Jump to content

Mahabharatatatparyanirnaya/C20/S1

From Grantha
Revision as of 19:07, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ यज्ञोरुदाननरदेववन्द्यताप्रश्नर्षिपूजासु युधिष्ठिरोऽभूत् ।धर्मानुशास्तिहरितत्त्वशंसनस्वराष्ट्ररक्षादिषु भीम आसीत् ॥ १॥


स्त्रीधर्मसंशासनभृत्यकोशरक्षाव्ययादौ गुणदोषचिन्तने ।अन्तःपुरस्थस्य जनस्य कृष्णा त्वासीद्धरेर्धर्मनिदर्शनी च ॥ २॥


बीभत्सुरासीत् परराष्ट्रमर्दने तेनानियम्यांस्तु जरासुतादीन् ।स कीचकादींश्च ममर्द भीमस्तस्यैव ते बलतो नित्यभीताः ॥ ३॥


राष्ट्रेषु भीमेन विमर्दितेषु जिताश्च युद्धेषु निरुद्यमास्ते ।बभूवुरासीद्धरिधर्मनिष्ठः प्रायेण लोकश्च(लोकाश्च) तदीयशासनात् ॥ ४॥


आजीविनां वेतनदस्तदाऽऽसीन्माद्रीसुतः प्रथमोऽथ द्वितीयः ।सन्धानभेदादिषु धर्मराजपश्चाच्च खड्गी स बभूव रक्षन् ॥ ५॥


धृष्टद्युम्नस्तत्र सेनाप्रणेता शक्रप्रस्थे नित्यमास्तेऽतिहार्दात् ।विशेषतो भीमसखा स आसीद् राष्ट्रं चैषां सर्वकामैः सुपूर्णम् ॥ ६॥


नावैष्णवो न दरिद्रो बभूव न धर्महानिश्च बभूव कस्यचित् ।तेषां राष्ट्रे शासति भीमसेने न व्याधितो नापि विपर्ययान्मृतिः ॥ ७॥


युधिष्ठिरं यान्ति हि दर्शनोत्सुकाः प्रतिग्रहायाप्यथ याजनाय ।कार्यार्थिनो(कार्यार्थतो) नैव वृकोदरेण कार्याणि सिद्ध्यन्ति(सिद्धानि) यतोऽखिलानि ॥ ८॥


गन्धर्वविद्याधरचारणाश्च सेवन्त एतान्त्सततं समस्ताः ।यथा सुरेन्द्रं मुनयश्च सर्व आयान्ति देवा अपि कृष्णमर्चितुम् ॥ ९॥


तेषां राष्ट्रे कार्तयुगा हि धर्माः प्रवर्तिता एव ततोऽधिकाश्च ।वृद्धिश्च तस्मादधिका सुवर्णरत्नाम्बरादेरपि सस्यसम्पदाम् ॥ १०॥


अथोपयेमे शिशुपालपुत्रीं युधिष्ठिरो देवकीं नाम पूर्वम्(पूर्वाम्) ।स्वीयां भार्यां यत्सहजो धृष्टकेतुरनुह्लादः सवितुश्चांशयुक्तः ॥ ११॥


तस्यां सुहोत्रो नामतः पुत्र आसीद् यश्चित्रगुप्तो नाम पूर्वं सुलेखः ।कृष्णा सैवाऽप्यन्यरूपेण जाता काशीशपुत्री यां प्रवदन्ति कालीम् ॥ १२॥


सा केवला भारती नान्यदेव्यस्तत्राऽविष्टास्तत्कृते(तत्राविष्टा यत्कृते) काशिराजः ।स्वयम्बरार्थं नृपतीनाजुहाव सर्वांस्तेऽपि ह्यत्र हर्षात् समेताः ॥ १३॥


तेषां मध्ये भीमसेनांस एषा मालामधात् तत्र जरासुताद्याः ।क्रुद्धा विष्णोराश्रितानाक्षिपन्त आसेदुरुच्चैः शिवमास्तुवन्तः ॥ १४॥


पूर्वं वाक्यैर्वैदिकैस्तान्स भीमो जिग्ये तर्कैः साधुभिः सम्प्रयुक्तैः ।वेदा ह्यदोषा इति पूर्वमेव संसाधयित्वैव सदागमैश्च ॥ १५॥


वेदाधिक्यं शैवशास्त्राणि चाऽहुर्वेदोज्झितानां बहुलां च निन्दाम् ।तथा शाक्तेयस्कान्दसौरादिकानां तत्रैवोक्तं छन्दसां वैष्णवत्वम् ॥ १६॥


विष्णोराधिक्यं तानि शास्त्राणि चाऽहुः शिवादिभ्यः कुत्रचिन्नैव वेदे ।विष्णूत्कृष्टः(विष्णूत्कर्षः) कथितो बौद्धपूर्वाश्चाऽहुर्विष्णुं परमं सर्वतोऽपि ॥ १७॥


लोकायताश्च क्‍वचिदाहुरग्र्यं विष्णुं गुरुं सर्ववरं बृहस्पतेः ।सर्वागमेषु प्रथितोऽत एव विष्णुः समस्ताधिक एव मुक्तिदः ॥ १८॥


तेष्वागमेष्वेव परस्परं च विरुद्धता ह्यन्यपक्षेषु भूपाः ।प्रत्यक्षतश्चात्र पश्यध्वमाशु बलं बाह्वोर्मे विष्णुपदाश्रयस्य ॥ १९॥


पूर्वं हि गङ्गा मम विष्णुपूजाविघ्नार्थमायाद् वामकरेण सा मे ।नुन्ना परस्ताद् बहुयोजनं गता पुरे कुरूणां शिव आगतस्तदा ॥ २०॥


स व्याघ्ररूपी कपिलात्मिकामुमां(कपिलात्मकामुमां) परीक्षयन् मां हन्तुमिवाऽद्रवद् द्रुतम् ।स मे युद्धे विजितो मूर्च्छितश्च गदाप्रहारादास लिङ्गान्तरस्थः ॥ २१॥


व्याघ्रेश्वरं नाम लिङ्गं पृथिव्यां ख्यातं तदास्ते तद्वदन्यत्र युद्धे ।तीरे गोमत्या हैमवते गिरौ हि जितस्तत्राप्यास शार्दूललिङ्गम् ॥ २२॥


एवं प्रत्यक्षे विष्णुपदाश्रयस्य बलाधिक्ये किमु वक्तव्यमत्र ।विष्णोराधिक्ये क्षत्रियाणां प्रमाणं बलं विप्रे ज्ञानमेवेति चाऽहुः ॥ २३॥


मया केदारे विप्ररूपी जितश्च रुद्रोऽविशल्लिङ्गमेवाऽशु भीतः ।ततः परं वेदविदामगम्यताशापं प्रादाच्छङ्करो व्रीडितोऽत्र ॥ २४॥


एवं प्रत्यक्षे विष्णुबले प्रतीपं मनो यस्य ह्युत्तरं स ब्रवीतु ।क्रोधोऽधिकश्चेत् क्षिप्रमायातु योद्धुमित्युक्तास्तेऽभ्याययुरात्तशस्त्राः ॥ २५॥


विद्राप्य(विद्राव्य) तान् बाणसङ्घैः समस्तान् जरासुतं गदया योधयित्वा(पोथयित्वा) ।बाहुभ्यां चैनं परिगृह्याऽशु विष्णोः पादोत्थायां(पादोत्थायां) प्राक्षिपद् देवनद्याम् ॥ २६॥


स व्रीडितः प्रययौ मागधांश्च भूपैः समेतो भीमसेनो रथं स्वम् ।आरुह्य काशीश्वरपूजितश्च ययौ काल्या शक्रसनामकं पुरम् ॥ २७॥


तस्यां त्रिलोकाधिकरूपसद्गुणैरासम्मितायां (आसम्मतायां) रममाणः सुतं च ।शर्वत्रातं(शर्वत्रातः) नामाजनयत्(नाम्नाऽजनयत्) पुरा यः समानवायुर्बलवीर्ययुक्तः ॥ २८॥


कृष्णोऽपि गत्वा द्वारवतीं सरामः सत्यापितुर्वधकर्तारमेव ।शतधन्वानं हन्तुमैच्छत् स चैव (याचे)ययाचेऽक्रूरं कृतवर्मानुयुक्तम् ॥ २९॥


तावब्रूतां (सर्वलोकैकभर्तुः)सर्वलोकैककर्तुर्नाऽवां विरोधं मनसाऽपि कुर्वः ।कृष्णस्य सर्वेशितुरित्यनूक्त(इति अनु उक्तम्) आरुह्य चाश्वीं(अश्वीं) भयतः पराद्रवत् ॥ ३०॥


