Bhagavadgitatatparya/C5
Appearance
पञ्चमोऽध्यायः
तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन -'यदृच्छालाभसन्तुष्टः इत्यादि सन्न्यासम् ; 'कुरु कर्म इत्यादि कर्मयोगं च-
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥१ ॥
अर्जुन उवाच
योगसंन्यासयोर्लक्षणं स्पष्टयत्यनेनाध्यायेन । योगसंन्यस्तकर्माणमित्यादौ न्यासशब्दः सर्वकर्मत्यागविषयः इत्याशङ्क्य योगसंन्यासयोर्भिन्नपुन्निष्ठत्वाभिप्रायेण पृच्छति । संन्यासमिति ॥१॥
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते॥२ ॥
श्री भगवानुवाच
एकपुंयोग्यावेतौ तयोर्मध्ये योग एव विशिष्ट इति परिहाराभिप्रायः । उभौ समुच्चितौ । 'संन्यासस्तु महाबाहो दुःखमाप्तुमयोगत इति वक्ष्यमाणत्वात् ॥ २ ॥
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते॥३ ॥
द्वेषादिवर्जनमेव संन्यासशब्दार्थो न यत्याश्रमोत्राभिप्रेत इत्याह ज्ञेय इति । न च 'काम्यानां कर्मणां न्यासम् इत्यनेन विरोधः । तेनापि सहितस्य न्यासत्वात् । न च त्यागस्य पृथग्वचनाद्विरोधः । कुरुपाण्डववत् न्यासावान्तरभेदत्वात्त्यागस्य ॥ ३ ॥
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥४ ॥
बालास्तु न्यासशब्देन यत्याश्रममेव स्वीकृत्य तत्स्थानामेव साङ्ख्य-शब्दोदितज्ञानाधिकारो गृहस्थानामेव योगशब्दोदितकर्माधिकार इति मन्यन्ते । तन्न पण्डिता मन्यन्ते । कुतः ? यस्माज्ज्ञानमार्गं कर्ममार्गं च सम्यगास्थितः उभयोरपि फलं प्राप्नोति ॥ ४ ॥
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥५ ॥
तस्माज्ज्ञानिनां कर्माप्यनुष्ठेयम् । कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान् । न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति ।'निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।निवृत्तं सेवामानस्तु ब्रह्माभ्येति सनातनम् ।बुद्ध्याविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् ।वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः ।मुक्तिरस्तीति नियमो ब्रह्मदृग्यस्य विद्यते ।तस्याप्यानन्दवृदि्धः स्याद्वैष्णवं कर्म कुर्वतः ।कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम् ।तस्मात्कर्मेति तत्प्राहुर्यत्कृतं ब्रह्मदर्शिना ।एतस्मान्न्यासिनां लोकं संयान्ति गृहिणोपि हि ।ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि ।तस्मादाश्रमभेदोयं कर्मसङ्कोचसम्भवः ॥ इति व्यासस्मृऽतेः ॥५ ॥
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति॥६ ॥
'मोक्षोपायो योग इति तद्रूपो न्यास एव तु ।
विष्ण्वर्पिततया भद्रो नान्यो न्यासः कथञ्चन । इत्याग्नेये । विष्ण्वर्पितत्वादियोगरूपत्वं विना केवलकर्मत्यागो नरकफल एव । 'यं संन्यासमिति प्राहुर्योगं तं विदि्ध पाण्डव । इति वक्ष्यमाणत्वात् । योगविशेषत्वान्न्यासस्य पृथगुक्तिः ॥६ ॥
योगयुक्तो विशुद्धात्मा विजितात्मा जितेंद्रियःसर्वभूतात्मभूतात्माकुर्वन्नपि न लिप्यते॥ ७ ॥
सर्वभूतात्मभूतात्मेति मुख्ययोगः ।
'आदानात्सर्वभूतानां विष्णुरात्मा प्रकीर्तितः ।
सर्वभूतात्मभूतात्मा तत्र भूतमनाः पुमान् ॥ इति च ॥७ ॥नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।पश्यन् शृृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥८ ॥
प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि ।इंद्रियाणींद्रियार्थेषु वर्तन्त इति धारयन्॥९ ॥
यथा न्यासस्य योगरूपत्वं तथाह नैव किञ्चिदित्यादिना ।
'विष्णुनार्थेष्वीरितानि मन आदीनि सर्वशः ।
वर्तन्तेन्यो न स्वतन्त्र इति जानन् हि तत्ववित् ॥ इति च ॥ ८, ९ ॥ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥१० ॥
कायेन मनसा बुद्ध्या केवलैरिंद्रियैरपि ।योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये॥११ ॥
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।अयुक्तः कामकारेण फले सक्तो निबध्यते॥१२ ॥
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।नवद्वारे पुरे देही नैव कुर्वन्न कारयन्॥१३ ॥
तत्पूजात्मकानि तत्कृतानि मम शुभार्थमिति ब्रह्मण्याधानम् । स्वातन्त्र्याभावापेक्षयैव जीवस्याकर्तृत्वम् ।
'स्ववन्दनं यथा पित्रा कारितं शिशुकर्तृकम् । एवं पूजा विष्ण्वधीना भवेज्जीवकृतेत्यपि ॥ इति प्रवृत्ते ।
अतो मनसैव कर्मन्यासोस्वातन्त्र्यापेक्षया ॥ १०-१३ ॥न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते॥१४ ॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥१५ ॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥१६ ॥
