Tantrasarasangraha/C3
Appearance
तृतीयोध्यायः
प्रतिष्ठां कारयन् विष्णोः कुर्यात् सुप्रतिमां बुधः ।लोहैर्वा शलिया दार्वा मृदा वापि यथाक्रमम् ॥1॥
षण्णवत्यङ्गुलां योग आसीनामथवा स्थिताम् ।शयानां वा मुमुक्षूणां व्याचक्षाणां निजां स्थितिम् ॥2॥
मुखादूर्ध्वं द्य्वङ्गुलोच्चां नवाङ्गुललसन्मुखाम् ।सुवृत्तत्र्यङ्गुलग्रीवामा स्तनाच्च षडङ्गुलाम् ॥3॥
पञ्चादशाङ्गुलां नाभेरा सार्धदशकाङ्गुलाम् ।वृषणादामूलतश्च सार्धद्य्वङ्गुलमायताम् ॥4॥
तावदा गुदतो दीर्घां चैत्यादाष्टादशाङ्गुलाम् ।तथा द्य्वङ्गुलचैत्यां च द्वाविंशज्जङ्घया युताम् ॥5॥
आरभ्य गुल्फमध्यं च सहार्धचतुरङ्गुलाम् ।षडङ्गुलोच्चप्रपदां सार्धद्य्वङ्गुलमेव च ॥6॥
प्रपदोच्चयुतामन्ते द्य्वङ्गुलप्रपदोच्छ्रयाम् ।त्र्यङ्गुलद्य्वङ्गुलामर्धहीनमध्याङ्गुलामपि ॥7॥
त्रिपदाङ्गुलहीनान्यां ततस्तादृशतत्पराम् ।पादोनोच्चाङ्गुष्ठनखां तदर्धतदनन्तराम् ॥8॥
क्रमशः पादहीनान्यां रक्तपादनखां शुभाम् ।विस्तारः प्रपदस्यापि षडङ्गुल उदाहृतः ॥9॥
अङ्गुष्ठपरिणाहस्तु चतुरङ्गुल ईरितः ।त्र्यङ्गुलं तु तदन्यस्य व्रीह्यार्धोनाः क्रमात् पराः ॥10॥
दशङ्गुलं जङ्घमूलं मध्यं तु त्र्यङ्गुलाधिकम् ।सप्तादशाङ्गुलं तूर्ध्वं जानुरष्टादशाङ्गुलः ॥11॥
ऊर्वन्तोपि तथा ज्ञेयो मध्यं द्विर्द्वादशाङ्गुलम् ।चतुरङ्गुलाधिकं मूलं गुह्यं सार्धचतुष्टयम् ॥12॥
सार्धत्रयं परीणाहाद् वृषणं चतुरङ्गुलम् ।सप्ताङ्गुलं परीणाहात् वृत्तं प्रोक्तं समस्तशः ॥13॥
अष्टत्रिंशाङ्गुलं कट्याः परीणाह उदाहृतः ।सुवृत्तत्वं तथा श्रोण्योः पीनत्वं च समस्तशः ॥14॥
विस्तारश्च तथा कट्याः सुप्रतिष्ठितता पदोः ।कट्याश्चैवाङ्गुलाधिक्यं नाभेरध उदाहृतम् ॥15॥
नाभिः सार्धाङ्गुलश्चैव गम्भीरोर्धाङ्गुलोन्नतः ।वृत्तः प्रदक्षिणश्चैव द्विचत्वारिंशदङ्गुलम् ॥16॥
मध्यं स्तने परीणाहः षडङ्गुलमतोधिकः ।एकोनविंशाङ्गुलं तदुरोविस्तारलक्षणम् ॥17॥
पादोनमङ्गुलं चैव भुजाभ्यां सह सार्धकम् ।अंसयोर्विस्तृतिश्चैव पृथगष्टाङ्गुला मता ॥18॥
सप्ताङ्गुलोच्छ्रयः कक्षादुपरि स्कन्धयोर्मतः ।अष्टत्रिंशाङ्गुलञ्चैव हस्तयोर्मानमुच्यते ॥19॥