अन्वेव तं कृष्णरामौ रथेन यातौ शतं योजनानां दिनेन ।गत्वा मृतायां वडवायां पदैव स प्राद्रवत्(सम्प्राद्रवत्) कृष्ण एनं पदाऽगात् ॥ ३१॥


छित्वा शिरस्तस्य चक्रेण कृष्णो जानन्नक्रूरे मणिमेनेन दत्तम् ।अप्यज्ञवल्लोकविडम्बनाय परीक्ष्य वासोऽत्र नेत्याह रामम् ॥ ३२॥


अविश्वासात् सतु सक्रोध एव ययौ विदेहानवसत् पञ्च चाब्दान् ।जानन् पार्थेभ्योऽहार्यतां केशवस्य वशीकर्तुं धार्तराष्ट्रो बलं गात् ॥ ३३॥


बभूव शिष्योऽस्य तथा गदायामसन्निधानं केशवस्य प्रतीक्षन् ।तदा ययाचे भगिनीं च तस्य स च प्रतिज्ञामकरोत् प्रदाने ॥ ३४॥


ज्येष्ठं ह्येनं केशवो नातिवर्तेदित्येव मेने धार्तराष्ट्रः स तस्मात् ।जग्राह हस्तं दक्षिणं सत्यहेतोर्ददौ च रामः करमस्मै हलाङ्कम् ॥ ३५॥


रूपेण तस्या मोहितो धार्तराष्ट्रो विशेषतः कृष्णरामौ भगिन्याः ।स्नेहाद् वशं यास्यत इत्यगृह्णाद्धस्तं हलाङ्कं हलिनो रिपुघ्नम् ॥ ३६॥


जाता देवक्यां सा सुभद्रेति नाम्ना भद्रा रूपेणाऽनकदुन्दुभेस्ताम् ।कृत्वा पुत्रीं रोहिणी स्वामरक्षत् पूर्वं तु याऽऽसीत् त्रिजटैव नाम्ना ॥ ३७॥


सीतायाः प्राङ् नित्यशुश्रूषणात् सा बभूव विष्णोर्भगिनी प्रिया च ।उमावेशाद् रूपगुणोपपन्ना पद्मेक्षणा चम्पकदामगौरी ॥ ३८॥


एतत् कृत्वा धृतराष्ट्रात्मजः स ययौ कुरून् निवसत्यत्र रामे ।कृष्णोऽक्रूरं विवसन्तं भयेन सहार्दिक्यं चाऽनयित्वा जगाद ॥ ३९॥


आनीय रामं च समस्तसात्त्वतां यदाऽवादीत् केशवः सन्निधाने ।मणिस्त्वय्यास्ते दर्शयेत्येव भीतस्तदाऽक्रूरोऽदर्शयद् रत्नमस्मै ॥ ४०॥


अव्याजतामात्मनो दर्शयित्वा हलायुधे केशवस्तस्य जानन् ।रत्नाकाङ्क्षामुग्रसेनस्य चैव मातुश्च साम्बस्य पुनर्बभाषे ॥ ४१॥


आस्तामक्रूरे मणीरन्यैरधार्यः सदा यज्ञाद् दानपतेः स धार्यः ।न सत्या कृष्णावाञ्छितं किञ्चिदिच्छेत् तथाऽपि तस्या योग्य इत्याह कृष्णः ॥ ४२॥


लब्ध्वा रत्नं दानपतिः सदैव सन्दीक्षितोऽभूद् यज्ञकर्मण्यतन्द्रः ।प्रदर्श्य कृष्णो हलिने रत्नमेतच्छक्रप्रस्थं पाण्डवस्नेहतोऽगात् ॥ ४३॥


वसन्नजस्तत्र बहूंश्च मासान् सफल्गुनोऽयान्मृगयां कदाचित् ।हत्वा मृगान् यमुनातीरसंस्थः सोऽन्यां काळिन्दीं ददृशे तत्स्वसारम् ॥ ४४॥


सा सूर्यपुत्री यमुनानुजाता तपश्चरन्ती कृष्णपत्नीत्वकामा ।पृष्टाऽर्जुनेनाऽह समस्तमेतत् पत्नीं च तां जगृहे वासुदेवः ॥ ४५॥


ततो गत्वा नग्नजितो गृहं च स्वयंवरे सप्त वृषान्गृह्णात्(अगृह्णत्) ।सर्वैरग्राह्यानसुरान् वरेण शिवस्य यैर्निर्जिता भूमिपालाः ॥ ४६॥


ततो नीलां तस्य सुतां च लेभे पूर्वं नीला गोपकन्याऽपि याऽसीत् ।सा देहेऽस्याः प्राविशत् पूर्वमेषा यस्मादेका द्विविधा सम्प्रजाता ॥ ४७॥


पितृष्वसुर्मित्रविन्दा सुता च कृष्णे मालामासजद् राजमध्ये ।विन्दानुविन्दौ भ्रातरावेव तस्या न्यषेधतां धार्तराष्ट्रार्थमुग्रौ ॥ ४८॥


जित्वाऽऽवन्त्यौ तौ नृपतींश्चैव सर्वानादाय तां प्रययौ वासुदेवः ।पितृष्वसुस्तनयां च द्वितीयां भद्रां दत्तामग्रहीद् भ्रातृभिः सः ॥ ४९॥


विश्वेषां देवानामवतारा हि पञ्च ते कैकेया(कैकया) भ्रातरोऽस्या हरेश्च ।भक्ता नित्यं पाण्डवानां च तातोऽप्येषां वशे शैव्यनामर्भुरग्रे ॥ ५०॥


स्वयंवरो लक्षणायास्तथाऽऽसीद् यथा द्रौपद्या लक्ष्यवेधात्मकः(लक्षवेधात्मकः) सः ।मद्रेषु तस्याश्च पिता पिनाकं स्वयंवरार्थं जगृहे गिरीशात् ॥ ५१॥


लक्षं च तत् सर्वतश्छन्नमेव द्वारं शरस्याप्युपरि स्म लक्षात् ।छिन्नेषुणा पातनीयं ह तद्धि द्रौपद्यर्थात् तदशक्यं ततोऽलम् ॥ ५२॥


तत्राऽजग्मुर्मागधाद्याश्च सर्वे पार्था अपि द्रष्टुमिहाभ्युपाययुः ।दुर्योधनाद्याश्च ससूतपुत्रा सज्यीकर्तुं धनुरप्युत्सहन्ते ॥ ५३॥


केचिन्निपेतुर्धनुषैव ताडिता नवै केचिच्चालयितुं च शेकुः ।दुर्योधनो मागधः सूतपुत्रः सज्यं कृत्वा लक्ष्यवीक्षां न शेकुः ॥ ५४॥


धनञ्जयः स्वात्मबलं(धनञ्जयः सु आत्मबलं) प्रकाशयन् सज्जं कृत्वा धनुरैक्षच्च लक्ष्यम् ।नैवाऽददे बाणमनिच्छयैव तत् प्राप्यां जानन् केशवेनैव तां च ॥ ५५॥


भीमश्चापं लक्षमप्येतदत्र द्रष्टुं च नैवैच्छदरीन्द्रधारिणः ।योग्ये (कर्मन्यायतश्च)कर्मण्यायतंश्चापराधी स्यादित्यञ्जः पश्यमानो महात्मा ॥ ५६॥


कृष्णस्ततश्चापमधिज्यमाशु कृत्वाऽचिन्त्यश्छिन्नबाणेन लक्ष्यम्(लक्षम्) ।अपातयद् दुन्दुभयश्च दिव्या नेदुः प्रसूनं ववृषुः सुराश्च ॥ ५७॥


कृष्णे ब्रह्माद्यैः स्तूयमाने नरेन्द्रकन्या मालां केशवांसे निधाय ।तस्थावुपास्याथ सर्वे नरेन्द्रा युद्धायागुः केशवं स्वात्तशस्त्राः ॥ ५८॥


विद्राप्य(विद्राव्य) तान् मागधादीन् स कृष्णो भीमार्जुनाभ्यां सहितः पुरीं स्वाम् ।ययावेता अष्ट महामहिष्यः कृष्णस्य दिव्या लोकसुन्दर्य इष्टाः ॥ ५९॥


भैष्मी सत्या चैकतनुर्द्विधैव जाता भूमौ प्रकृतिर्मूलभूता ।तयैवान्याः सर्वदाऽनुप्रविष्टास्तासां मध्ये जाम्बवती प्रधाना ॥ ६०॥


रामेण तुल्या जाम्बवती प्रियत्वे कृष्णस्यान्याः किञ्चिदूनाश्च तस्याः ।यदाऽऽवेशो बहुलः स्याद् रमायास्तदा तासु प्रीयते केशवोऽलम् ॥ ६१॥


यदाऽऽवेशो ह्रासमुपैति तत्र प्रद्युम्नतो विंशगुणाधिकाः स्युः ।अनादितस्ताः केशवान्नान्यसंस्था रेमे ताभिः केशवो द्वारवत्याम् ॥ ६२॥


