Jump to content

Mahabharatatatparyanirnaya/C1/S1

From Grantha
Revision as of 19:06, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

सर्वशास्त्रतात्पर्यनिर्णयः

नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियति प्रदाय।ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते ॥ १॥


आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः।संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे ॥ २॥


तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य।भूत्यै निजाश्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते ॥ ३॥


दृष्ट्वा स चेतनगणान् जठरे शयानान् आनन्दमात्रवपुषः सृतिविप्रमुक्तान्।ध्यानं गतान् सृतिगतांश्च सुषुप्तिसंस्थान् ब्रह्मादिकान् कलिपरान् मनुजांस्तथैक्षत् ॥ ४॥


स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन्।सोऽयं विहार इह मे तनुभृत् स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः ॥ ५॥


इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता।तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम् ॥ ६॥


सङ्कर्षणश्च स बभूव पुनः सुनित्यः संहारकारणवपुस्तदनुज्ञयैव।देवी जयेत्यनु बभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी ॥ ७॥


स्थित्यै पुनः स भगवाननिरुद्धनामा देवी च शान्तिरभवच्छरदां सहस्रम्।स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमांश्चरमात्मनेऽदात् ॥ ८॥


निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितान् उदरे निवेश्य ।चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेशमुखान् समग्रान् ॥ ९॥


पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च।एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत् ॥ १०॥


निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः।आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा ॥ ११॥


कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य।नैतादृशः क्‍व च बभूव न चैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः ॥ १२॥


सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्-सुखवीर्यसारः।यस्याऽज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं न तु कस्य चेशम् ॥ १३॥


आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ।वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषां ऋष्यादयः क्रमश ऊनगुणाः शतांशाः ॥ १४॥


आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा।तस्या उमा विपतिनी च गिरस्तयोऽस्तु शच्यादिकाः क्रमश एव यथा पुमांसः ॥ १५॥


ताभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः।शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न ॥ १६॥


तेषां स्वरूपमिदमेव यतोऽथ मुक्तावप्येवमेव सततोच्चविनीचरूपाः।शब्दः शतं दशसहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः ॥ १७॥


एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च संसृतिपरा असुरास्तमोगाः।एवं सदैव नियमः क्‍वचिदन्यथा न यावन्न पूर्तिरुत संसृतिगाः समस्ताः ॥ १८॥


पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसङ्घाः।आनन्त्यमेव गणशोऽस्ति यतो हि तेषां इत्थं ततः सकलकालगता प्रवृत्तिः ॥ १९॥


एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः।पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्‍व ॥ २०॥


साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्‍वचिदतस्त्वभिदा कुतोऽस्य।प्राप्येत चेतनगणैः सततास्वतन्त्रैः नित्यस्वतन्त्रवपुषः परमात् परस्य ॥ २१॥


अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः।अन्यैश्च शास्त्रवचनैः सहतत्त्वसूत्रैः निर्णीयते सहृदयं हरिणा सदैव ॥ २२॥


नारायणस्य न समः पुरुषोत्तमोऽहं जीवाक्षरे ह्यतिगतोऽस्मि ततो ‘ऽन्यदार्तम्’ (बृ.उ. ५.५.१) ।‘मुक्तोऽपसृप्य’ (ब्र.सू. १.३.२) इह नास्ति कुतश्च कश्चित् ‘नानेव’ (क.उ. २.१.११) धर्मपृथगात्मदृगेत्यधो हि॥ २३॥


‘आभास एव’ (ब्र.सू. २.३.५०) पृथगीशत एष जीवोमुक्तस्य नास्ति जगतो विषये तु शक्तिः।मात्रापरोऽसि न तु तेऽश्नुवते महित्वं


‘माहात्म्यदेह’ ‘सृतिमुक्तिगते’ ‘शिवश्चब्रह्मा च तद्गुणगतौ न कथञ्चनेशौ’ ।‘न श्रीः कुतस्तदपरे’‘ऽस्य सुखस्य मात्राम्


‘आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् ।विष्णोः सदैवाति वशात् कदापि गच्छन्ति केशादिगणा न मुक्तौ’ ॥ २६॥


‘यस्मिन् परेऽन्येऽप्यजजीवकोशा’‘नाहं परायुर्न मरीचिमुख्याः’ ।‘जानन्ति यद्गुणगणान् न रमादयोऽपि


‘नैवैक एव पुरुषः पुरुषोत्तमोऽसौएकः कुतः स पुरुषो’ ‘यत एव जात्या ।अर्थात् श्रुतेश्च गुणतो निजरूपतश्च