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥१७ ॥
यथा पितॄदत्तं पालकत्वं राजपुत्राणाम् एवं परमात्मदत्तं क्रियास्वातन्त्र्य-लक्षणं कर्तृत्वम् । क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीत्याशङ्कां परिहरति । न कर्तृत्वमित्यादिना । क्रियायामदृष्टोत्पादने फले च स्वातन्त्र्यं लोकस्य न सृजतीश्वर इत्यर्थः । अन्यथा लोकस्येति विशेषणं व्यर्थम् । जनपदे निवसतां तद्वित्त-भोजिनामप्याधिपत्यादानान्न दत्ता जनपदा राज्ञा स्वपुत्राणामितिवत्कर्मफलादिसंयोगिनामपि तत्स्वातन्त्र्यादानान्न सृजतीति युज्यते । स्वयमेव भवति भावयति चेति स्वभावो भगवान् । स्वभावत्वात्स्वयमेव कर्तृत्वादिषु प्रवर्तते ।'स्वातन्त्र्याद्भगवान्विष्णुः स्वभाव इति कीर्तितः ।तत्स्वातन्त्र्यं कदाप्येष नान्यस्य सृजति क्वचित् ।स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोपि न ।अज्ञानावृतबुदि्धत्वादीदृशं तं न जानते ॥ इति महावाराहे । 'अहं सर्वस्य प्रभवः । 'तपाम्यहमहं वर्षं निगृह्णामि ।'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । 'न ऋते त्वत्क्रियते किञ्चिनारे । 'देवस्यैष स्वभावोयम् ।'लोकवत्तु लीलाकैवल्यम् । इत्यादेर्नास्यास्वाभाविकं कर्तृत्वमकर्तृत्वं वा । विपरीतप्रमाणाभावाच्च । अनिर्वाच्यनिरासादेव च निरस्तोयं पक्षः । न च सर्वविशेषराहित्यवादिनां शून्यवादात्कश्चिद्विशेषः । न हि सर्वविशेषरहितमित्युक्ते तदस्तीति सिद्ध्यति । वाच्यत्वलक्ष्यत्वास्तित्वादीनामपि विशेषत्वात् । अन्यथास्ति ब्रह्मेत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः । व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव । अन्यथा वैयर्थ्यमेव स्यात् । न च सर्वशब्दावाच्यस्य लक्ष्यत्वम् । न च सर्वप्रमाणागोचरमस्तीत्यत्र किञ्चिन्मानम् । नास्तित्वं तु सप्तमरसादिवददर्शनात्सिद्ध्यति ।स्वप्रकाशत्वं च न अमानं सिद्ध्यति । स्वयम्प्रकाशत्वं च ततोतिरिक्तं चेद्विशेषाङ्गीकारः । न चेत्तदेव प्रमाणगोचरम् । तत्प्रमाणाभावे परप्रकाशत्वमात्रनिरासे स्वप्रकाशत्वे प्रमाणाभावादप्रकाशत्वमेव स्यात् । अर्थतः सिदि्धरित्यर्थापत्तितः सिदि्धस्तत्प्रमाणतः सिदि्धर्वा । उभयथापि प्रमेयत्वमेव स्यात् ।स्वप्रकाशशब्देन स्वमितत्वानङ्गीकारात्परमितत्वानङ्गीकाराच्चासिदि्धरेव । प्रकाश इत्युक्तेपि स्वमन्यं वा किञ्चित्प्रकाश्यं विना न दृष्ट एव भोजनादिवत् । कर्तृकर्मविरोधश्चानुभवविरुद्धः । ज्ञानं च ज्ञेयं ज्ञातारं च विना न दृष्टम् । अतः शून्यवादान्न कश्चिद्विशेषः । अतोनन्तदोषदुष्टत्वादुपरम्यते ।हरिः स्वभावतः कर्ता सर्वमन्यत्तदीरितम् ।अतः सा कर्तृता तस्य न कदाचिद्विनश्यति ॥ इति पैङ्गिश्रुतिः ।॥ १४-१७ ॥
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥१८ ॥
'विषमेष्वपि जीवेषु समो विष्णुः सदैव तु ।
यत्तृणादिगतस्यापि गुणाः पूर्णा हरेः सदा ॥ इति च ॥१८ ॥
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥१९ ॥
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।स्थिरबुदि्धरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः॥२० ॥
संन्यासयोगज्ञानानि मिलित्वा प्रपञ्चयत्यध्यायशेषेण-
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते॥२१ ॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥२२ ॥
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥२३ ॥
इदानीमपि परमात्मनि स्मृऽतमात्रे सुखं विन्दतीति यत्तदा स एव सम्यगुक्तः किमु ॥ २१-२३ ॥
ज्ञानिलक्षणं प्रपञ्चयत्युत्तरश्लोकैः-
योन्तः सुखोन्तरारामस्तथान्तर्ज्योतिरेव यः ।स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोधिगच्छति॥२४ ॥
ब्रह्मणि भूतः । अन्यथा पुनर्ब्रह्म गच्छतीति विरोधाच्च । अन्तस्सुखादिकं च ब्रह्मदर्शनात् ॥ २४ ॥
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।छिन्नद्वैधायतात्मानः सर्वभूतहिते रताः॥२५ ॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्॥२६ ॥
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ॥२७ ॥
यतेंद्रियमनोबुदि्धर्मुनिर्मोक्षपरायणः ।विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥२८ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये पञ्चमोध्यायः ॥
'अमुक्तो मुक्तसादृश्यान्मुक्त एव हि तत्त्वदृक् ।
किमु मुक्तिगतस्तस्माज्ज्ञानमेवाधिकं नरे ॥ इति नारदीये ॥ २७, २८ ॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥२९ ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोध्यायः ॥