अष्टादशाङ्गुलो बाह्वोः परिणाह उदाहृतः ।क्रमादूनं तदन्ते च सार्धाष्टाङ्गुलमीरितम् ॥20॥
साङ्गुलस्तु तलः सार्धनवाङ्गुल उदाहृतः ।समं तदुभयं ज्ञेयं तथैव तलविस्तृतिः ॥21॥
अर्धाङ्गुलोन्नता मध्या द्वयोः सार्धाङ्गुलोन्नता ।कनिष्ठिकायास्तस्यास्तु व्रीहिमात्राधिकः परः ॥22॥
सार्धत्रयपरीणाहौ मध्यज्येष्ठावुदाहृतौ ।अन्यौ व्रीहितदर्धोनावन्या सार्धद्वयाङ्गुला ॥23॥
पादोनान्तपरीणाहाः सर्वे ज्येष्ठां विना स्मृताः ।वक्षोविस्तारसदृशऋ परिणाहो गलस्य च ॥24॥
ललाटकुक्षिकण्ठास्तु दीर्घरेखात्रयान्विताः ।वृत्तो गलो बाहवश्च स्तनावङ्गुलयस्तथा ॥25॥
रक्तास्तलनखाश्चैव नेत्रान्तोधर एव च ।उत्तरोष्ठश्च जिह्वा च नखौ पादोनकाङ्गुलौ ॥26॥
अर्धाङ्गुलौ तथा मध्यावन्येष्टांशक्रमोनकाः ।नासिकया अधस्ताच्च नासिका च रराटिका ॥27॥
समा मानेन नासाया उच्चत्वेनैव मापने ।अर्धाङ्गुलधिकं सर्वं मुखस्य तु भविष्यति ॥28॥
चतुरङ्गुलं तथैवास्यं सार्धव्रीह्यधरं स्मृतम् ।उत्तरं व्रीहिमात्रं तु तदूर्ध्वं चाधरोपमम् ॥29॥
सार्धाङ्गुलमधः प्रोक्तमधरादध एव च ।आस्यपार्श्वद्वयं प्रोक्तमाकर्णात्तु षडङ्गुलम् ॥30॥
सप्ताङ्गुलं नासिकायाः पार्श्वमा कर्णतः स्मृतम् ।सपादाङ्गुमुच्चा च नासिका परिकीर्तिता ॥31॥
अर्धाङ्गुले पुटे तस्या मध्यं च समुदाहृतम् ।नासिका व्रीहिविस्तारा चक्षुषी चाङ्गुलत्रये ॥32॥
अङ्गुलं चैव विस्तीर्णे फुल्लेर्धं च तदन्यथा ।चतुरङ्गुलौ भ्रुवौ चैव तथार्धाङ्गुलविस्तृतौ ॥33॥
असंहतौ च निबिडौ तथा पक्ष्म सुनीलकम् ।कर्णौ च त्र्यङ्गुलौ सार्धद्वयविस्तारसंयुतौ ॥34॥
सकुण्डलं तावदेव विवरं सम्प्रकीर्तितम् ।तथा द्य्वङ्गुलविस्तारो लताभ्यां सह कथ्यते ॥35॥
कर्णपूरयुतौ कर्णावुत्पलाभ्यां च संयुतौ ।नीलालकसहस्रेण युक्तं तन्मुखपङ्कजम् ॥36॥
ललाटं सुविशालं च तथा सार्धनवाङ्गुलम् ।विस्तारो मूध्नि वृत्तं च शिरः छत्राकृतिः स्मृतम् ॥37॥
दीर्घाश्च कुञ्चिताग्राश्च नीलाश्च केशा हरेर्मताः ।मुखमानेन चैवोच्चं किरीटं केशवस्य हि ॥38॥
कुण्डले मकराकारे वक्षश्चैव सकौस्तुभम् ।सश्रीवत्सं दक्षिणतः पीनतुङ्गमुदाहृतम् ॥39॥
हारग्रैवेयसहितमुपवीतयुतं तथा ।बाहवश्च सकेयूरकङ्कणाङ्गदमुद्रिकाः ॥40॥