‘सर्वोत्तमो हरिरिदं तु तदाज्ञयैवचेत्तुं क्षमं स तु हरिः परमस्वतन्त्रः ।पूर्णाव्ययागणितनित्यगुणार्णवोऽसौ’


‘ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम्।मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम् ’॥ ३०॥


अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा।एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन ॥ ३१॥


वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः।प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः ॥ ३२॥


एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्‍वचित्।अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन ॥ ३३॥


मोहार्थान्यन्यशास्त्राणि कृतान्येवाऽज्ञया हरेः।अतस्तेषूक्तमग्राह्यम् असुराणां तमोगतेः ॥ ३४॥


यस्मात् कृतानि तानीह विष्णुनोक्तैः शिवादिभिः।एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते ॥ ३५॥


विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि।तानि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः ॥ ३६॥


अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः।तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्‍वचित् ॥ ३७॥


अज्ञत्वं पारवश्यं वा (छे)वेधभेदादिकं तथा।तथा प्राकृतदेहत्वं देहत्यागादिकं तथा ॥ ३८॥


अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम्।प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम् ॥ ३९॥


न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ।सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः ॥ ४०॥


ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः।यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम् ॥ ४१॥


निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना।व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः ॥ ४२॥


यथार्थवचनानां च मोहार्थानां च संशयम्।अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् ॥ ४३॥


तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः।सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता ॥ ४४॥


अभेदः सर्वरूपेषु जीवभेदः सदैव च।विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा ॥ ४५॥


तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा।तस्मादेतद्विरुद्धं यन्मोहाय तदुदाहृतम् ॥ ४६॥


तस्माद् ‘ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु’।इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम् ॥ ४७॥


‘एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति।त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥ ४८॥


अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज।प्रकाशं कुरु चाऽत्मानम् अप्रकाशं च मां कुरु’ ॥ ४९॥


इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् ।‘अमोहाय गुणा विष्णोराकारश्चिच्छरीरता ॥ ५०॥


निर्दोषत्वं तारतम्यं मुक्तानामपि चोच्यते ।एतद्विरुद्धं यत् सर्वं तन्मोहायेति निर्णयः’ ॥ ५१॥


स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम् ।शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत् ॥ ५२॥


‘परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् ।शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि ॥ ५३॥


ज्ञानं विना तु या मुक्तिः साम्यं च मम विष्णुना ।तीर्थाऽदिमात्रतो ज्ञानं ममाऽधिक्यं च विष्णुतः ॥ ५४॥


अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा ।इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा’ ॥ ५५॥


उक्तं (पा)पद्मपुराणे च शैव एव शिवेन तु ।यदुक्तं हरिणा पूर्वं उमायै प्राह तद्धरः ॥ ५६॥


‘त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा ।द्वापराऽदौ युगे भूत्वा कलया मानुषाऽदिषु ॥ ५७॥


स्वाऽगमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु ।मां च गोपाय येन स्यात् सृष्टिरेषोत्तराधरा’(पद्म पु. ६.७१.१०६-१०७) ॥ ५८॥


न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः ।क्‍वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः ॥ ५९॥


निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि ।वेदेषु च परो विष्णुः सर्वस्मादुच्यते सदा ॥ ६०॥


‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।विदे हि रुद्रो रुद्रियम् महित्वं यासिष्टं वर्तिरश्विनाविरावत्’(ऋग्वेद ७.४०.५) ॥ ६१॥


‘स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्’ ।‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ ॥ ६२॥


‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ ।‘वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः’ ॥ ६३॥


‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. उ.५.३(३.१.३)) ॥ ६४॥


‘यो वेद निहितं गुहायां परमे व्योमन् ।सोऽश्नुते सर्वान् कामान्त्सह ब्रह्मणा विपश्चिता’(तै. उ.२.१) ॥ ६५॥


‘प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ ।‘सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः’(ऋग्वेद २.१५.१, ४.१७.५) ॥ ६६॥


‘यच्चिकेत सत्यमिइत् तन्न मोघं वसु स्पार्हम् उत जेतोत दाता’ ।‘सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये’(ऋ.१०.५५.६, ८.३.४) ॥ ६७॥


‘सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा ।सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम् ॥ ६८॥


असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम् ।जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः ॥ ६९॥


