Jump to content

Bhagavatatatparyanirnaya/C2/S5

From Grantha
Revision as of 18:59, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

षष्ठोऽध्यायः

रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी ।कर्णौ दिशाञ्च तीर्थानां श्रोत्रमाकाशशब्दयोः ॥ ३ ॥


तीर्थानां शास्त्राणाम् ॥ ३ ॥
रोमाण्युद्भिजजातीनां यैर्वा यज्ञस्तु सम्भृतः ।केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ॥ ५ ॥


'याज्ञिका रोममूलस्था रोमान्तस्थास्तु तत्परे ।

उद्भिजो वासुदेवस्य लिङ्गगास्तु जरायुजाः। इति पाद्मे ।

'हरेः श्मश्वाश्रया विद्युच्छिलालोहा नखाश्रयाः। इत्याग्नेये ॥ ५ ॥
बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ।विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च


ब्राह्मणवैश्यादीन् वर्जयितुं प्रायश इति ।

'मोक्षः शान्तिश्च शरणं निर्वाणं चाभिधीयतेइति ब्राह्मे । 'भेजे खगेन्द्रध्वजपादमूलम्। इति च । 'स्वोत्पत्त्यङ्गेषु देवानामन्येषां पादमूलतः ।

मुक्तिस्तु विहिता विष्णोर्निर्दिष्टेषु यथावचः। इत्यध्यात्मे ॥ ६ ॥
धर्मस्य मम तुभ्यञ्च कुमाराणां भवस्य च ।विज्ञानस्य च तत्वस्य परस्यात्मा परायणम् ॥ ११ ॥


'कुमारब्रह्मरुद्राद्या हरेर्मध्यात्समुद्गताः। इति वामने ।

'आत्मेति मध्यदेहश्च सर्वदेहोऽपि वा भवेत् । मनोबुद्धिरहङ्कारश्चित्तं जीवश्च कथ्यते ॥ अथवा स्वयमेवेति वायुर्ब्रह्माऽपि वा भवेत् । मुख्यतो ब्रह्म परममात्मशब्देन भण्यते॥ इति नाममहोदधौ । 'देहेन्द्रियादिभेदेन निर्भेदोऽपि हरिः स्वयम् ।

भण्यते केवलैश्वर्यादनाद्यानन्दचिद्घनः॥ इति गारुडे ।
सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।तेनेदमावृतं विश्वं वितस्तिमधितिष्ठता ॥ १५ ॥


'सर्वं पुरुष एवेति भण्यतेऽभेदवज्जगत् ।

तदधीनं तु सत्तादि यतो ह्यस्य सदा भवेत्। इति ब्रह्मतर्के ।

'वितस्तिमात्रं हृदयमास्थाय व्याप्नुते जगत्। इति गारुडे ॥ १५ ॥
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ १६ ॥


'पश्यन् स्वधिष्ण्यं देहं स बहिष्ठान्विषयानपि । एवमण्डान्तरं पश्यन्बहिः सर्वं च पश्यति। इति वामने ॥ १६ ॥
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥


'अव्यक्तमात्मनोऽन्नं च महदादि विनाशि च । यदतीतः परो विष्णुः स एवातो विमोक्षदः॥ इति नारदीये ॥१७॥
पादोऽस्य सर्वा भूतानि पुंसः स्थितिविदो विदुः ।अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥


'स्वरूपांशो विभिन्नांश इति द्वेधांश इष्यते ।

अनन्तासनवैकुण्ठपद्मनाभाः स्वयं हरिः ॥ जीवा इमे विभिन्नांशा धर्माधर्मादिसंयुताः॥ इति वामने । सर्वस्य यथावत्स्थितिविदः । 'त्रिमूर्धा सन् हरिर्धत्ते द्युत्रयं मूर्धभिस्त्रिभिः । अनन्तासनवैकुण्ठनारायणपुराणि तु ।

बहुलक्षोच्छ्रितेष्वेषु स वसत्यमृतो हरिः॥ इति मात्स्ये ॥ १८ ॥
पादास्त्रयो बहिस्त्वासन्नप्रजानां य आश्रयाः ।अन्तस्त्रिलोक्यास्त्वपरो गृहमेधैर्बृहद्धुतः ॥ १९ ॥