एवं कृष्णे द्वारकामध्यसंस्थे गिरिं भूपा रैवतकं समाययुः ।दुर्योधनाद्याः पाण्डवाश्चैव सर्वे(पाण्डवाश्चैव तत्र) नानादेश्या ये च भूपालसङ्घाः ॥ ६३॥


आत्मानं तान् द्रष्टुमभ्यागतान् स कृष्णो गिरौ रैवतके ददर्श ।नमस्कृते सर्वनरेन्द्रमुख्यैः कृष्णे वैदर्भ्या सह दिव्यासनस्थे ॥ ६४॥


एत्याऽकाशान्नारदः कृष्णमाह सर्वोत्तमस्त्वं त्वादृशो नास्ति कश्चित् ।इत्याश्चर्यो धन्य इत्येव शब्दद्वये तूक्ते वासुदेवस्तमाह ॥ ६५॥


दक्षिणाभिः साकमित्येव कृष्णं पप्रच्छुरेतत् किमिति स्म भूपाः ।नारायणो मुनिमूचे वदेति शृणुध्वमित्याह स नारदोऽपि ॥ ६६॥


कूर्मो दृष्टो विष्णुपद्यां मयोक्तस्त्वमुत्तमो नास्ति समस्तवेति(नास्त्यधिकस्तवेति) ।ऊचे गङ्गामुत्तमां सा जलेशमुमामूचे पृथिवीनामिकां सः ॥ ६७॥


या मादृशा देवताः सर्वशस्ता धृतास्तया प्रथितत्वात् पृथिव्या ।शिवं शेषं गरुडं चाऽह साऽपि परावनात्(परज्ञानात्, परावानात्) पर्वतनामधेयान् ॥ ६८॥


तैरेवाहं मत्समाश्चैव देव्यो ध्रियन्त इत्येव त ऊचिरेऽथ ।ब्रह्माणमेवोत्तममाह सोऽपि वेदात्मिकां प्रकृतिं विष्णुपत्नीम् ॥ ६९॥


सैका देवी बहुरूपा बभाषे युक्ता यदाऽहं ज्ञेन नारायणेन ।यज्ञक्रियामानिनी यज्ञनाम्नी तदोत्तमा तत्प्रवेशात्(तदावेशात्) तदाख्या ॥ ७०॥


विष्ण्वाविष्टा यज्ञनाम्नी तदङ्कस्थिता सोचे केशवो ह्युत्तमोऽलम् ।न तत्समश्चाधिकोऽतः(न तत्समश्चाभ्यधिकः) कुतः स्यादृषे सत्यं नान्यथेति स्म भूयः(भूपाः) ॥ ७१॥


तयोक्तोऽहं नावतारेषु कश्चिद् विशेष इत्येव यदुप्रवीरम् ।सर्वोत्तमोऽसीत्यवदं स चाऽह न केवलं मेऽङ्कगायाः श्रियोऽहम् ॥ ७२॥


सदोत्तमः किन्तु यदा तु सा मे वामार्द्धरूपा दक्षिणानामधेया ।यस्मात् तस्या दक्षिणतः स्थितोऽहं तस्मान्नाम्ना दक्षिणेत्येव सा स्यात् ॥ ७३॥


सा दक्षिणामानिनी देवता च सा च स्थिता(साऽवस्थिता) बहुरूपा मदर्द्धा ।वामार्द्धो मे तत्प्रविष्टो यतो हि ततोऽहं स्यामर्द्धनारायणाख्यः ॥ ७४॥


तदाऽप्यस्या उत्तमोऽहं सुपूर्णो न मादृशः कश्चिदस्त्युत्तमो वा ।इत्येवावादीद् दक्षिणाभिः सहेति सर्वोत्तमत्वं(सदोत्तमत्वं) दक्षिणानां स्मरन् सः ॥ ७५॥


ताभिश्चैताभिर्दक्षिणाभिः समेताद् वरिष्ठोऽहं जगतः सर्वदैव ।मत्सामर्थ्यान्नैव चानन्तभागो दक्षिणानां विद्यते नारदेति ॥ ७६॥


उक्तं कृष्णेनाप्रतिमेन भूपा अन्योत्तमत्वं दक्षिणानां च शश्वत् ।सेयं भैष्मी दक्षिणा केशवोऽयं तस्याः श्रेष्ठः पश्यत राजसङ्घाः ॥ ७७॥


प्रत्यक्षं वो वीर्यमस्यापि कुन्त्या युद्धेऽर्थितः केशवो वीर्यमस्यै ।अदर्शयत् पाण्डवान् धार्तराष्ट्रान् भीष्मद्रोणद्रौणिकृपान् सकर्णान् ।निरायुधांश्चक्र एकक्षणेन(एकः क्षणेन) लोकश्रेष्ठान् दैवतैरप्यजेयान् ॥ ७८॥


व्रतं भीमस्यास्ति नैवाभि कृष्णमियामिति स्माऽज्ञया तस्य विष्णोः ।चक्रं रथस्याग्रहीत् स प्रणम्य कृष्णं स तं केशवोऽपाहरच्च ॥ ७९॥


एवं क्रीडन्तोऽप्यात्मशक्त्या प्रयत्नं कुर्वन्तस्ते विजिताः केशवेन ।ततः सर्वे नेमुरस्मै पृथा च सविस्मया वासुदेवं ननाम ॥ ८०॥


एवं विधान्यद्भुतानीह कृष्णे दृष्टानि वः शतसाहस्रशश्च ।तस्मादेष ह्यद्भुतोऽप्युत्तमश्चेदुक्ता(ह्यद्भुतोऽत्युत्तमः) नेमुस्तेऽखिला वासुदेवम् ॥ ८१॥


वाय्वाज्ञया वायुशिष्यः स सत्यमित्याद्युक्त्वा नारदो रुक्मिणीं च ।स्तुत्वा पुष्पं पारिजातस्य दत्वा ययौ लोकं क्षिप्रमब्जोद्भवस्य ॥ ८२॥


साक्षात् सत्या रुक्मिणीत्येकसंविद् द्विधाभूता नात्र भेदोऽस्ति कश्चित् ।तथाऽपि सा प्रमदानां स्वभावप्रकाशनार्थं(स्वभावप्रदर्शनार्थं) कुपितेवाऽस सत्या ॥ ८३॥


साकं रुक्मिण्या राजमध्ये प्रवेशात् स्तवादृषेः पुष्पदानाच्च देवीम् ।कोपाननं दर्शयन्तीमुवाच विडम्बार्थं कामिजनस्य कृष्णः ॥ ८४॥


दातास्म्यहं पारिजातं तरुं त इत्येव तत्राथाऽगमद् वासवोऽपि ।सर्वैर्देवैर्भौमजितोऽप्यदित्यास्तेनैवाथो कुण्डलाभ्यां हृताभ्याम् ॥ ८५॥


तदैवाऽगुर्मुनयस्तेन नुन्ना(तुन्नाः) बदर्यास्ते सर्व एवाऽशु कृष्णम् ।ययाचिरे भौमवधाय नत्वा स्तुत्वा स्तोत्रैर्वैदिकैस्तान्त्रिकैश्च ॥ ८६॥


इन्द्रेण देवैः सहितेन याचितो विप्रैश्च सस्मार विहङ्गराजम् ।आगम्य नत्वा पुरतः स्थितं तमारुह्य सत्यासहितो ययौ हरिः ॥ ८७॥


नित्यैव या प्रकृतिः स्वेच्छयैव जगच्छिक्षार्थं द्वादशीं भीमसञ्ज्ञाम् ।उपोष्य बभ्रे कोटिधाराजलस्य विष्णोः प्रीत्यर्थं सैव हि सत्यभामा ॥ ८८॥


तया युक्तो गरुडस्कन्धसंस्थो दूरानुयातो वज्रभृताऽप्यनुज्ञाम् ।दत्वाऽमुष्मै प्रययौ वायुजुष्टामाशां कृष्णो भौमवधे धृतात्मा ॥ ८९॥


भौमो ह्यासीद् ब्रह्मवरादवध्यो न शस्त्रभृज्जीयस इत्यमुष्मै ।दत्तो वरो ब्रह्मणा तद्वदेव तस्यामात्यानां तद्वदवध्यता च ॥ ९०॥


भौमेन जेयत्वमपि(जय्यत्वमपि) ह्यमीषां दत्तं भौमाय ब्रह्मणा क्रोडरूपात् ।विष्णोर्जातायास्य दुर्गं च दत्तं प्राग्ज्योतिषं नाम पुरं समस्तैः ॥ ९१॥