समध्यबन्धं मध्यं च नितम्बे पीतमम्बरम् ।काञ्चीगुणश्च पदयोर्नूपुरे चातिसुस्वने ॥41॥
अङ्गुलीयानि च पदोः कृतिभिः साधु कारयेत् ।सोत्तरीयं च चक्राद्यैरायुधैश्च समन्वितम् ॥42॥
अनुन्नतैरविरलैर्दन्तैर्युक्तं च सुस्मितम् ।समदृष्टियुतं कार्यं श्लक्ष्णं चैव मनोहरम् ॥43॥
प्रतिमार्थं व्रजन्पञ्चध्वनिभिमङ्गलैर्युतः ।गत्वा शुचिस्थलं तत्र शलिां चैव परीक्षयेत् ॥44॥
ध्वनिभेदेन विज्ञाय शलिां गर्भवतीं त्यजेत् ।मूलमन्त्रं जपन् विष्णुं ध्यायंस्तिष्ठेदुपोषितः ॥45॥
वार्क्षी चेद्यज्ञवृक्षस्य सारेणैव तु कारयेत् ।बलिदानं च सङ्क्षेपविधानेनैव कथ्यते ॥46॥
अस्य सङ्क्षेपशास्त्रत्वान्न विस्तारविरोधिता ।दत्वोपहारं हरये तद्भूतेभ्यो बलिं हरेत् ॥47॥
प्राच्येभ्यो विष्णुभूतेभ्य इत्याद्यखलिदिक्षु च ।आदाय विष्णुभूतेभ्यो लोकपेभ्यस्तथा हरेः ॥48॥
अनुज्ञामुद्धरेद् वृक्षं शलिां वा प्रतिमाकृते ।प्रतिमां पिण्डिकां पीठं शलिाभिस्तु त्रिजातिभिः ॥49॥
स्वरस्थूलत्वभेदेन पुंस्त्र्याद्या जातिभिः शलिाः ।पुंशलिा प्रतिमार्थं तु स्त्रीशलिां पीठक्लृप्तये ॥50॥
वेदमङ्गलघोषेण वाद्यैस्तत्प्रतिमां हरेत् ।प्रागुदक्प्रवणे देशे कुर्याद्देवालयं सुधीः ॥51॥
रामावृते दक्षिणतः पश्चाद्गिर्यग्र एव वा ।मध्ये वा ग्रमापुरयोर्विशाले सुशुचौ तथा ॥52॥
ऐशानीं दिशमेकां तु विनोदकविवर्जिते ।जलाशयस्य मध्ये वा शलिावृक्षादिवर्जिते ॥53॥
श्मशानादिकदेशानां विदूरे सुमनोहरे ।किष्कुद्वादशतोनूनं कुर्याद्देवालयस्थलम् ॥54॥
द्विगुणं चतुर्गुणं वापि शतकिष्कुप्रमाणकम् ।कृत्वा भूशोधनं सम्यक् सार्धपुंमानतस्त्वधः ॥55॥
केशाङ्गारस्थिवल्मीकलोष्टाश्मादिविवर्जिते ।हरिं तत्रापि सम्पूज्य बलिं दत्वा च पूर्ववत् ॥56॥
मृद्दारुशैलैर्लोहैर्वा कुर्याद्देवालयं दृढम् ।दीर्घाश्च कलमास्तिस्रस्तिर्यगष्टयवोदराः ॥57॥
अङ्गुल्या मध्यरेखायाः समा लक्षणतः स्मृताः ।स्वाङ्गुल्या मध्यरेखा तु प्रतिमादिषु लक्षणम् ॥58॥
ह्रस्वमध्योच्चभेदेन तत्तन्मानं समस्तशः ।प्रादेशहस्तपुरुषमानं सामान्यलक्षणम् ॥59॥
प्रतिमाध्यर्धकं द्वारमूर्ध्वमध्यं च विस्तृतिः ।प्रतिमार्धप्रमाणेन पीठस्योच्चत्वमिष्यते ॥60॥
