Bhagavadgitatatparya/C14
Appearance
चतुर्दशोऽध्यायः
साधनं प्राधान्येनोत्तरैरध्यायैर्वक्ति- क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयति ।
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।यज्ज्ञात्वा मुनयः सर्वे परां सिदि्धमितो गताः॥१ ॥
श्रीभगवानुवाच
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च॥२ ॥
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।सम्भवः सर्वभूतानां ततो भवति भारत॥३ ॥
'योनिर्भार्या तथा स्थानं योनिः कारणमेव चइति शब्दनिर्णये । अत्र योनिर्भार्या 'तस्मिन् गर्भं दधाम्यहम् इति वाक्यशेषात् ॥ ३ ॥
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता॥४ ॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।निबध्नन्ति महाबाहो देहे देहिनमव्ययम्॥५ ॥
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ॥६ ॥
रजो रागात्मकं विदि्ध तृष्णासङ्गसमुद्भवम् ।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥७ ॥
तमस्त्वज्ञानजं विदि्ध मोहनं सर्वदेहिनाम् ।प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥८ ॥
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥९ ॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा॥१० ॥
सर्वद्वारेषु देहेस्मिन्प्रकाश उपजायते ।ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत॥११ ॥
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥१२ ॥
अप्रकाशोप्रवृत्तिश्च प्रमादो मोह एव च ।तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥१३ ॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।तदोत्तमविदां लोकानमलान् प्रतिपद्यते॥१४ ॥
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।तथा प्रलीनस्तमसि मूढयोनिषु जायते॥१५ ॥
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।रजसस्तु फलं दुःखमज्ञानं तमसः फलम्॥१६ ॥
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।प्रमादमोहौ तमसो भवतोज्ञानमेव च॥१७ ॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥१८ ॥
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।गुणेभ्यश्च परं वेत्ति मद्भावं सोधिगच्छति॥१९ ॥
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।जन्ममृत्युजरादुःखैर्विमुक्तोमृतमश्नुते॥२० ॥
कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो ।किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते॥२१ ॥
अर्जुन उवाच
एतेभ्यः सत्त्वादिगुणेभ्योन्यं कर्तारमीशं यदा पश्यति तदैवायं ना पुरुषः । अन्यथा पशुसमः । न केवलमन्यत्वेन पश्यन् ना तं कर्तारं विष्णुम् किन्तु गुणेभ्य उत्तमत्वेन च । कथं स एव ना ? यस्मात् 'मद्भावं सोधिगच्छति ।'महालक्ष्मीरिति परा भार्या नारायणस्य या ।प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत् ।तस्यास्तु त्रीणि रूपाणि सत्त्वं नाम रजस्तमः ।सृष्टिकाले विभज्यन्ते सत्त्वं श्रीः सद्गुणप्र(भा)दा ।रजो रञ्जनकर्तृत्वाद् भूः सा सृष्टिकरी यतः ।यदावेशादियं पृथ्वी भूमिरित्येव कथ्यते ।जीवानां ग्लपनाद् दुर्गा तम इत्येव कीर्तिता ।एताभिस्तिसृभिर्जीवाः सर्वे बद्धा अमुक्तिगाः ।सर्वान् बध्नन्ति सर्वाश्च तथापि तु विशेषतः ।श्रीर्देवबन्धिका नॄणां भूर्दैत्यानामथापरा ।एताभ्योन्यं परं चैव विष्णुं ज्ञात्वा विमुच्यते ।सामर्थ्यातिशयादासां नैताभ्यो विद्यते परः ।इति यावद् विजानाति तावत् तं नृपशुं विदुः ।तस्मादाभ्योधिकगुणो विष्णुर्ज्ञेयः सदैव च ॥ इति महाविष्णुपुराणे ।'रजसस्तु फलं दुःखम् इत्यत्र दुःखमिति दुःखमिश्रं सुखम्- 'दुखं दुरिति सम्प्रोक्तं खं नाम सुखमुच्यते । इति शब्दनिर्णये ।'कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फलम् ।अज्ञानजं तामसस्य नित्यदुःखं फलं विदुः । इति स्कान्दे ॥१६-२१॥
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥२२ ॥
श्रीभगवानुवाच
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।गुणा वर्तन्त इत्येव योवतिष्ठति नेङ्गते॥२३ ॥
'लोकस्थितान् प्रकाशादीन् प्रायो न द्वेष्टि नेच्छति ।स्वयम्प्रकाशी मोहोज्झस्तथापि पुनरिच्छति ।विष्णौ प्रकाशं तं चैव नित्यभक्त्याभिसेवते ।सुखदुःखादिभावेपि विष्णुभक्तौ समः सदा ।अर्थार्थं वा प्रियार्थं वा निन्दादीनां भयादपि ।न विष्णुभक्तिह्रासोस्य किन्तु साम्यमथोन्नतिः ।अवैष्णवारम्भवर्जी विष्णुं याति न संशयः ॥ इति च ॥२२ ॥ उदासीनवदित्युक्तेश्च न केवलोदासीनत्वम् । नेङ्गते इत्युदासीनप्रवृत्ति-निषेधः । सर्वारम्भपरित्यागीति विशेषप्रयोजनापेक्षयापि न अवैष्णवारम्भः इति । 'इङ्गनं क्षणिकं कर्म दीर्घमारम्भ उच्यते इति शब्दनिर्णये ॥ २३ ॥
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥२४ ॥
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।सर्वारम्भपरित्यागी गुणातीतः स उच्यते॥२५ ॥
मां च योव्यभिचारेण भक्तियोगेन सेवते ।स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते॥२६ ॥
'लक्ष्म्यादिभिः कृतो बन्धो योनादिः पुरुषस्य तु ।
तमत्येतीह यो विद्वान् स विज्ञेयो गुणात्ययी ॥ इति च प्रवृत्ते । तत्कृतबन्धात्ययात् तदधिकविष्णुप्राप्तेश्च तदत्ययीत्युच्यते । यथा द्वारपालमतीत्य राजानं गच्छतीति । ब्रह्मणि भूयं ब्रह्मभूयम् । ब्रह्मेति प्रकृता महालक्ष्मीः 'अतीत्य त्रीणि रूपाणि महालक्ष्मीं प्रपद्यते ।
तया त्वनुगृहीतोसौ वैष्णवो विष्णुगो भवेत् ॥ इति च ॥२६ ॥ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७ ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे प्रकृतिगुणत्रयविभागयोगो नाम चतुर्दशोध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये चतुर्दशोध्यायः ॥
ब्रह्म प्राप्तो मत्प्राप्त (इव) एव भवतीत्याह- ब्रह्मणो हीति । मदवियोगात् तस्या अपि मत्स्थ एव भवतीत्यर्थः । तथापि प्राप्तिक्रमविवक्षया तदुक्तिः । एकान्तिकस्य सुखस्य मोक्षस्य ॥ २७ ॥