Bhagavatatatparyanirnaya/C7/S12
Appearance
द्वादशोऽध्यायः
श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।सेवेज्याऽवनतिः सख्यं दास्यमात्मसमर्पणम् ॥ ११ ॥
'अनाद्यनन्तकालेषु मुक्तौ संसार एव च ।
मयिस्थश्चोदयत्येको विष्णुर्मां सर्वदैव तु ॥ इति सम्प्रीतिकं ज्ञानं विद्यादात्मसमर्पणम् ।
बहिस्थेश्वरदासत्वं दास्यमित्युच्यते बुधैः॥ इति तन्त्रमालायाम् ॥ ११ ॥या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा ।हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ ३० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे द्वादशोऽध्यायः ॥
'हरिरस्मिंस्थित इति स्त्रीणां भर्तरि भावना ॥
शिष्याणां च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु ।
भृत्यानां स्वामिनि तथा हरिभाव उदीरितः॥ इति च ॥