उन्नतिः पिण्डिकायास्तु चतुरङ्गुलमानतः ।त्र्यङ्गुलं द्य्वङ्गुलं वापि गृहान्तःप्रतिमासमम् ॥61॥
उच्चं पर्यक् च क्रमश उच्चत्वं मध्यतः स्मृतम् ।तावदुच्चं बहिश्चैव यद्येकशिखरं भवेत् ॥62॥
अर्धोच्चमथवापि स्यादधस्तात् प्रतिमोन्नतम् ।ततो द्विगुणमानं वा सार्धप्रतिममेव वा ॥63॥
शिखान्तरे तु प्रतिमामानं तद्गल उच्यते ।तत्त्रिपादं तदर्धं वा तदध्यर्धमथापि वा ॥64॥
वर्तुलं पद्मसदृशं हस्तिपृष्टसमं तथा ।चतुरस्रं चाष्टकोणं विमानं परिकीर्तितम् ॥65॥
प्रतिमाया दशगुणं विंशद्गुणमथापि वा ।वर्तुलं शिखरं त्वेकं किरीटाकृतिमद्भवेत् ॥66॥
सभयापि समेतं वा पृथक्सभमथापि वा ।द्विसभं त्रिसभं वापि सगोपुरमथापि वा ॥67॥
प्राकारवृत्तयुक्तं वा सप्तप्राकारमेव वा ।सद्मवृत्तं किष्कुमात्रं बहिर्वा चतुरस्रकम् ॥68॥
ततः परं किष्कुमात्रं सभाया अन्तरं यदि ।ततस्तावत् तृतीयायाः सार्धमेव ह्युदाहृतम् ॥69॥
किष्कुत्रयं च शक्राद्यैः स्थानं तद्वृत्ततः स्मृतम् ।ततस्तु मण्टपं कुर्यात् प्रतिष्ठायाः सुलक्षणम् ॥70॥
पूजयेद्वास्तुपुरुषस्योपरिस्थांस्तु सर्वदा ।देवान् ब्रह्मादिकान् वास्तुर्वराहस्य हरेः सुतः ॥71॥
पातितो दैवतैर्भूमौ चतुरस्राकृतिः स्थितः ।कृत्वाष्टकाष्टकोष्ठानि मध्ये ब्रह्मा चतुष्टये ॥72॥
पूज्यो द्वये द्वये शक्रो यमो वरुण एव च ।सोमश्च पूज्याः कोणेषु वह्न्याद्याः कोणदेवताः ॥73॥
पुनस्त्रये त्रये कामं धातारं सविधातृकम् ।स्कन्दं च पूजयेत् कोणे सूर्यं चैव विनायकम् ॥74॥
कालं कुबेरं च बहिः प्रत्येकं दिक्षु पूजयेत् ।हारिं हरिं गभीरं च गाहनं गहनं गुहम् ॥75॥
भानुमङ्गारकं चैव पूर्वस्यां दिशि पूजयेत् ।दारुणं विदरिं द्योतं प्रद्योतं द्योतनं हरिम् ॥76॥
मृत्युं शनैश्चरं चैव दक्षिणस्यां प्रपूजयेत् ।पुष्करं क्षरणं क्षारिं विक्षणं क्षोभणं क्षणम् ॥77॥
चार्वङ्गं भार्गवं चैव पश्चिमायां प्रपूजयेत् ।चारं विचारं प्रचरं सञ्चारं चरणं चरम् ॥78॥
बृहस्पतिं बुधं चैवाप्युत्तरस्यां प्रपूजयेत् ।एवमेव विमानस्य कृतेः प्रागपि पूजयेत् ॥79॥
सप्तपर्णमयं साधु कारयेन्मण्डपं ततः ।सप्तहस्तं द्विषड्ढस्तमथवा द्विगुणं ततः ॥80॥