आसीद् बाह्ये गिरिदुर्गं तदन्तः पानीयदुर्गं मौरवं पाशदुर्गम् ।तस्याप्यन्तः क्षुरधारोपमं तत्पाशाश्च ते षट्सहस्राः सुघोराः ।अभेद्यत्वमरिभिरतार्यता च दत्ता दुर्गाणां ब्रह्मणाऽऽराधितेन ॥ ९२॥


तस्यामात्याः पीठमुरौ निसुम्भहयग्रीवौ पञ्चजनश्च शूराः ।सङ्कल्प्य तान् लोकपालानहं च ब्रह्मेत्यद्धा भाषमाणः स आस्ते ॥ ९३॥


हन्तुम् कृष्णो नरकं तत्र गत्वा गिरिदुर्गं(गिरिं दुर्गं) गदया निर्बिभेद ।वायव्यास्त्रेणोदकं शोषयित्वा चकर्त खड्गेन मुरस्य पाशान् ॥ ९४॥


अथाभिपेतुर्मुरपीठौ निसुम्भहयग्रीवौ पञ्चजनश्च दैत्याः ।ताञ्छैलशस्त्रास्त्रशिलाभिवर्षिणश्चक्रे व्यसूंश्चक्रनिकृत्तकन्धरान् ॥ ९५॥


तेषां सुताः सप्तसप्तोरुवीर्या वरादवध्या गिरिशस्याभिपेतुः ।तानस्त्रशस्त्राभिमुचः शरोत्तमैः समर्पयामास स मृत्यवेऽच्युतः ॥ ९६॥


हत्वा पञ्चत्रिंशतो मन्त्रिपुत्रान् जगाम भौमस्य सकाशमाशु ।श्रुत्वा भौमः कृष्णमायातमारादक्षोहिणी(अक्षौहिणी)त्रिंशकेनाभ्ययात् तम् ॥ ९७॥


जघ्ने सेनां गरुडः पक्षपातैः पादं शेषां केशवः सायकौघैः ।अथाऽससादाऽशु भौमोऽच्युतं तं (मुञ्चन् बाणान्) मुञ्चञ्छरानस्त्रसम्मन्त्रितान् द्राक् ।विव्याध तं केशवः सायकौघैर्भौमः शतघ्नीं ब्रह्मदत्ताममुञ्चत् ॥ ९८॥


अच्छेद्योऽभेद्यो नित्यसंवित्सुखात्मा नित्याव्ययः पूर्णशक्तिः स कृष्णः ।निगीर्य तां देववरः शतघ्नीं नित्याश्रान्तोऽदर्शयच्छ्रान्तवत् स्वम् ॥ ९९॥


बहून् वरान् ब्रह्मणोऽन्येष्वमोघान् मोघीकृतान् वीक्ष्य परात्परेशः ।भवेत् कथञ्चिद् बहुमानेन युक्त(बहुमानयुक्तः) इत्येव कृष्णोऽदर्शयच्छ्रान्तवत् स्वम्(श्रान्तवच्च) ॥ १००॥


तदा दृप्तं नरकं वीक्ष्य देवी सत्याऽऽददे कार्मुकं शार्ङ्गसञ्ज्ञम् ।चकार तं यतमानं च भौमं निरायुधं विरथं च क्षणेन ॥ १०१॥


आलिङ्ग्य कृष्णः सत्यभामां पुनश्च रथान्तरे संस्थितं भौममुग्रम् ।सृजन्तमस्त्राण्यरिणा निकृत्तकन्धं(निकृत्तकन्धरं) मृत्योरर्पयामास शीघ्रम् ॥ १०२॥


स मन्त्रिभिर्मन्त्रिपुत्रैः समेतो जगाम कृष्णावज्ञयाऽन्धंतमश्च ।तदाविष्टो वायुरगाच्च कृष्णमन्तःपुरं प्राविशत् सत्ययेशः ॥ १०३॥


तदा भूमिः पञ्चभूतावरा या यस्यां जज्ञे नरकः श्रीवराहात् ।मूलप्रकृत्यैव भूम्या नितान्तमाविष्टा या साऽगमत् कृष्णपादौ ॥ १०४॥


साऽदित्यास्ते कुण्डले पादयोश्च निधाय पौत्रं भगदत्तसञ्ज्ञम् ।समर्पयामास तस्याभिषेकं प्राग्ज्योतिषे कारयामास कृष्णः ॥ १०५॥


संस्थाप्य तं सर्वकिरातराज्ये भौमाहृतं वैश्रवणाद् बलेन ।शिवेन दत्तं धनदायातिसत्त्वं भगदत्तेऽधात्(न्यदधात् सुप्रतीकम्) सुप्रतीकं रमेशः ॥ १०६॥


करीन्द्रमेकं तं निधायैव तस्मिन् कृत्वा प्रसादं च वसुन्धरायाः ।चतुर्दन्तान् षट्सहस्रान् करीन्द्रान् पयोब्धिजान् प्राहिणोद् द्वारवत्यै ॥ १०७॥


नराधिपान् देवगन्धर्वनागान् जित्वाऽऽनीतं हेमरत्नोच्चराशिम् ।शतद्वयं योजनानां समृद्धं समन्ततः प्राहिणोत् स्वां पुरीं सः ॥ १०८॥


महावीर्यैर्नैर्ऋतै राक्षसेन्द्रैर्भौमानीतैर्निर्ऋतिं योधयित्वा ।स प्राहिणोत् सर्वरत्नोच्चराशिं गजांश्च नारायण आदिदेवः ॥ १०९॥


तत्रापश्यत् कन्यका भूमिपानां भौमानीताः समरे तान् विजित्य ।द्व्यष्टौ सहस्राणि शतं च रूपशीलोदारा अक्षताः सद्व्रतस्थाः ॥ ११०॥


काश्चित् तत्राऽसन् देवगन्धर्वकन्यास्तासां प्रधाना त्वष्टृपुत्री कशेरुः ।पुत्रा अग्नेः पूर्वमासंश्च तेऽथ स्त्रीत्वप्राप्त्यै चक्रुरुग्रं तपश्च ॥ १११॥


भार्यात्वार्थे वासुदेवस्य योषित्तनुं तासामिच्छतीनां समीरः ।अदाद् वरं तपसाऽऽराधितः सन् स्त्रीभूतास्ते बदरीं सम्प्रजग्मुः ॥ ११२॥


नारायणं तत्र शुश्रूषमाणाः प्राप्याप्सरस्त्वं राजकुलेषु जाताः ।काश्चित् स्वर्गे ता निशाम्यैव(निशम्यैव) कृष्णं वव्रुः पतिं सर्वगुणाभिरामम् ॥ ११३॥


आजानदेवैः सर्वगुणैः समास्ताः स्वभावतोऽथेन्दिरावेशतोऽतः ।गुणाधिकास्ताः शिबिकासु कृष्ण आरोपयित्वा प्राहिणोद् द्वारवत्यै ॥ ११४॥


समन्ततो योजनानां शते द्वे प्रवृद्धमिन्द्रस्य स रत्नपर्वतम् ।नित्यामृतस्रावि जलेश्वरस्य च्छत्रं च दोर्भ्यां गरुडे न्यधाद्धरिः ॥ ११५॥


स्वयं च सत्यासहितः समारुहत् स चाश्रमेणैव ययौ त्रिविष्टपम् ।अभिप्रयातोऽखिललोकपालैर्जनार्दनः शक्रगृहं विवेश ॥ ११६॥


सम्पूजितः सत्यभामासहायः शक्रेण शच्या सहितेन सादरम् ।ददावदित्या अपि कुण्डले शुभे समस्तदेवैर्मुनिभिश्च वन्दितः ॥ ११७॥


तमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू(जगत्गुरू) ।निर्दोषसौख्यैकतनू शुभाशिषस्ताभ्यां ददौ साऽदितिरात्मपुत्रवत् ॥ ११८॥


अथो सदानन्दचिदात्मदेहः न नन्दनोद्यानमजोऽनुरूपया ।अनन्तशक्तिः सह सत्यभामया विवेश रन्तुं प्रिययाऽखिलेश्वरः ॥ ११९॥


तयाऽच्युतोऽसौ कनकावदातया सुकुङ्कुमादिग्धपिशङ्गवाससा ।पूर्णेन्दुकोट्योघजयन्मुखाब्जया रेमेऽमितात्मा जगदेकसुन्दरः ॥ १२०॥


सर्वर्तुनित्योदितसर्ववैभवे सुरत्नचामीकरवृक्षसद्वने ।सदैव पूर्णेन्दुविराजिते हरिश्चचार देव्या पवनानुसेविते ॥ १२१॥


विदोषसंवित्तनुरत्र सत्तरुं ददर्श सत्याऽमृतमन्थनोद्भवम् ।सा पारिजातं मणिकाञ्चनात्मकं समस्तकामप्रदमार्तिहारिणम् ॥ १२२॥


