Jump to content

Bhagavatatatparyanirnaya/C7/S16

From Grantha
Revision as of 19:02, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

षोडशोऽध्यायः

निषेकादिश्मशानान्तैः संस्कारैः संस्कृताः द्विजाः ।इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥


इन्द्रियाणि मनस्येवं वाचि वैकारिकं मनः ।तां तु वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ॥ ५३ ॥


ओङ्कारं बिन्दुनादे तु तं तु प्राणे महत्यमुम् ।

'यज्ञाभिमानिनो देवान्स्मरन्तीन्द्रियमानिनाम् । वशगांस्तान्मनोमानिसुरेन्द्रस्य वशे स्थितान् ॥ वेदात्मिकायाः पार्वत्यास्तं तां रुद्रवशे स्थिताम् । वर्णत्रयात्मकं रुद्रं शेषे तु प्रणवात्मके ॥ बिन्दुरूपसरस्वत्यां तं तां तस्यां पुनर्न्यसेत् । मूलस्थानादरूपायां तां वायौ तं जनार्दने ॥

प्रकृतावथवा प्राणं तामेव पुरुषोत्तमे॥ इति ब्रह्मतर्के ॥ ५२-५३ ॥
अग्निः सूर्यो दिवा वायुः शुक्लो राकोत्तरः स्वराट् ॥ ५४ ॥


स्वराट् इन्द्रः ॥ ५४ ॥
विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयः ।देवयानमिदं प्राहुर्भूत्वा भूत्वाऽनुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥


'विश्वाद्या अनिरुद्धाद्यास्ते द्विधा सम्प्रकीर्तिताः ।

विष्णुरूपास्तदन्ये च तान्सर्वान्याति मोक्षगः ॥ तदन्ये च दिवस्पुत्राः सर्वे च द्युसमीपगाः । ते दिवं प्रापयन्त्येनं सा वायुं स हरिं पृथक् ॥ विश्वादिरूपं तुर्यश्च वासुदेवश्च नापरः॥ इति च ।

अधिको भूत्वा सुखादिभिः ॥ ५५ ॥
य एते पितृदेवानामयने देवनिर्मिते ।शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥


'भक्तिमान्मार्गविन्नैव नीचां गतिमवाप्नुयात्॥ इति च ॥ ५६ ॥
आदावन्तेऽजनानाशं बहिरन्तः परावरम् ।ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिश्च यत् स्वयम् ॥ ५७ ॥


ग्लापकत्वात् तमः ॥ ५७ ॥
अबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः ।दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥


दुर्घटत्वादर्थत्वेन परमेश्वरेणैव कल्पितम् ॥ ५८ ॥
क्षित्यादीनां इहार्थानां छाया न कतमाऽपि हि ।न संघातो विकारोऽपि न पृथङ् नान्वितोऽपि वा ॥ ५९ ॥


'छाया रीतिः प्रकारश्च भावश्चेत्यभिधीयते। इति शब्दनिर्णये । क्षित्यादीनां पदार्थानां कतमोऽपि प्रकारो न घटते । परमेश्वरकल्पितत्वात्कार्यमित्येव वक्तुं युक्तम् । न हि बह्वपां सङ्घातमात्रं पृथिवी । न च विकारमात्रम् । न हि कालुष्यादिविकारमात्रेण पृथिवी भवति । न चाद्भ्यः पृथक्स्थितिः । न च वस्तुद्वयवत् सहावस्थानमात्रम् ॥ ५९ ॥
धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।न स्युर्ह्यसत्यवयविन्यासन्नावयवा इव ॥ ६० ॥


एवमवयवावयविनोरपि ॥ ६० ॥
स्यात् सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः ।जाग्रत्स्वप्नौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥


न च सादृश्यमात्रम् । वस्तुभेदे हि तद्युज्यते । तस्मात्स्वप्न एव । जाग्रत्स्वप्नौ यथा विशेषतो दृश्येते तथा पृथिव्यबादिविशेषो दुर्घटोऽपीश्वरकल्पनयैवासौ दृश्यते तथा पृथिव्यबादिविशेषो दुर्घटोऽपीश्वरकल्पनयैवासौ दृश्यते ।

'कार्यकारणवस्तूनां विशेषो न निरूपितः ।

तथा पीशेच्छयैवासौ दृश्यते नियतोऽपि च॥ इति च ॥ ६१ ॥
अहं पुराऽभवं कश्चिद् गन्धर्व उपबर्हणः ।नाम्नाऽतीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ ६९ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे षोडशोऽध्यायः ॥
॥ सप्तमः स्कन्धः समाप्तः ॥
अतीतमहाकल्पे अतीतब्रह्मकल्पे ॥ ६९ ॥ 'ब्रह्मकालः परश्चेति महाकल्पश्च कीर्तितः। इति च ॥