चतुर्गुणं वा सम्यक् तु चतुरस्रं सहाजिरम् ।अन्यच्च मण्टपं दीर्घं पञ्चहस्तं तु कारयेत् ॥81॥
त्रिचतुष्कोष्ठकं तत्र मध्ये प्रागायतं शुभम् ।कारयेन्मण्डलं साधु हस्तमात्रं तु विस्तृतम् ॥82॥
तत्र द्वादशपात्राणि स्थापयेत् पालिकादिकम् ।पालिकास्तु चतुर्विंशत्यङ्गुलोच्छ्रयसंयुताः ॥83॥
अष्टादशाङ्गुलाश्चैव तथा पञ्चमुखा इति ।द्वादशाङ्गुलकाश्चैव शरावाः पश्चिमानुगाः ॥84॥
तत्र विष्णुं चतुर्मूर्तिं पूजयेद्भक्तितस्त्रिशः ।सप्तधान्यानि तेष्वेव पूरयेदङ्कुरार्थतः ॥85॥
तत्र नित्यं बलिं दद्याद्विष्णवे दशरात्रकम् ।ब्रह्मशङ्करगीर्वाणपितृगन्धर्वयक्षकैः ॥86॥
भूतैश्च पायसेनैव तथा पद्माक्षतेन च ।अन्नापूपेन पुष्पान्नैरन्नलाजाक्षतैरपि ।
तदैव प्रतिमायाश्च कारयेदधिवासनम् ।पञ्चगव्ये सप्तरात्रं क्षिप्त्वा पुरुषसूक्ततः ॥88॥
वेदांश्च चतुरः सम्यक् पारयेयुर्द्विजोत्तमाः ।प्राच्यादिद्वारगौ द्वौ द्वावेकैकं तु दशावराः ॥ यथालब्धं यथावित्तमथवा विष्णुतत्पराः ॥89॥
त्रयोदशात्र कुण्डानि परितः कारयेद् बुधः ।उक्तलक्षणयुक्तानि प्रधानं त्वग्निकोणके ।
आज्याहुतिं तेषु कुर्यात् प्रत्येकं लक्षसङ्ख्यया ।प्रत्येकमयुतं वापि प्रधाने लक्षसङ्ख्यकम् ॥91॥
अर्धं तदर्धमथवा मूलमन्त्रेण मन्त्रवित् ।पञ्चविंशतितत्वार्थे प्रधाने जुहुयात् पुरः ॥92॥
प्रत्येकं तु सहस्रं वा प्रत्येकं शतमेव वा ।शतं पुरुषसूक्तेन गायत्र्या च सहस्रकम् ।
चक्राब्जं भद्रकं वापि मण्टपे मण्डलं शुभम् ।पद्मं वृत्तत्रयं चक्रं राशयो वीथिका तथा ॥94॥
शोभोपशोभिकाश्चैव चक्राब्जस्य तु लक्षणम् ।चतुरस्रं विना चक्रं विशेषो भद्रके स्मृतः ॥95॥
सहस्रमर्धं पादं वा कलशांस्तत्र पूजयेत् ।शतं तदर्धं पादं वा वित्ताभावे निगद्यते ॥96॥
क्वाथेन क्षीरवृक्षाणां तथा पञ्चामृतैरपि ।पञ्चगव्येन शुद्धेन जलेन च पृथक् पृथक् ॥97॥
पूरयेत् कलशान् मध्यं शुद्धोदेनैव पूरयेत् ।ब्राह्मस्यैव चतुर्दिक्षु गन्धोदानां चतुष्टयम् ॥98॥
चतुर्दले सिते पद्मचतुष्के मण्डले स्थिते ।पूर्वादिक्रमयोगेन रसक्वाथशुभोदकान् ॥99॥
गन्धांश्च स्थापयेत् पञ्चगव्यं शुद्धान्तरे न्यसेत् ।पृथक् चतुर्दलं पद्मं रक्तं कृत्वाल्पकं सुधीः ॥100॥