दृष्ट्वैव तं सुस्मितचन्द्रिकास्फुरन्मुखारविन्दाऽसितलोललोचना ।कपोलनिर्भातचलत्सुकुण्डला जगाद देवाधिपतिं पतिं सती ॥ १२३॥


तरुर्जगज्जीवद मे गृहाङ्गणे संस्थापनीयोऽयमचिन्त्यपौरुष ।इतीरितस्तां कलशोपमस्तनीमालिङ्ग्य देवस्तरुमुद्बबर्ह ॥ १२४॥


स तेन वृक्षेण सहैव केशवस्तया च देव्याऽऽरुहदग्र्यपौरुषम् ।खगेश्वरं तच्च निशम्य शच्या प्रचोदितो वासव आगमत् सुरैः ॥ १२५॥


तानासुरावेशयुतान् हरेश्च बलप्रकाशाय समुद्यतान् सुरान् ।न्यवारयच्छार्ङ्गशरासनच्युतैर्हरिप्रिया बाणवरैः समस्तशः ॥ १२६॥


निरायुधं वैश्रवणं चकार चिक्षेप चाब्धौ गरुडो जलेश्वरम्(जलेशम्) ।प्रधानवायोस्तनयं तु वायुं कोणाधिपं वह्नियमादिकानपि ॥ १२७॥


विबोध्य शार्ङ्गोत्थरवैः स्वकां तनुमावेशितानामसुरैरगाद्धरिः ।ते बोधितास्तेन रणं विसृज्य ययुर्विदित्वा तमनादिपूरुषम् ॥ १२८॥


शिवं च शक्रार्थमुपागतं हरिर्व्यद्रावयच्छार्ङ्गविनिःसृतैः शरैः ।सवाहनो दूरतरे निपातितो गरुत्मता शम्भुरगाच्छराहतः ॥ १२९॥


विद्राविते बाणगणैश्च शौरिणा हरे हरौ वज्रमवासृजद् द्रुतम् ।शक्रोऽग्रहीत् तं प्रहसन् जनार्दनः करेण वामेन च चापजग्मिवान् ॥ १३०॥


अपाहसत् तं जगदेकसुन्दरी हरिप्रियाऽथो जगदेकमातरम् ।उवाच शक्रो जगतां जनित्रे प्रदर्शयामो वयमात्मशैशवम् ॥ १३१॥


जगाम चाथो शरणं जनार्दनं सुरैर्वृतो देवपतिः क्षमापयन् ।शृङ्गं च दत्वा मणिपर्वतस्य प्रणम्य देव्या सहितं जगद्गुरुम् ॥ १३२॥


ययाच एनं परिरक्षणाय शचीपतिः केशवमर्जुनस्य ।जगाद कृष्णोऽपि धरातलस्थिते न मय्यमुं कश्चन जेष्यतीति ॥ १३३॥


तमर्जुनार्थं वरमाप्य वासवः पुनःपुनश्चक्रधरं प्रणम्य ।प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितो ययौ महाभागवतः स्वमालयम् ॥ १३४॥


कृष्णोऽप्यनुज्ञाप्य पुरन्दरं पुरीं निजां व्रजन्नभ्यधिकं व्यरोचत ।किरीटधारी वरकुण्डलोल्लसन्मुखाम्बुजः पीतपटः सुकौस्तुभः ॥ १३५॥


विरोचमानस्य सदा जगत्प्रभोर्नवै विशेषः क्‍वचिदच्युतस्य ।तथाऽपि तत् स्मारयितुं वचो भवेदपेक्ष्य चाल्पज्ञमतिं पुराणगम् ॥ १३६॥


प्रविश्य चेशः स्वपुरीं स यादवैः सुपूजितोऽन्तःपुरमेत्य चाङ्गणे ।तरुं प्रियाया न्यदधाद् गृहस्य सहैव शृङ्गेण च रत्नसद्गिरेः ॥ १३७॥


प्रदाय रत्नानि च सर्वसात्त्वतां यथेष्टतस्ता अपि कन्यकाः प्रभुः ।उद्वाह्य रेमे पृथगेव रत्नप्रासादसंस्थाभिरनन्तरूपः ॥ १३८॥


पृथक्पृथक् तासु दशैव पुत्रकानधत्त(पुत्रकान् न्यधत्त) कन्यामपि सर्वशः प्रभुः ।प्रद्युम्नसाम्बावपि भानुचारुदेष्णौ च तेषां नितरां गुणाधिकाः ॥ १३९॥


विवस्वतो योऽवरजोऽदितेः सुतः ख्यातश्च नाम्ना सवितेति कृष्णात् ।जातः स सत्याजठरेऽत्र नाम्ना भानुस्तु भैष्म्या अपि चारुदेष्णः ॥ १४०॥


स चारुदेष्णोऽपि हि विघ्नराजो येऽन्ये च कृष्णस्य सुताः समस्ताः ।ते चैव(ते चापि) गीर्वाणगणास्तथाऽन्ये ये द्वारकायां निवसन्ति सर्वे ॥ १४१॥


तस्यां समस्तैरभिपूज्यमाने देवे स्वपुर्यां निवसत्यनन्ते ।ययौ कदाचित् स तु रौक्मिणेयः(रौग्मिणेयः) साम्बेन सार्धं भुजगेन्द्रलोकम् ॥ १४२॥


अज्ञानतस्तैरभियोधितः स जिगाय सर्वानपि वासुकिं च ।विद्राप्य बाणैरथ रत्नसञ्चयान् समाददे नेमुरमुं ततस्ते ॥ १४३॥


तैः पूजितः साम्बसहाय आशु मयं च मायाविनमस्त्रवर्षैः ।विजित्य रुन्धानमनेन पूजितो ययौ रथेनाम्बरगेन नाकम् ॥ १४४॥


तत्रैव कृष्णेन तु पारिजाते हृते जयन्तं प्रजिगाय चाऽजौ ।संस्पर्धयाऽऽयातममुष्य(सस्पर्धयाऽऽयान्तं) चानुजं साम्बोऽजयद् वृषभं नाम शस्त्रैः ॥ १४५॥


अस्त्राणि तावस्त्रवरैर्निहत्य(तावस्त्रवर्षैर्निहत्य) तयोश्च ताभ्यां प्रतिदग्धयानौ ।विद्राप्य तौ बाणवरैः सुरेन्द्रसम्पूजितौ ययतुर्विद्यया खे ॥ १४६॥


स विद्यया साम्बमुदूह्य रत्या प्रदत्तया रुगक्मि(ग्मि)णिनन्दनः पुरीम् ।ययौ ततो नारद आगमद् द्रुतं ज्ञातुं हरेर्बहुभार्यासु वृत्तिम्(प्रवृत्तिम्) ॥ १४७॥


तं द्व्यष्टसाहस्रगृहेषु दृष्ट्वा तावत्स्वरूपैर्विहरन्तमेकम् ।सुविस्मितः प्रययौ तं प्रणम्य शक्रप्रस्थं पूजितश्चात्र पार्थैः ॥ १४८॥


स आज्ञया ब्रह्मण आह कृष्णां क्रमात् कर्तुं भीम एवैकसंस्थाम् ।अन्या देवीः स्वापयित्वा शरीरे तस्या भारत्याः पूर्णभोगार्थमेव ॥ १४९॥


सुन्दोपसुन्दौ भ्रातरौ ब्रह्मवाक्यात् परस्परादन्यतो नैव वध्यौ ।तिलोत्तमार्थे निहतौ परस्परं तयोर्वधार्थे सृष्टया(तयोर्वधार्थेऽसृष्ट या तेन) तेन दैत्यौ ॥ १५०॥


अतः पृथग् वत्सरतो भवत्सु क्रमात् कृष्णा तिष्ठतां योऽन्ययुक्ताम् ।पश्येद् वोऽसौ वत्सरं(पश्येद् वो संवत्सरं) तीर्थयात्रां कुर्यादिति स्माथ चक्रुस्तथा ते ॥ १५१॥


ततः कदाचिद् धर्मराजेन युक्तां शस्त्रागारे विप्रगोरक्षणार्थम् ।शस्त्रादित्सुः फल्गुनोऽद्राक् स शस्त्रैर्दस्यून् हत्वा तीर्थयात्रोन्मुखोऽभूत् ॥ १५२॥


युधिष्ठिराद्यैः सौहृदाद् वारितोऽपि ययौ सत्यार्थं स कदाचिद् द्युनद्याम् ।कुर्वन् स्नानं मायया नागवध्वा हृतो लोकं भुजगानां क्षणेन ॥ १५३॥


तस्याः पिता गरुडेनाऽत्तपत्युः पुत्राकाङ्क्षी चोदयामास पार्थम् ।(संवत्सरं ब्रह्मचर्यं, संवत्सरब्रह्मचर्ये) संवत्सरब्रह्मचर्यं तु पार्थैः कृष्णाहेतोः समये साधु बद्धम् ॥ १५४॥