जीवेशयोर्भिदा चैव जीवभेदः परस्परम् ।जडेशयोर्जडानां च जडजीवभिदा तथा ॥ ७०॥


पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वशः ।मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा ॥ ७१॥


क्षितिपा मनुष्यगन्धर्वा दैवाश्च पितरश्चिराः ।आजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः ॥ ७२॥


रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः ।एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा ।एको रुद्रस्तथा शेषो न कश्चिद्वायुना समः ॥ ७३॥


मुक्तेषु श्रीस्तथा वायोः सहस्रगुणिता गुणैः ।ततोऽनन्तगुणो विष्णुर्न कश्चित् तत्समः सदा’ ॥ ७४॥


इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः ।तात्पर्यं महदत्रेत्युक्तं ‘यो माम्’ (भ.गी.१५.१९) इति स्वयं तेन ॥ ७५॥


‘भूम्नो ज्यायस्त्वम्’(‘भूम्नःक्रतुवज्ज्यायस्त्वं तथा च दर्शयति’ ब्र.सू.३.३.५९) इति ह्युक्तं सूत्रेषु निर्णयात् तेन ।तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन ॥ ७६॥


‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं(नू) स्वाम्’ (क.उ.१.२.२३; मु.उ.३.२.३) ॥ ७७॥


‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया ।मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च ॥ ७८॥


उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत् ।सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे ॥ ७९॥


तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा ।एतद्विना न कस्यापि विमुक्तिः स्यात् कथञ्चन ॥ ८०॥


पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च ।निर्दोषत्वं गुणोद्रेकं ज्ञात्वा मुक्तिर्नचान्यथा ॥ ८१॥


अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये ।तदावेशांस्तथा सम्यग् ज्ञात्वा मुक्तिर्नचान्यथा ॥ ८२॥


सृष्टिरक्षाऽहृतिज्ञाननियत्यज्ञानबन्धनान् ।मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा ॥ ८३॥


वेदांश्च पञ्चरात्राणि सेतिहासपुराणकान् ।ज्ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्‍वचित् ॥ ८४॥


माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्नचान्यथा ॥ ८५॥


त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः ।तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा ॥ ८६॥


मध्यमा मानुषा ये तु सृतियोग्याः सदैव हि ।अधमा निरयायैव दानवास्तु तमोलयाः ॥ ८७॥


मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः ।देवानां निरयो नास्ति तमश्चापि कथञ्चन ॥ ८८॥


नासुराणां तथा मुक्तिः कदाचित् केनचित् क्‍वचित् ।मानुषाणां मध्यमानां नैवैतद्द्वयमाप्यते ॥ ८९॥


असुराणां तमःप्राप्तिस्तदा नियमतो भवेत् ।यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत्परम् ॥ ९०॥


तदा मुक्तिश्च देवानां यदा प्रत्यक्षगो हरिः ।स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा ॥ ९१॥


सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा ।आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः ॥ ९२॥


यथाक्रमं गुणोद्रेकात् तदन्यैराविरिञ्चतः ।ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग्गणाः ॥ ९३॥


तैरेवाप्यं पदं तत्तु नैवान्यैः साधनैरपि ।एवं सर्वपदानां तु योग्याः सन्ति पृथग् गणाः ॥ ९४॥


तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम् ।तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित् ॥ ९५॥


अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः ।तस्माद् योग्यानुसारेण सेव्यो विष्णुः सदैव हि ॥ ९६॥


अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः ।द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन ॥ ९७॥


नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः ।सत्यसङ्कल्पतो विष्णुर्नान्यथा च करिष्यति ॥ ९८॥


दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा ।अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये’ ॥भविष्यत्पर्ववचनमित्येतदखिलं परम् ॥ ९९॥


‘शृण्वे वीर उग्रमुग्रं दमायन् अन्यमन्यमतिनेनीयमानः ।एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ १००॥ \\


परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति’(ऋग्वेद ६.४७.१६-१७) ॥ १०१॥


‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’(तै. आ. ३.१२.१७, श्वे. उ. ३.८) ।‘तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ ॥ १०२॥


‘यस्य देवे परा भक्तिर्यथादेवे तथा गुरौ ।तस्यैतेऽकथिता ह्यर्थाः प्रकाशन्ते महात्मनः’(श्वे. उ. ६.२३) ॥ १०३॥


‘भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला ।मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी ॥ १०४॥


ज्ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते’।इत्यादि वेदवचनं साधनप्रविधायकम् ॥ १०५॥