पञ्चाशत्वे तु गन्धोदं सर्वमध्ये निधापयेत् ।ब्राह्मस्य पुरतस्त्वेकं शार्वं संस्थापयेद् बृहत् ॥101॥
अष्टदिक्ष्वष्टपद्मेषु पञ्चकं पञ्चकं न्यसेत् ।अनेन क्रमयोगेन कलशा अखिला अपि ॥102॥
तत्तद्द्रव्यमयास्तत्र तत्र स्थाप्यास्तु बाह्यतः ।तदैवाङ्कुरपात्राणि परितस्तत्र विन्यसेत् ॥103॥
कुशोदकं च कार्पूरं कौङ्कुमं चान्दनं तथा ।तुहिनोदं हरिद्रोदमौशीरं कोष्ठसार्षपम् ॥104॥
नदीसङ्गमजं चैव ताडाकं कौप्यमेव वा ।निर्झरोदमिति प्रोक्ता विशेषकलशास्त्विमे ॥ शुद्धोदद्वयमप्येतन्महातीर्थसमुद्भवम् ॥105॥
चतुर्विंशतिमूर्तीनां वर्णमूर्तीस्तथापरः ।आवाहयेच्छतत्वे तु क्रमव्युत्क्रमतस्तु ताः ॥106॥
वर्णमूर्तीः पुनश्चैव द्विचतुर्वारमेव च ।सहस्रकलशादित्वे जपेन्मन्त्रांश्च शक्तितः ॥107॥
ततस्तु पञ्चघोषैश्च वेदघोषैस्तथादरात् ।आनीय प्रतिमां स्नानं कारयेत् प्रणवेन तु ॥108॥
मन्त्रैः पुरुषसूक्तान्तैः विश्वतश्चक्षुषा तथा ।पुनश्चाष्टाक्षरेणैव प्रणवेन च भक्तितः ॥109॥
स्नापयित्वा गन्धजलैर्गन्धपुष्पादिभिः पुनः ।अलङ्कृत्य स्थापयेत्तु प्रतिमां प्रणवेन तु ॥110॥
जपेदष्टाक्षरं मन्त्रं तत्तन्मूर्तिमनुं तथा ।अष्टोत्तरशतं मन्त्री ध्यायेत् तेजोमयीं पुनः ॥111॥
प्रतिमां प्रतिमान्तस्थां तन्मध्ये परमं वपुः ।चिदानन्दरसं पूर्णगुणसम्पूर्णमुत्तमम् ॥112॥
पञ्चविंशतितत्त्वानां देवतास्तदनन्तरम् ।स्थापयेत् प्रतिमामध्ये परितः केशवस्य तु ॥113॥
तत्रात्वाहार्षसूक्तं च घर्मसूक्तं च वैष्णवम् ।सूक्तं च विश्वकर्मीयं पौरुषं सूक्तमेव च ॥114॥
जप्त्वा चैव निजं मन्त्रं पुनरष्टाक्षरं सुधीः ।प्रणवं च जपेद्विष्णुं ध्यायन्नुत्तमरूपिणम् ॥115॥
ततस्तु कलशैर्बाह्यक्रमेणैव जनार्दनम् ।स्नापयेदुक्तमन्त्रैस्तु मध्यमं प्रणवेन तु ॥116॥
अष्टार्णेन निजेनापि तथा पुरुषसूक्ततः ।आवाहनं च स्नपनं पञ्चगव्येन मध्यवत् ।
जप्त्वा पुनश्च तन्मन्त्रान् पूजयेच्च विधानतः ।द्वारलोकपतिभ्यश्च बलिं दत्वा यथाक्रमम् ॥118॥
वस्त्ररत्नहिरण्याद्यैरलङ्कृत्य विभूतितः ।गुरवे दक्षिणां दद्यात् कोटिं लक्षं सहस्रकम् ॥119॥