पुनःपुनर्याच्यमानः स पार्थः पुत्रार्थमस्या भुजगेन तस्याम् ।उत्पादयामास सुतं कुजांशं नाम्नैरावन्तं वरुणावेशयुक्तम् ॥ १५५॥


गुणाः पितुर्मातृजातिः सुतानां यस्मात् सतां प्रायशस्तेन नागः ।बली च (पार्थात् प्रथमोद्भवत्वात्) पार्थप्रथमोद्भवत्वान्मायाविदस्त्री च सुधार्मिकश्च ॥ १५६॥


ततो ययावर्जुनस्तीर्थयात्राक्रमेण पाण्ड्यांस्तनयोऽस्य मात्रा ।सह त्यक्तो भुजगैर्देवलोके सम्पूजितो न्यवसद् दैवतैश्च ॥ १५७॥


सत्यात्ययान्नैव दोषोऽर्जुनस्य तेजीयसश्चिन्तनीयः कथञ्चित् ।(ज्येष्ठापराधात्) श्रेष्ठापराधान्नान्यदोषस्य लेपस्तेजीयसां निर्णयोऽयं हि शास्त्रे ॥ १५८॥


अतिस्नेहाच्चाग्रजाभ्यां तदस्य क्षान्तं सुता पाण्ड्यराजेन दत्ता ।संवत्सरान्ते फल्गुनस्याभिरूपा चित्राङ्गदा वीरसेनेन तोषात् ॥ १५९॥


स वीरसेनस्त्वष्टुरंशो यमस्याप्यावेशयुक् सा च कन्या शची हि ।तारादेहे सूर्यजस्याङ्गसङ्गात् स्वर्गं नागादन्तरिक्षादिहाऽसीत् ॥ १६०॥


तेनैव हेतोर्नातिसामीप्यमासीत् तस्याः पार्थे पुत्रिकापुत्रधर्मा ।तस्यां जातो बभ्रुवाहोऽर्जुनेन पूर्वं जयन्तः कामदेवांशयुक्तः ॥ १६१॥


पुत्रं वीरं जनयित्वाऽर्जुनोऽतो गच्छन् प्रभासं शापतो ग्राहदेहाः ।अमूमुचच्चाप्सरसः स पञ्च ताभिर्गृहीतः प्रविकृष्य तीरम् ॥ १६२॥


एवं हि तासां शापमोक्षः प्रदत्तो यदाऽखिला वो युगपत् सम्प्रकर्षेत् ।एकस्तदा निजरूपाप्तिरेवेत्यलं तुष्टेन ब्राह्मणेनाऽनतानाम् ॥ १६३॥


विप्रापहासात् कुत्सितयोनितस्ताः कन्यातीर्थे पाण्डवः सम्प्रमुच्य ।प्राप्तः प्रभासं वासुदेवानुजातां(वासुदेवानुजां तां) शुश्राव रामेण सुयोधनोद्यताम् ॥ १६४॥


विचिन्त्य कार्यं यतिरूपं गृहीत्वा कुशस्थलीं प्रययौ तं समीपे ।प्राप्तं कृष्णः प्राहसत् संविजानन् सत्यासहायः शयनीयाधिरूढः ॥ १६५॥


सर्वज्ञा(सर्वज्ञाना) सा लीलया हासहेतुमपृच्छत् तं सोऽपि तस्यै बभाषे ।लीलाभाजौ दर्शनार्थं पुनस्तावगच्छतां रैवतं शैलराजम् ॥ १६६॥


आक्रीडोऽसौ वृष्णिभोजान्धकानां तत्रापश्यत् केशवः फल्गुनं तम् ।स्वसुर्दाने स प्रतिज्ञां रहोऽस्मै चक्रे कृष्णोऽथाऽसदत् सर्ववृष्णीन् ॥ १६७॥


दृष्ट्वा गिरौ रौहिणेयो यतीन्द्रवेषं पार्थं ज्ञातियुक्तः प्रणम्य ।चक्रे पूजां फल्गुनोऽपि प्रणामं गुणज्येष्ठोऽसीति चक्रे बलाय ॥ १६८॥


सर्वज्ञं तं वाग्मिनं वीक्ष्य रामः कन्यागारे वर्षकाले निवासम् ।सत्कारपूर्वं कारयेत्याह कृष्णं नैवेत्यूचे केशवो दोषवादी ॥ १६९॥


युवा बली दर्शनीयोऽतिवाग्मी नायं योग्यः कन्यकागारवासम् ।इत्युक्तवन्तं राम आहाऽप्तविद्ये नास्मिञ्छङ्केत्येव लोकाधिनाथम् ॥ १७०॥


नास्मन्मते रोचते त्वन्मतं तु सर्वेषां नः पूज्यमेवास्तु तेन ।इत्युक्त्वा तं केशवः सोदरायै शुश्रूषस्वेत्याह सन्तं यतीन्द्रम् ॥ १७१॥


नित्याप्रमत्ता साधु सन्तोषयेति प्रोक्ता तथा साऽकरोत् सोऽपि तत्र ।चक्रे मासान् वार्षिकान् सत्कथाभिर्वासं वाक्यं श्रद्दधानो हरेस्तत् ॥ १७२॥


संयाचितः फल्गुनेनाऽह वाक्यं यद् वासुदेवस्तन्न जानाति कश्चित् ।ऋते पित्रोर्विपृथोः सात्यकेर्वा सुभद्रां ते प्रददानीति सत्यम् ॥ १७३॥


अस्त्रे शस्त्रे तत्त्वविद्यासु चैव शिष्यः शैनेयो वासुदेवेन्द्रसून्वोः ।तस्मादस्मै कथयामास कृष्णः स्वशिष्यत्वाद् विपृथोश्चापि सर्वम् ॥ १७४॥


अन्ये सर्वे(अन्येऽपि सर्वे) वासुदेवस्य पार्थान् प्रियान् नित्यं जानमाना अपि स्म ।रामेणाऽदिष्टा उद्धवोऽथाऽहुकाद्या हार्दिक्याद्या नैव दित्सन्ति जिष्णोः ॥ १७५॥


दुर्योधने दातुमिच्छन्ति सर्वे रामप्रियार्थं जानमाना हरेस्तत् ।अप्यप्रियं राक्षसावेशयुक्तास्तस्मात् सर्वान् वञ्चयामास कृष्णः ॥ १७६॥


प्रद्युम्नसाम्बप्रमुखाश्च वञ्चिता ययुस्तीर्थार्थं रामयुक्ताः समग्राः ।पिण्डोद्धारं तत्र महोत्सवेषु आवर्तयत्सु क्‍वचिदूचे सुभद्रा ॥ १७७॥


यते तीर्थानाचरन् बान्धवांस्त्वमद्राक्षीर्नः कच्चिदिष्टान् स्म पार्थान् ।कुन्तीं कृष्णां चेत्याह पृष्टः स पार्थ ओमित्येतेषामाह चानामयं सः ॥ १७८॥


भूयः साऽवादीद् भगवन्निन्द्रसूनुर्गतस्तीर्थार्थं ब्राह्मणेभ्यः श्रुतो मे ।कच्चिद् दृष्टो भवतेत्योमिति स्म पार्थोऽप्यूचे क्‍वेति साऽपृच्छदेनम् ॥ १७९॥


अत्रैवेति स्मयमानं च पार्थं पुनःपुनः पर्यपृच्छच्छुभाङ्गी ।सोऽप्याहोन्मत्ते सोऽस्मि हीति स्मयंस्तां फुल्लाक्षी तं सा ददर्शातिहृष्टा ॥ १८०॥


ततो हर्षाल्लज्जया चोत्पलाक्षी किञ्चिन्नोचे पार्थ एनामुवाच ।कामाविष्टो मुख्यकालो ह्ययं (नावुद्वाहार्थे)नावुद्वाहार्थोऽस्त्विति सा चैनमाह(सा चैवमाह) ॥ १८१॥


नातिक्रमो वासुदेवस्य युक्तस्तस्मात् तेन स्वपितृभ्यां च दत्ताम् ।युक्तो निजैर्बन्धुभिश्चोत्सवे मां समुद्वहेत्यथ कृष्णं स दध्यौ ॥ १८२॥


मातापितृभ्यां सहितोऽथ कृष्णस्तत्रैवाऽयाद् वासवश्चाथ शच्या ।समं मुनीन्द्रैः फल्गुनेन स्मृतः(स्मृतः स तत्रैव) संस्तत्रैवाऽगात् प्रीतियुक्तो निशायाम् ॥ १८३॥