‘निश्शेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे।सदा तिष्ठति भक्तश्चेद् ब्रह्महाऽपि विमुच्यते’ ॥ १०६॥


‘धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाऽच्युत ।पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरे’ ॥ १०७॥


‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप’(भ.गी.११.५४) ॥ १०८॥


‘अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः ।तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् ॥ १०९॥


पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते ।पतितानां तमस्यन्धे निःशेषसुखवर्जिते ॥ ११०॥


जीवाभेदो निर्गुणत्वं अपूर्णगुणता तथा ।साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च ॥ १११॥


प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च ।तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः ॥ ११२॥


एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता ।अनादिभक्तिर्देवानां क्रमाद् वृद्धिं गतैव सा ॥ ११३॥


अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः ।सैवाऽनन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ॥ ११४॥


यथा शौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा ।सुखज्ञानादिकं रूपं एवं भक्तेर्न चान्यथा ॥ ११५॥


भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित् ।स एव मुक्तिदाता च भक्तिस्तत्रैककारणम् ॥ ११६॥


ब्रह्मादीनां च मुक्तानां तारतम्ये तु कारणम् ।तारतम्यस्थिताऽनादिर्नित्या भक्तिर्न चेतरत् ॥ ११७॥


मानुषेष्वधमाः किञ्चिद् द्वेषयुक्ताः सदा हरौ ।दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न संशयः ॥ ११८॥


मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृताः ।किञ्चिद्भक्तियुता नित्यं उत्तमास्तेन मोक्षिणः ॥ ११९॥


ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः’ ।इत्यादीनि च वाक्यानि पुराणेषु पृथक् पृथक् ॥ १२०॥


‘षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।सप्तपादश्चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः ॥असंशयः संशयच्छिद् गुरुरुक्तो मनीषिभिः ॥ १२१॥


तस्माद् ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा ।अन्येऽपि स्वात्मनो मुख्याः क्रमाद् गुरव ईरिताः ॥ १२२॥


क्रमाल्लक्षणहीनाश्च लक्षणालक्षणैः समाः ।मानुषा मध्यमाः सम्यग् दुर्लक्षणयुतः कलिः ॥ १२३॥


सम्यग्लक्षणसम्पन्नो यद् दद्यात् सुप्रसन्नधीः ।शिष्याय सत्यं भवति तत्सर्वं नात्र संशयः ॥ १२४॥


अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत् ।नातिप्रसन्नहृदयो यद् दद्याद् गुरुरप्यसौ ॥न तत् सत्यं भवेत् तस्माद् अर्चनीयो गुरुः सदा ॥ १२५॥


स्वावराणां गुरुत्वं तु भवेत् कारणतः क्‍वचित् ।मर्यादार्थं तेऽपि पूज्या न तु यद्वत् परो गुरुः’ ॥इत्येतत् पञ्चरात्रोक्तं पुराणेष्वनुमोदितम् ॥ १२६॥


‘यदा मुक्तिप्रदानाय स्वयोग्यं पश्यति ध्रुवम् ।रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात् ॥ १२७॥


यान्ति पूर्वाण्युत्तराणि न श्लेषं यान्ति कानिचित् ।मोक्षश्च नियतस्तस्मात् स्वयोग्यहरिदर्शने’ ॥ १२८॥


भविष्यत्पर्ववचनमित्येतत् सूत्रगं तथा ।श्रुतिश्च तत्परा तद्वत् ' तद्यथे' (छा. उ. ४.१४.३)त्यवदत् स्फुटम् ॥ १२९॥


‘मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम् ।स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम् ॥ १३०॥


उत्तरोत्तरवश्याश्च मुक्ता रुद्रपुरस्सराः ।निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः ।स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन ॥ १३१॥


असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः ।कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद् गणाः ॥ १३२॥


तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा ।ब्रह्मैवं सर्वजीवेभ्यः सदा सर्वगुणाधिकः ॥ १३३॥


मुक्तोऽपि सर्वमुक्तानां आधिपत्ये स्थितः सदा ।आश्रयस्तस्य भगवान् सदा नारायणः प्रभुः’ ॥ १३४॥


इत्यृग्यजुःसामाथर्वपञ्चरात्रेतिहासतः ।पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः ॥ १३५॥


विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः ।आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा ॥ १३६॥


तात्पर्यं शास्त्राणां सर्वेषामुत्तमं मया प्रोक्तम् ।प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ ॥ १३७॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये सर्वशास्त्रतात्पर्यनिर्णयो नाम प्रथमोऽध्यायः ॥