शतमर्धं तदर्धं वा निःस्वो भक्त्या क्षमापयेत् ।तदर्धमृत्विजां चैव तदर्धं पारणाकृताम् ॥120॥
आश्वभ्यः आश्वपाकेभ्यो दद्यादन्नं समस्तशः ।पुरस्तात्परतश्चैव सप्तरात्रं निरन्तरम् ॥121॥
सुवर्णरजतवस्त्ररत्नाद्यैरागताभ्यागतानपि ।पूजयेच्छक्तितो भक्त्या प्रीयतां भगवानिति ॥122॥
गीतनृत्यैश्च वाद्यैश्च पुराणैरितिहासकैः ।सूक्तैर्मङ्गलघोषैश्च वैदिकैर्दिनसप्तकम् ॥123॥
नयेत् ततो महाराजविभूत्यावभृथं सुधीः ।कारयेद् देवदेवस्य स्वाध्यायैर्गीतनृत्तकैः ॥124॥
महानदीसङ्गमे तु तीर्थे चातिप्रशस्तके ।स्नापयेत् पूर्ववन्मन्त्रैः पुंसूक्तान्तैः स्मरन् हरिम् ॥125॥
ततः पूर्ववदागत्य प्रवेश्य पुरुषोत्तमम् ।पूजयित्वा विधानेन दत्वा दानानि शक्तितः ॥126॥
गुरुं च भक्त्या सम्पूज्य स्वीकुर्यादाशिषस्ततः ।शतप्रस्थादनूनं तु नैवेद्यं पायसोत्तरम् ॥127॥
दिनेष्वेतेषु दातव्यं सघृतं ससितादिकम् ।पश्चादपि यथाशक्ति पूजा कार्या हरेः सदा ॥128॥
जीर्णालयोद्धृतौ चैव तत्त्वमन्त्रान् स्वकं तथा ।प्रतलिोमेन जप्त्वैव मूर्ती सङ्कोचयेद्धरिम् ॥129॥
उक्तेनैव विधानेन तदर्धविभवैः सुधीः ।पादमात्रैरपि हरिं स्नापयित्वा यथोदितम् ॥130॥
एतेनैव विधानेन कृत्वा देवालयं पुनः ।स्नापयेत् पुण्डरीकाक्षं द्विगुणेन प्रवाहणात् ॥131॥
विभवेनानुलोमेन जपेन्मन्त्रान् पुनस्तथा ।आराधयेज्जगन्नाथं ध्यायन् भक्त्या यथोदितम् ॥132॥
यात्रापि पूर्ववत् तत्राप्युत्सवेषु च सर्वशः ।कलशोक्तविधानेन पूजा बलिहृतिस्तथा ॥133॥
उत्सवेषु सदा कार्या कलशश्चोत्सवादनु ।यात्रा स्नानं च कर्तव्यं सम्यगुक्तविधानतः ॥134॥
चोरचण्डालपतितश्वोदक्यादिप्रवेशने ।शवाद्युपहतौ चैव पूजाविच्छेदने तथा ॥135॥
स्नपनोक्तेन मार्गेण प्रायश्चित्तकृतिः स्मृता ।सर्वत्र विष्णुगायत्र्या होमः स्यादयुतावरः ॥136॥
नावाव्याद्याभिधानानु विग्रहे धीमहे तथा ।प्रचोदयात् तृतीयाधस्तन्नो गायत्रिनामिका ॥137॥
दुर्गाशिवस्कन्दसूर्यविनायकमुखानपि ।स्थापयेदुक्तमार्गेण तत्तन्मन्त्रैः स्मरन् हरिम् ॥138॥
गोलकद्वितयं विष्णोस्त्रितयं वापि कीर्तिमान् ।अन्यदेवप्रतिष्ठासु तदन्तश्चिन्तयेद्धरिम् ॥139॥
