Jump to content

Bhagavatatatparyanirnaya/C4/S29

From Grantha
Revision as of 19:00, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

एकोनत्रिंशोऽध्यायः

पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ।आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ॥ २० ॥


'सुखवद्दूरतो दृश्यं तत्काले दुःखमेव यत् । मृगतृष्णेत्यतः प्राहुर्भोगं वैषयिकं बुधाः॥ इति शब्दनिर्णये ॥२०॥
दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु ।जीवस्य न व्यवच्छेदः स्याच्चेत् तत् तत्प्रतिक्रिया ॥ ३३ ॥


तत्प्रतिक्रियाऽपि दुःखमेव ॥ ३३ ॥
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३६ ॥


'संसृतेः स्वप्नसाम्यं तु यथार्थज्ञानवर्जनम्॥ इति च ।

'जाग्रत्यविद्यमानं तु देहात्मत्वादि केवलम् ।

अविद्यमानं स्वप्ने तु जाग्रत्त्वज्ञानमेव च॥ इति षाड्गुण्ये ॥३६॥
प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः ।दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४३ ॥


'प्रजापतिपतिर्ब्रह्मा विरिञ्चश्चेति कथ्यते। इति शब्दनिर्णये ॥ ४३ ॥
शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे ।मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४६ ॥


'मन्त्रलिङ्गैर्व्यवच्छिन्नं वेदशब्दोक्तमात्रकम् ।

वेदो वदन्नपि हरिं न सम्यग्वक्ति कुत्रचित् । नाऽरोहयत्यनुभवमप्रसिद्धस्वरूपतः ॥ अथाप्यनुभवारोहः प्रसन्ने केशवे भवेत् ।

किञ्चिदेव सुसम्यक् च स्वयं त्वनुभवत्यमुम्॥ इति वाराहे ॥४६॥
यदा यस्यानुगृह्णाति भगवानात्मभावितः ।स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४९ ॥


'यदा त्वनुभवी भूयाच्छब्दमात्रानुरोधनम् ।

त्यक्त्वाऽथ तं विदुः प्राज्ञास्त्यक्तवेद इति स्म ह ॥ यदैव त्यक्तवेदः स्यादथास्मान्मुच्यते भयात् । प्रायस्तु वैदिका एव रुद्राद्या अपि वै पुरा ॥ वैदिकस्त्यक्तवेदश्च ब्रह्मैवैकः प्रजापतिः । ततस्तु केशवं भक्तया सम्पूज्य बहुजन्मसु । त्यक्तवेदत्वमापन्नाः प्रसादात्परमेष्ठिनः॥ इति महासंहितायाम् । 'केवलं वेदशब्देन जानन्वैदिक उच्यते । वेदं विनाप्यनुभवाज्जानंस्तु त्यक्तवैदिकः॥ इत्यध्यात्मे ॥ 'तत्त्वं वेदानुसारेण चिन्तयन्वैदिको भवेत् ।

वेद ऊहामनुसरेद्यस्य स त्यक्तवैदिकः॥ इति षाड्गुण्ये ॥ ४९ ॥
स त्वं विचक्ष्व मृगचेष्ठितमात्मनोऽन्त-श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्तिम् ।


'चित्तिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणम्॥ इति शब्दनिर्णये ॥
एकं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तरम् ।एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७६ ॥


'प्राणेन्द्रियान्तःकरणभेदेन त्रिविधं मतम् ।

पञ्च पञ्चैव ते सर्वे प्राणबुद्धीन्द्रियाणि च ॥ कर्मेन्द्रियाणि च तथा तस्मात्पञ्चविधं स्मृतम् ।

लिङ्गं षोडशकं प्राहुर्मनसा सह तत्पुनः॥ इति ब्राह्मे ॥ ७६ ॥
भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि ।यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥ ८२ ॥


'देहादिव्यतिरेकेण चिद्रूपोऽहमिति स्फुटम् ।

सदैवानुभवो भक्तिर्विष्णौ तद्दर्शनादनु ।

यस्यासौ मुच्यते क्षिप्रं संसारान्नात्र संशयः॥ इति हरिवंशेषु ॥८२॥
अदृष्टं दृष्टवन्नङ्क्ष्येद्भूतं स्वप्नवदन्यथा ।भूतं भवद् भविष्यच्च सुप्तं सर्वरहो रहः ॥ ८३ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकोनत्रिंशोऽध्यायः ॥
'संसारस्थमिदं सर्वमनित्यत्वाद्वृथा यतः ।

अतः प्राहुः स्वप्नसमं प्राज्ञा जगदिदं मृषा॥ इति विष्णुसंहितायाम् । 'सुषुप्तिस्वप्नयोश्चैव स्वर्गव्योम्नोस्तथैव च । अन्योन्यनामता ज्ञेया मनोबुद्ध्योस्तथैव च॥ इति शब्दनिर्णये ॥ अतो भूतं भवत् भविष्यच्च स्वप्न इत्यर्थः ।

'रहो ब्रह्म तथा यज्ञः स्वः सत्यमिति गीयते। इति च ॥ ८३ ॥