'अनन्तासनवैकुण्ठनारायणपुराणि तु ।

त्रीणि धामानि वै विष्णोस्त्रिलोकाद्बहिरेव च ॥ अदायादास्तु पुत्राणामुद्रिक्तज्ञानचक्षुषः । नारायणपरा देवा एवं तान्याप्नुवन्तिच ॥ 'स एवान्यस्वरूपेण शक्रलोकसमीपगः । इज्यो यज्ञपुमान्नाम ज्ञानिनां गृहिणां पदम् ॥ यतीनां ध्रुवलोकस्थो वनिनां मेरुमध्यगः । आदित्यमण्डलस्थस्तु ज्ञानिनां ब्रह्मचारिणाम्

इति ब्रह्माण्डे ॥ १९ ॥
सृती विचक्रमे विष्वक्साशनानशने उभे ।यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ २० ॥


'त्रिपात्स एव भगवान् सर्वप्राणिषु संस्थितः । निरन्नेषु च विद्वत्सु त्रिदशेष्वितरेषु च॥ इत्यध्यात्मे ॥ २० ॥
तस्मादण्डाद्विराड् जज्ञे भूतेन्द्रियगुणाश्रयः ।तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवाश्रयम् ॥ २१ ॥


यदास्य नाभ्यात् नलिनात् अहमासं महात्मनः ।नाविन्दं यज्ञसम्भारान् पुरुषावयवान् ऋते ॥ २२ ॥


'तस्माद्धरेरण्डमभूदण्डादपि चतुर्मुखः ।

स विराण्नामकस्तस्मादधिको हरिरेव तु ॥ अण्डाज्जातस्य तस्यान्यद्रूपं पद्मादभूद्धरेः । यदोभयात्मको जज्ञे ब्रह्मा लोकपितामहः ॥ तदैव सोऽतिरिक्तोऽभूच्छर्वपूर्वापराज्जनात् । त्रिलोकस्थानगं विष्णुमयजच्च समाहितः ।

तद्रूपभूतांस्त्रींल्लोकान् पशून् कृत्वा महामनाः॥ इति गारुडे ॥ २१-२२ ॥
नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।देवतानुक्रमः कल्पः सङ्कल्पः सूत्रमेव च ॥ २५ ॥


सूत्रं मीमांसासूत्रम् ॥ २५ ॥
नारायणे भगवति तदिदं विश्वमाहितम् ।गृहीतमायोरुगुणे सर्गादावगुणे स्वतः ॥ ३० ॥


यस्मात् तमेवायजन् तस्मादिदं तस्मिन्नाहितम् ।

'नित्यं गृहीताः सत्वाद्या जीववज्जडवन्न तु ।

मिथ्यामानात्स्वरूपत्वात्स्वातन्त्र्याद्बहिरेव तु॥ इति ब्रह्मतर्के ॥३०॥
इति तेऽभिहितं तात यथेदमनुपृच्छसि ।नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ ३२ ॥


'सदिति व्यक्तमुद्दिष्टमसदव्यक्तमुच्यते ।

गम्यागम्यस्वरूपत्वात्तत्सत्तादिर्हरेर्यतः ॥

अतस्तस्मादन्यदेव ह्यनन्यदिति भण्यते॥ इति च ॥ ३२ ॥
नतोऽस्म्यहं तच्चरणं समीयुषांभवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।


'सर्वजीवनिकायेषु ब्रह्मवायू हरेर्विदौ ।

न चान्यस्तादृशो वेत्ता यावद्वेत्ति हरिः स्वयम् ॥ तावत्तावपि नो विष्णुं जानीतो लोकवन्दितौ

इति ब्रह्माण्डे ॥ ३५ ॥
स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः ।आत्माऽऽत्मन्यात्मनाऽऽत्मानं स संयच्छति पाति च ॥ ३८ ॥


'स्वयमेव स्वरूपाणि मत्स्यकूर्मादिकान्यजः ।

स्वात्मन्येवेच्छया सृष्ट्वा तैर्देवादीन्प्रपात्यसौ ॥ संयच्छत्यसुरान्विष्णुः कल्पे कल्पे जगत्प्रभुः । तिरोहितं स्वरूपं च प्रकाशयति शास्त्रतः

इति भागवततन्त्रे ॥ ३८ ॥
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् ।सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥


ऋतं विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।यदा तदैवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४० ॥