कृष्णस्ततः पुरुहूतेन साकं तयोर्विवाहं कारायामास सम्यक् ।मातापितृभ्यां सत्यकिनाऽपि युक्तो महोत्सवेऽन्याविदिते (अन्याविदितो) मुनीन्द्रैः ॥ १८४॥


ततः कृष्णः स्यन्दनं फल्गुनार्थे निधाय स्वं प्रययौ तद्रजन्याम् ।गते च शक्रे रथमारुरोह प्रातः पार्थः सहितो भार्ययैव ॥ १८५॥


सर्वायुधैर्युक्तरथं समास्थिते गृहीतचापे फल्गुने द्वारवत्याम् ।आसीद् रावः किं किमेतत् त्रिदण्डी कन्यां हरत्येष कोदण्डपाणिः ॥ १८६॥


ततस्तु तं सतनुत्रं महेन्द्रदत्ते दिव्ये कुण्डले वाससी च ।दिव्यानि रत्नानि च भूषणानि दृष्ट्वा बिभ्राणं रक्षिणोऽवारयन् स्म ॥ १८७॥


ततः स आबद्धतलाङ्गुलित्रः सतूणीरश्चापमायम्य(आनम्य) बाणैः ।चक्रेऽन्तरिक्षं प्रदिशो दिशश्च निरन्तरं शिक्षया विद्यया च ॥ १८८॥


चक्रे सारथ्यं केशवेनैतदर्थे(केशवेनैतदर्थं) सुशिक्षिता तस्य सम्यक् सुभद्रा ।तया पार्थो वारितो नैव कञ्चित् भिन्नत्वचं कृतवान् क्रीडमानः ॥ १८९॥


स शिक्षया(स्वशिक्षया, सुशिक्षयाऽत्यद्भुतया) त्वद्भुतया शरौघैर्विद्राप्य तान् भीषयित्वैव सर्वान् ।निर्गत्य पुर्या विपृथुं ददर्श रामेण पुर्या रक्षणे सन्नियुक्तम् ॥ १९०॥


प्रियं कुर्वन्निव रामस्य सोऽपि व्याजेन पार्थं सेनयैवाऽवृणोत् तम् ।कृष्णादेशान्नैव पार्थस्य चक्रे सम्यग्रोधं युयुधे च छलेन ॥ १९१॥


एको ह्यसौ मरुतां सौम्यनामा शुश्रूषार्थं वासुदेवस्य जातः ।तं यादवं शरवर्षैर्ववर्ष यथा क्षतं न भवेत् सव्यसाची ॥ १९२॥


निरायुधं विरथं(निरायुधां विरथां) चैव चक्रे पार्थः सेनां तस्य नैवाहनच्च ।दृष्ट्वा शरांस्तस्य तीक्ष्णांस्त्वचोऽपि नच्छेदकान् विपृथुः सन्तुतोष(विपृथुस्तं तुतोष) ॥ १९३॥


शिक्षां पार्थस्याधिकां मानयान उपेत्य पार्थं च शशंस सर्वाम् (सर्वम्) ।आज्ञां विष्णोः सन्नियुद्ध्यन्निवास्मै कृत्तायुधः(कृन्तायुधः) फल्गुनेनैव पूर्वम् ॥ १९४॥


ततः पराजितवच्छीघ्रमेत्य शशंस सर्वं हलिनेऽथ सोऽपि ।प्रद्युम्नसाम्बादियुतोऽथ कोपादायात् पुरीं हन्तुकामोऽर्जुनं च ॥ १९५॥


कृष्णोऽपि सर्वं विपृथोर्निशम्य प्राप्तः सुधर्मां विमना इवाऽसीत् ।अवाङ्मुखस्तत्र यदुप्रवीराः प्रद्युम्नाद्या आहुरुच्चैर्नदन्तः ॥ १९६॥


मायाव्रतं तं विनिहत्य शीघ्रं वयं सुभद्रामानयामः क्षणेन ।इत्युक्तवाक्यानवदद् बलस्तान् कृष्णाज्ञया यान्तु न स्वेच्छयैव ॥ १९७॥


ज्ञातव्यमेतस्य मतं पुरस्ताद्धरेर्विरोधे न जयो भवेद् वः ।इत्युक्तवाक्ये हलिनि स्म सर्वे पप्रच्छुरानम्य जनार्दनं तम् ॥ १९८॥


अथाब्रवीद् वासुदेवोऽमितौजाः शृण्वन्तु सर्वे वचनं मदीयम् ।पुरैवोक्तं तन्मया कन्यकाया मायाव्रतो नार्हति सन्निधिस्थितिम् ॥ १९९॥


तां मे वाचं नाग्रहीदग्रजोऽयं बहून् दोषान् व्याहरतोऽप्यतो मया ।अनुल्लङ्घ्यत्वादग्रजोऽनुप्रवृत्तः कन्यागृहे वासने कूटबुद्धेः ॥ २००॥


अतीतश्चायं कार्ययोगोऽसमक्षं हृता कन्याऽतो नोऽत्र का मानहानिः ।भूयस्तरां मानिनस्तस्य सा स्याज्ज्ञाता च वो विपृथोः पार्थताऽस्य ॥ २०१॥


देया च कन्या नास्ति पार्थेन तुल्यो वरोऽस्माकं कौरवेयश्च पार्थः ।पौत्रश्च कृष्णस्य सुपूर्णशक्तेः पैतृष्वसेयो(पितृष्वसेयः) वीरतमो गुणाढ्यः ॥ २०२॥


अर्थ्योऽस्माभिः स्वयमेवाहरत् स शक्रात्मजो नात्र नः कार्यहानिः ।अनुद्रुत्यैनं(अनुसृत्यैनं) यदि वः स्यात् पराजयो हानिर्दृढं यशसो वो भवेत ॥ २०३॥


जित्वा यद्येनं कन्यका चाऽहृता चेत् परामृष्टां नैव कश्चिद्धि लिप्सेत्(कश्चिद् विलिप्सेत्) ।अतो न मे रोचते वोऽनुयानमित्यूचिवानास तूष्णीं परेशः ॥ २०४॥


श्रुत्वा हली कृष्णवाक्यं बभाषे मा यात चित्तं विदितं मयाऽस्य ।अस्यानुवृत्तिर्विजयाय नः स्याच्छुभाय शान्त्यै परतश्च मुक्त्यै ॥ २०५॥


ततोऽर्जुनो यत्र तिष्ठन्(तिष्ठेत्) न कश्चित् पराजयं याति कृष्णाज्ञयैव ।रथेन तेनैव ययौ सभार्यः शक्रप्रस्थं चाविशद् भ्रातृगुप्तम् ॥ २०६॥


सम्भावितो भ्रातृभिश्चातितुष्टैरूचेऽथ सर्वं तेषु यच्चाऽत्मवृत्तम्(आत्मवृत्तिम्) ।शान्तेषु वाक्यादात्मनो यादवेषु कृष्णो युक्तो हलिनाऽगाच्च पार्थान् ॥ २०७॥


सार्द्धं ययौ शकटै रत्नपूर्णैः शक्रप्रस्थं पूजितस्तत्र पार्थैः ।ददौ तेषां तानि रामेण युक्तस्तथा कृष्णायै भूषणानि स्वसुश्च ॥ २०८॥


मासानुषित्वा कतिचिद् रौहिणेयो ययौ पुरीं स्वां केशवोऽत्रावसच्च ।बहून् वर्षान् पाण्डवैः पूज्यमानः प्रीतिं तेषामादधानोऽधिकां स्वाम् ॥ २०९॥


आसन् कृष्णायाः पञ्च सुता गुणाढ्या विश्वेदेवाः पञ्चगन्धर्वमुख्यैः ।आविष्टास्ते चित्ररथाभिताम्रकिशोरगोपालबलैः क्रमेण ॥ २१०॥


प्रतिविन्ध्यः सुतसोमः(श्रुतसोमः) श्रुताख्यकीर्तिः शतानीक उत श्रुतक्रियः ।युधिष्ठिराद्यैः क्रमशः प्रजातास्तेषां द्वयोश्चावरजोऽभिमन्युः ॥ २११॥


चन्द्रांशयुक्तोऽतितरां(चन्द्रांशयुक्तो नितरां) बुधोऽसौ जातः सुभद्राजठरेऽर्जुनेन ।धर्मेरशक्रांशयुतोऽश्विनोश्च तथैव कृष्णस्य स सन्निधानयुक् ॥ २१२॥


सर्वेऽपि ते वीर्यवन्तः सुरूपा भक्ता विष्णोः सर्वशास्त्रेष्वभिज्ञाः ।मोदं ययुः पाण्डवास्तैः सुतैश्च विशेषतः सात्त्वतीनन्दनेन ॥ २१३॥


ततः कदाचित् खाण्डवं कृष्णपार्थौ चिक्रीडिषू सत्यभामासुभद्रे ।आदाय यातौ परिचारकैश्च रथेन गन्धर्वरानुगीतौ ॥ २१४॥


