Jump to content

ब्रह्मसूत्रभाष्यम्/C04/S01

From Grantha
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

प्रथमः पादः

प्रास्ताविकम्

फलं निगद्यतेऽस्मिन्नध्याये । कर्मनाशाख्यं फलमस्मिन् पादे ।


नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमथ उच्यते ।


प्रायिकत्वाच्छाध्यायानां पादानां च न विरोधः ।


आवृत्यधिकरणम्

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ 01-485 ॥


‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’ इत्यादीनां नाग्निष्टोमादिवदेकवारेणैव फलप्राप्तिः। किन्त्वावृत्तिः कर्तव्या ।


‘स य एषोऽणिमैतदात्म्यमिदं सर्वम्’ इत्याद्यसकृदुपदेशात् ॥ 01 ॥


ॐ लिङ्गाच्च ॐ ॥ 02-486 ॥


‘स तपोऽतप्यत……. पुनरेव वरुणं पितरमुपससार’ इत्याद्यावर्तनलिङ्गाच्च ।



आत्मोपगमाधिकरणम्

ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥ 03-487 ॥





नप्रतीकाधिकरणम्

ॐ न प्रतीके न हि सः ॐ ॥ 04-488 ॥


‘नाम ब्रह्मेत्युपास्ते’ इत्यादिना शब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थत्वेनैवोपासनं कार्यम् । ब्रह्मतर्के च –


‘नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः । ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ॥


नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते । सर्वार्था प्रथमा यस्मात् सप्तम्यर्था ततो माता’ इति ॥ 04 ॥


ब्रह्मदृष्ट्यधिकरणम्

ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ॥ 05-489 ॥


ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् ।


‘ब्रह्मदृष्ट्या सदोपास्यो विष्णुः सर्वैरपि ध्रुवम् ।

महत्त्ववाची शब्दोऽयं महत्त्वज्ञानमेव हि ।

सर्वतः प्रीतिजनकमतस्तत् सर्वता भवेत् ॥



आदित्यादिमत्यधिकरणम्

ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ 06-490 ॥


‘चक्षोः सूर्यो अजायत’ इत्याद्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानात् स्वाश्रयत्वान्मुक्तौ तत्र लयस्यापेक्षितत्वाच्चोपपन्नं तथोपासनम् । नारायणतन्त्रे च –


‘आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु । गुणानां स्मरणाशक्तौ विष्णोर्ब्रह्मत्वमेव तु ॥


स्मर्तव्यं सततं तत् तु न कदाचित् परित्यजेत् । अत्र सर्वगुणानां च यतोऽन्तर्भाव इष्यते ॥


स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु ।

तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ॥

तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः’ इति ॥ 06 ॥


आसनाधिकरणम्

ॐ आसीनः सम्भवात् ॐ ॥ 07-491 ॥


सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । तदा विक्षेपाल्पत्वेन सम्भवात् ॥ 07 ॥


ॐ ध्यानाच्च ॐ ॥ 08-492 ॥


‘स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा । स्मरणं सर्वदा योग्यं ध्यानोपासनमानसे॥


नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः । आसीनस्य भवेत् तत् तु न शयानस्य निद्रया ॥



अतो ध्यानत्वाच्च ॥ 08 ॥


ॐ अचलत्वं चापेक्ष्य ॐ ॥ 09-493 ॥



ॐ स्मरन्ति च ॐ ॥ 10-494 ॥


‘समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्’ इत्यादि ॥ 10 ॥


ॐ यत्रैकाग्रता तत्रा विशेषात् ॐ ॥ 11-495 ॥


देशकालावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थातव्यम् ।


‘तमेव देशं सेवेत तं कालं तामवस्थितिम् । तानेव भोगान् सेवेत मनो यत्र प्रसीदति ॥



प्रायणाधिकरणम्

ॐ आ प्रायणात् तत्रापि हि दृष्टम् ॐ ॥ 12-496 ॥


यावन्मोक्षस्तावदुपासनादि कार्यम् ॥


‘स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत’ इति हि श्रुतिः ॥


‘सर्वदैनमुपासीत यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपासते’ इति सौपर्णश्रुतिः ॥


‘श्रुणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ॥



तदधिगमाधिकरणम्

ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ॥13-497 ॥


ब्रह्मदर्शन उत्तराघस्याश्लेषः पूर्वस्य विनाशश्च ।



ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ॥ 14-498 ॥


पुण्यस्याप्येवमसंश्लेषः पाते। तुशब्दोऽनुत्थानवाची ।



ॐ अनारब्दकार्ये एव तु पूर्वे तदवधेः ॐ ॥ 15-499 ॥


अनारब्धकार्ये एव पूर्वे पुण्यपापे विनश्यतः । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽत सम्पत्स्यते’ इति तदवधेः । तुशब्दः स्मृतिद्योतकः ।


‘यदनारब्दपापं स्यात् तद्विनश्यति निश्चयात् । पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः ॥



ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ॥ 16-500 ॥


अग्निहोत्राद्यपि तु मोक्षेऽनुभावायैव । तुशब्दाद्ब्रह्मदर्शनवतः ।


‘स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वा कर्माकृतम् यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्दास्यान्ततः क्षीयत । एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत् तत्सृजते’ इति तद्दर्शनात् ॥ 16 ॥


ॐ अतोऽन्यदपीत्येकेषामुभयोः ॐ ॥ 17-501 ॥


मुक्तावनुभवकारणाद्यदन्यत् तत् पुण्यमपि विनश्यति, अप्रारब्दमनभीष्टं च तथा ह्येकेषां पाठ उभयोस्त्यागेन ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति ।



ॐ यदेव विद्ययेति हि ॐ ॥ 18-502 ॥


ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तम् च भवति ।


‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’

इति श्रुतेः । ‘न हास्य कर्म क्षीयते’ इति च ।



ॐ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते ॐ ॥ 19-503 ॥


आरब्दपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते । अथेति नियमसूचकः ।


‘आरब्धपुण्यपापस्य भोगेन क्षपणादनु । प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः ॥