विष्णुस्मृतिविहीना तु पूजा स्यादासुरी तथा ।गृह्णन्ति देवता नैतां ततः स्याद्देशविप्लवः ॥ व्याधिचोरादिभिस्तस्मादन्तर्ध्येयो हरिः सदा ॥140॥
विष्णुभक्तिविहीनस्य गतिः स्यान्न तु शुभा क्वचित् ।भक्तस्याप्यन्यदेवेषु तस्माद् ध्येयो हरिः सदा ॥141॥
संस्मृतो भगवान् विष्णुः सर्वमङ्गलमङ्गलः ।समस्ताभीष्टदायी स्यात् तेन ध्येयोखिलैर्जनैः ॥142॥
पुरुषोव्यक्तं च महानहङ्कारो मनस्तथा ।दशेन्द्रियाणि शब्दाद्याः भूतेताः पञ्चविंशतिः ॥143॥
तत्त्वाख्याः कालमाये च नियतिर्मतिरेव च ।विद्या कला प्रवृत्तिश्च द्वात्रिंशत्तत्त्वसङ्ग्रहः ॥144॥
स्पूर्त्तिः संवित् प्रतिष्ठा च शक्तिरित्यपराणि च ।महालक्ष्मीस्वरूपाणि ह्येकादश विदो विदुः ।
प्रधानोपमवर्णानि द्विभुजान्यप्यशेषतः ।कृताञ्जलिपुटान्येव प्रधानं तं हरिं प्रति ॥146॥
सर्वाण्येतानि तत्त्वानि ब्रह्मा तु पुरुषः स्मृतः ।महांश्चाव्यक्तनाम्नी तु ब्रह्माणी सम्प्रकीर्तिता ॥147॥
एवं वायुरपि ज्ञेयो भारती चापि तत्त्रयम् ।रुद्रोहङ्कार उद्दिष्टः स्कन्देन्द्रौ मन उच्यते ॥148॥
अहङ्कारः शेषवीन्द्रावपि विद्वद्भिरीरितौ ।दिग्वायुसूनुसूर्याश्च वरुणश्चाश्विनावपि ॥149॥
वह्निदक्षाविन्द्रसूनुर्मित्रश्चैव मनुस्तथा ।इन्द्रियाख्याः शब्दनामा बृहस्पतिरुदाहृतः ॥150॥
अन्ये तु सूनवो वायो रुद्रस्यापि प्रकीर्तिताः ।एतेषु भगवान् विष्णुः प्रधानतनुरेव तु ॥151॥
ध्येयः परात्मनोर्मध्ये तत्त्वनाम तदर्थयोः ।जपे न्यासे नमोन्तस्तु स्वाहान्तो होमकर्मणि ॥152॥
त्रिचतुष्षड्दशावृत्तिरेतेषां तु हुतादिके ।न्यासोङ्गुलीषूरुबाहुमध्येषु व्युत्क्रमे स्मृतः ॥ क्रमे विपर्ययेणात्र शक्त्यादित्वं प्रकीर्तितम् ॥153॥
ऋषिच्छन्दोदेवताङ्गध्यानानुक्तौ प्रधानवत् ।ज्ञेया मन्त्राः समस्तास्ते पृथङ्मोक्षादिदायकाः ॥154॥
तन्त्रमार्गास्तु हरिणा ह्यसङ्ख्याः कीर्तिता अपि ।तेष्वयं सुगमो मार्गः सफलश्चानुतिष्ठताम् ॥155॥
यावतो ह्यननुष्ठाने कर्मपूर्तिर्न विद्यते ।तावत् समस्तं कथितं ह्यस्मिंस्तन्त्रे यथाविधि ॥156॥
प्रीयतेनेन मार्गेण पूजितो मुक्तिदो भवेत् ।कामदश्च स्वभक्तानां भगवान् पुरुषोत्तमः ॥157॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे तृतीयोध्यायः