स्वैरं तयोस्तत्र विक्रीडतोश्च स्त्रीरत्नाभ्यां मन्दवातानुजुष्टे ।वने प्रसूनस्तबकोरुराजिते जले च तिग्मद्युतिकन्यकायाः ॥ २१५॥


भूत्वा विप्रस्तौ ययाचेऽन्नमेत्य कुशानुरूचेऽनुमते (कुशानुरूचे च मते) रमेशितुः ।पार्थः कीदृक् तेऽन्नमिष्टं वदेति स चावादीद् वह्निरहं वनार्थी ॥ २१६॥


प्रयाजान् देवाननुयाजांश्च शुल्कं हविर्दाने देवतानामयाचिषम् ।बलह्रासस्तव भूयादिति स्म शप्त्वैव ते तांश्च ददुः पुरा मम ॥ २१७॥


पुनः पूर्तिः केन मे स्याद् बलस्येत्यब्जोद्भवं पृष्टवानस्मि नत्वा ।यदा वनं खाण्डवं हि त्वमत्सि तदा बलं ते भवतीति सोऽब्रवीत् ॥ २१८॥


शक्रस्येदं खाण्डवं तेन विघ्नं करोत्यसौ तेन वां प्रार्थयामि ।इत्युक्ते तं पार्थ ऊचे यदि स्याद् रथो धनुश्चाथ शक्रं निरोत्स्ये ॥ २१९॥


नरावेशादन्नदानप्रतिश्रवात् स्वस्यापि शक्रस्य विरोधमैच्छत् ।पार्थः कृष्णस्य प्रेरणाच्चैव वह्निः पार्थं ययाचे शक्रविरोधशान्त्यै ॥ २२०॥


नहि स्वदत्तस्य पुनः स वैरं शक्रः कुर्यात् स्वयमिन्द्रो हि पार्थः ।नाप्रेरितो विष्णुना तस्य रोधं पार्थः कुर्यादिति कृष्णं ययाचे ॥ २२१॥


नचायुक्तः केशवेनैष शक्त इति कृष्णादाप भूयोऽप्यनुज्ञाम् ।ययौ समीपं च हरेर्बदर्यामादाय चक्रं चामुतः केशवेऽदात् ॥ २२२॥


चक्रं गोमन्ते कृष्णमापापि(कृष्णमायाद्धि) पूर्वं भक्त्या वह्निः केशवेऽदात् पुनस्तत् ।चक्रं च विष्णोर्बहुधा व्यवस्थितं तदग्निदत्तं प्राक्तनं चैकधाऽऽसीत् ॥ २२३॥


धनुश्च गाण्डीवमथाब्जजस्य करोति येनाखिलसंहृतिं सः ।अंशेन दत्तं तदुमापतेश्च शक्रस्य सोमस्य जलेशितुश्च ॥ २२४॥


तेनैव ते जिग्युरथो जगत्त्रयं प्रसादतस्ते(प्रसादतस्तु) क्रमशोऽब्जयोनेः ।अनन्यधार्यं विजयावहं च भारेण लक्षस्य समं शुभावहम् ॥ २२५॥


रथं च शुभ्राश्वयुतं जयावहं तूणौ तथाचाक्षयसायकौ शुभौ ।ध्वजं च रामस्य हनूमदङ्कमादाय सर्वं वरुणादर्जुनेऽदात् ॥ २२६॥


विशेषतो ध्वजसंस्थे हनूमत्यजेयता स्याज्जयरूपो यतोऽसौ ।सर्वं च तद्दिव्यमभेद्यमेव विद्युत्प्रभा ज्या च गाण्डीवसंस्था ॥ २२७॥


गाण्डीवमप्यास कृष्णप्रसादाच्छक्यं धर्तुं पाण्डवस्याप्यधार्यम् ।देवैश्च तैर्ब्रह्मवराद् धृतं तद् ब्रह्मैव साक्षात् प्रभुरस्य धारणे ॥ २२८॥


इन्द्रस्य दत्तश्च वरः स्वयम्भुवा तेनापि पार्थस्य बभूव धार्यम् ।इन्द्रो ह्यसौ फल्गुनत्वेन जातस्ततः सोऽस्त्रैः शरशालां चकार ॥ २२९॥


स योजनद्वादशकाभिविस्तृतं पुरं चकाराऽशु पुरन्दरात्मजः ।हुताशनोऽप्याशु वनं प्रगृह्य प्रभक्षयामास समुद्धतार्चिः ॥ २३०॥


प्रभक्षमाणं(प्रभक्ष्यमाणं) निजकक्षमीक्ष्य सन्धुक्षयामास तदाऽऽशुशुक्षणिम् ।अक्षोपमाभिर्बहुलेक्षणोऽम्भसां धाराभिराक्षुब्धमनाः क्षयाय ॥ २३१॥


अस्त्रैस्तु वृष्टिं विनिवार्य कृष्णः पार्थश्च शक्रं सुरपूगयुक्तम् ।अयुद्ध्यतां सोऽपि पराजितोऽभूत् प्रीतश्च दृष्ट्वा बलमात्मनस्तत् ॥ २३२॥


स्नेहं च कृष्णस्य तदर्जुने धृतं विलोक्य पार्थस्य बलं च तादृशम् ।निवर्त्य मेघानतितुष्टचित्तः प्रणम्य कृष्णं तनयं समाश्लिषत् ॥ २३३॥


विष्णुश्च शक्रेण सहेत्य केशवं समाश्लिषन्निर्विशेषोऽप्यनन्तः ।स केवलं क्रीडमानः सशक्रः(स शक्रः) स्थितो हि पूर्वं युयुधे न किञ्चित् ॥ २३४॥


ब्रह्मा च शर्वश्च समेत्य कृष्णं प्रणम्य पार्थस्य च कृष्णनाम ।सञ्चक्रतुश्चापि शिक्षाप्रकर्षाच्चक्रुः (चक्रुश्च सर्वे) सर्वे स्वास्त्रदाने प्रतिज्ञाम् ॥ २३५॥


अनुज्ञातास्ते प्रययुः केशवेन क्रीडार्थमिन्द्रो युयुधे हि तत्र ।प्रीत्या कीर्तिं दातुमप्यर्जुनस्य ततस्तुष्टः सह देवैर्ययौ स्वः (ययौ सः) ॥ २३६॥


दैत्याश्च नागाश्च पिशाचयक्षा हताः सर्वे तद्वनस्था हि ताभ्याम् ।ऋते चतुष्पक्षिणश्चाश्वसेनं मयं च नान्यत् किञ्चिदासात्र मुक्तम् ॥ २३७॥


अयमग्ने जरितेत्यादिमन्त्रैः स्तुत्वा वह्निं पक्षिणो नैव दग्धाः ।अश्वसेनः पुत्रकस्तक्षकस्य मात्रा ग्रस्तः प्रातिलोम्येन कण्ठे ॥ २३८॥


छिन्नेऽर्जुनेनान्तरिक्षे पतन्त्यास्तस्याः शक्रेणावितश्छिन्नपुच्छः ।वधान्मातुः पुच्छभङ्गाच्च रोषाद्धन्तुं पार्थं कर्णतूणीरगोऽभूत् ॥ २३९॥


मयः कृष्णेनाऽत्तचक्रेण दृष्टो ययौ पार्थं शरणं जीवनार्थी ।पार्थार्थमेनं न जघान कृष्णः स्वभक्तश्चेत्यतिमायं परेशः ॥ २४०॥


देवारिरित्येव मयि प्रकोपः कृष्णस्य तेनाहमिमं(तेनाहममुं) पुरन्दरम् ।पार्थात्मकं शरणं यामि तेन कृष्णप्रियः स्यामिति तस्य बुद्धिः ॥ २४१॥


प्राणोपकृत् प्रत्युपकारमाशु किं ते करोमीति स पार्थमाह ।कृष्णप्रसादाद्धि भवान् विमुक्तस्तस्मै करोत्वित्यवदत् स पार्थः ॥ २४२॥


कृष्णोऽपि (राज्ञे)राज्ञोऽतिविचित्ररूपसभाकृतावादिशत्(सभाकृतावदिशत्) तां स चक्रे ।अनिर्गमं प्राणिनामर्थितौ तौ हुताशनेनाथ विधाय जग्मतुः ॥ २४३॥


दृष्ट्वा च तौ पाण्डवाः सर्व एव महामुदं प्रापुरेतन्निशम्य ।कृष्णोऽपि पार्थैर्मुमुदेऽनन्तशक्तिसुखज्ञानप्रभावौदार्यवीर्यः(प्राभावौदार्यवीर्यः) ॥ २४४॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये खाण्डवदाहो नाम विंशोऽध्यायः