ह्येवैतद्भवत्यथासमा ब्रह्मेन्द्रो रुद्रः प्रजापतिर्बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पितरोऽसुरा यत्किञ्चेदं चरमचरं चाथ समाऽसमा प्रकृतिर्वाव समाऽसमैषा हि नित्याऽजरा तद्वशा च’


इति स्पष्टो हि माध्यन्दिनायानानां समाधिवादः ॥ 13 ॥


ॐ स्मर्यते च ॐ ॥ 14-517 ॥