'ऋतं तदात्मना ज्ञप्तेः सत्यं साधुत्वतः परम् ।

सम्यक्संस्थमदूष्यत्वाच्छुद्धं दोषोज्झितत्वतः । केवलं तादृशाभावात्प्रत्यगन्तरवस्थितेः ।

एतदेतादृशं तत्त्वं यो वेद स विमुच्यते॥ इति ब्रह्मतर्के ॥३९,४०॥
आद्योऽवतारः पुरुषः परस्यकालः स्वभावः सदसन्मनश्च ।


अहं भवो यज्ञ इमे प्रजेशाःदक्षादयो ये भवदादयश्च ।


गन्धर्वविद्याधरचारणेशाःये यक्षरक्षोरगनागनाथाः ।


अन्ये च ये प््रोतपिशाचभूतकूष्माण्डयादोमृगपश्वधीशाः ।यत्किञ्च लोके भगवन्महस्वदोजः सहस्वद्बलवत्क्षमावत् ।


प्राधान्यतो यानृषय आमनन्तिलीलावतारान् पुरुषस्य भूम्नः ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
'यः शेते प्रलये विष्णुः शून्यनामा महाकृतिः ।

स तु नारायणो नाम नराणामयनत्वतः । रूपं द्वितीयं भवति दीपाद्दीपान्तरं यथा ॥ सिसृक्षोस्तस्य पुरुष इत्याहुस्तद्विदो जनाः । स रमाया द्वितीये तु रूपे प्रकृतिसंज्ञिते ॥ वीर्यमाधत्त पुरुषो महांस्तस्मादजायत । योऽसौ हिरण्यगर्भाख्यः पुरुषः सोऽपि भण्यते ॥ श्रद्धेत्युक्ता तु तत्पत्नी साऽपि प्रकृतिरुच्यते । प्रलये त्वशरीरौ तौ विभागेन व्यवस्थितौ ॥ शरीरं प्राप्य पुरुषात्संयोगं तौ प्रचक्रतुः । ततः पुनर्महत्तत्त्वं प्रजातं जगदङ्कुरम् ॥ स्वस्यैव पुत्रतां यातमहङ्कारस्ततोऽजनि॥ इति व्योमसंहितायाम् । पुरुषः तस्यैव आद्योऽवतारः । कालादयो रूपवत् । अस्वरूपमपि प््रिायत्वात् । 'पुरुषाद्या हरेरूपं ब्रह्माद्यास्तत्प््रिायाः स्मृताः । स्वरूपभूता नैवैते तत्सन्निधियुता अपि॥ इति पाद्मे । 'कालो वस्तुस्वभावश्च प्रकृतिः प्राण एव च । मनश्च पञ्चभूतानि विकारस्त्रिगुणा अपि । न स्वरूपं हरेरेतत्तथाप्येषु हरिः स्थितः॥ इति पाद्मे । सत् प्राणः । 'सदिति प्राणःइति श्रुतेः । 'द्रव्यं तु पञ्चभूतानि विकारोऽण्डमुदाहृतम् । विराजं गरुडं प्राहुः स्वराडिन्द्र उदाहृतः॥ इति षाड्गुण्ये । 'सर्वं तु रूपवद्विष्णोर्विशेषेण विभूतिमत् । अतिप््रिायत्वान्नैवैतत्स्वरूपमपि भण्यते॥ इति स्कान्दे । 'स्वतो महत्वं तु महोविशेषप्राप्तिशक्तिता । विभूतिर्लक्षणोन्नाहो लक्ष्मीशब्देन भण्यते॥ इति ब्रह्मतर्के । 'प्रधानत्वेन सर्वस्मान्मत्स्यकूर्मादयो हरेः । अवताराः श्रुतौ ख्याताः स एवैते ततः स्मृताः । न स्वरूपं तु ब्रह्माद्याः स्मृता मायाविभूतयः । स्वेच्छयैषां विशिष्टत्वं कुरुते तत्तथा स्मृताः ।इति व्योमसंहितायाम् ॥ 'यज्ञशब्दोदितौ द्वौ तु देवौ लोकपुरस्कृतौ । एको नारायणस्तत्र रुद्रच्छिन्नस्तथापरः ।

स तु यज्ञाभिमानी स्यात्तत्पतिः केशवः स्मृतः॥ इति पाद्मे ॥ ४१-४५ ॥