Nyayavivaranam/C3/S4
Appearance
चतुर्थः पादः
पुरुषार्थाधिकरणम्
न च ज्ञानिन औदार्यान्मोक्षादन्यफलेच्छाया एवासम्भवात् तदुक्तिः प्रशंसामात्रमिति वाच्यम् । प्रायशो न सम्भवत्येव । कस्यचित् सौभरिवत् सा भवति(सौभर्यादिवद्भवति) चेज्ज्ञानेनैवाशेषमभीप्सितं(अशेषमीप्सितं) भवतीति व्यवस्थोपपत्तेः ॥1॥
सर्वात्रिकाधिकरणम्
न चाधिकारे समेपि तेषामेवोच्चावचशक्तियोगात् फलभेदोपपत्तेरधिकारविशेषकल्पनं व्यर्थम् । भक्त्याद्यधिकारतारतम्येन(भक्त्याद्यधिकारानुसारेण) शास्त्रात् फलप्राप्तेः सर्वेषामविशेषात् । दृश्यमानत्वाच्च भक्त्याद्यधिकारतारतम्यस्य । उच्चवचशक्तेरपि तन्निबन्धनत्वात् ॥2॥
अविशेषाधिकरणम्
न च ज्ञानिनामात्मस्वरूपदार्ढ्यात् सत्प्रवृत्तिविपरीतप्रवृत्योरविशेषः । ‘एतावतोऽधिका नास्ति प्राप्तिरित्यन्ततः स्थिता ।या स्थितिस्तां समाप्नोति यथाशक्ति प्रयत्नतः ॥
उभयलिङ्गाधिकरणम्
‘विपरीतप्रवृत्तेस्तु तस्य(तस्या) ह्रासोऽधिकं भवेत् ॥’ इति वचनात् स्थितिविशेषोपपत्तेः ॥4-5॥
अथाऽधिकारिकाकाधिकरणम्
न च सर्वजीवानामेकप्रकार एव निजस्वभावश्चैतन्यमिति फलेऽप्यविशेषः । निषेधसामान्यविधिक्रियाणां विभक्तत्वात् । ‘नादेवो देवपदमन्विच्छेदन्विच्छन् यात्यधरं तमः । न देवः स्वीयं पदमन्विच्छन् विदुष्यति । तदेव ह्यस्य स्वम्’() इति निषेधविभागः । ‘स्थिरं ज्ञानं स्थिरो हरावभिषङ्गः स्थिरमोजो बलं विराग एतद्धि सामान्यं देवानाम् । अथान्येषामस्थिराण्येवेतानि(.....अस्थिराण्येव एतानि/अस्थिराण्येतानि) सर्वाण्यथापि यथायोगं विनेयानि‘ इति सामान्यविभागः । ‘ज्ञानदानमेव देवानां विहितं तप एवर्षीणामाचार एव मनुष्याणां तदविरोधेनान्यानि करणीयानि’() इति विधिविभागः । ‘चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्याः’() इति क्रियाविभागः ॥6॥
फलश्रुत्यधिकरणम्
न च स्वातन्त्र्याद् देवानामेव ज्ञानादिफलं, न किञ्चिदन्येषामिति वाच्यम् ।‘ त्वरयैव मनुष्याणां सिद्धिरत्वरयैव तु । देवानां तत्प्रसादेन मुक्त्या एव सतां नृणाम् ॥’ इति मानुषमुक्त्यर्थमेव देवानामत्वरया सिद्धिश्रुतेः ॥7॥
कृत्स्नभावाधिकरणम्
न च गृहस्थानामशेषकर्मविशेषयोग्यत्वादाधिक्यं मुक्तौ । त्वरयैव गृहिणः साधयन्ति मुक्तिमत्वरयैव यतयस्तेभ्यश्चात्वरया देवास्तेषु च ब्रह्मा । तदेष श्लोकः । ‘शतं परानभिपश्यैव देवं ब्रह्माऽचरद्दुश्चरं यत्तपोऽग्र्यम् । विहाय रागं मनसश्चोपरिष्ठः(मनसश्चापि विष्ठां) ततोऽभवत् परमेष्ठी स मुक्तौ ॥’ इति । ‘यो हि त्वरया साधयेत् स मन्दं सुखमाप्नुयात् । यो ह्यत्वरया स महत् ॥’ इति श्रुतेर्गृहिस्थो यतीनां तेभ्यो देवानामत्वरया सिद्धेः । बहुकालसाधनात् बहुकर्माधिकारमात्रस्य दुर्बलत्वात् ॥8॥
अन्वयाधिकरणम्
न चाविष्कारेण कथनादशेषतोऽपि योग्या ज्ञानिनो भवन्तीत्यास्थानचत्वरादिषु स्थित्वैव प्रकथनीयम् । न ह्येवं त्वरमाणे सिद्धिभर्वति । अयोग्यानामपि ग्रहण(श्रवण)प्रसङ्गात् । तस्मात् विचार्य योग्यानामेवात्वरयैव कथयित्वा सिद्धिर्भवति । ‘त्यक्त्वा त्वरां ब्रह्मविद्यां वदेत जनाय योग्याय सदैव विद्वान्’() इति श्रुतेः । ‘मा न स्तेनेभ्यः’() इत्यादेश्च ॥9॥
मुक्तिफलाधिकरणम्
न च विरोधाभावात् साधनानुष्ठानजन्मन्येवापरोक्षज्ञानं मुक्तिश्चेति नियमः । प्रतिबन्धे सति तन्निरासेनात्वरयैव सिद्ध्युपपत्तेः । ‘यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य’() इत्यादिश्रुतेः । ‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’(भ.गी.६.४५) इति (च) भगवद्वचनम् ॥10-11॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य चतुर्थः पादः ॥