Bhagavadgitabhashya/C8
अष्टमोऽध्यायः
मरणकालकर्तव्य-गत्याद्यस्मिन्नध्याये उपदिशति- उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते ।
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥१ ॥
अर्जुन उवाच
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन ।प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥२ ॥
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः॥३ ॥
श्रीभगवानुवाच
परमक्षरं (परं) ब्रह्म । वेदादिशङ्कानि(व्या)वृत्त्यर्थम् एतत् । आत्मन्यधि यत् तद् अध्यात्मम् । आत्माऽधिकारे यत् तदिति वा । तथा हि- जैवस्वभावः । स्वाख्यो भाव इति व्युत्पत्त्या जीवो वा स्वभावः । सर्वदा अस्त्येवैकप्रकारेणेति भावः । अन्तःकरणादिव्यावृत्त्यर्थो ‘भाव’शब्दः । न ह्येकप्रकारेण स्थितिरन्तःकरणादेः, विकारित्वात् । स्वशब्दः ईश्वरव्यावृत्त्यर्थः । भूतानाम्= जीवानाम्, भावानाम्= जडपदार्थानां चोद्भवकरेश्वरक्रिया विसर्गः । विशेषेण सर्जनम् = विसर्ग इत्यर्थः ॥ १-३ ॥
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ॥अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥ ४ ॥
भूतानि = सशरीरान् जीवान् अधिकृत्य यत् तद् अधिभूतम् । क्षरो भावः विनाशी कार्यः पदार्थः । अव्यक्तान्तर्भावेऽपि तस्याप्यन्यथाभावाख्यो विनाशोऽस्त्येव । तच्चोक्तम्- ‘अव्यक्तं परमे व्योम्नि (व्योमन्) निष्क्रिये सम्प्रलीयते।’ इति ।‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम।’ इति च ।‘विकारोऽव्यक्तजन्म हि’ इति च स्कान्दे ।पुरि शयनात् पुरुषो जीवः । स च सङ्कर्षणो ब्रह्मा वा । स सर्वदेवानधिकृत्य वर्तते पतिरिति अधिदैवतम् । देवाधिकारस्थ इति वा । देवान् इन्द्रियाण्यपेक्ष्य(भावरत्नकोशे स्वीकृतं भाष्यवाक्यम्)।
सर्वयज्ञभोक्तृत्वादेः अधियज्ञः । अन्योऽधियज्ञोऽग्न्यादिः प्रसिद्धः इति ‘देहे’ इति विशेषणम् ।‘भोक्तारं यज्ञतपसाम्’(५.२९), ‘त्रैविद्या माम्’(९.२०), ‘येऽप्यन्यदेवताभक्ताः’(९.२३), ‘एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः।’(बृ.५.८.९) इत्यादेः ।‘कुतो ह्यस्य ध्रुवः(वं) स्वर्गः कुतो नैःश्रेयसं परम्।’(म.भा.शां.प.३४२.२) इत्यादिपरिहाराच्च मोक्षधर्मे ॥ भगवान् चेत्, तद्भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति ‘कथम्’ इत्यस्य परिहारः पृथङ् नोक्तः । सर्वप्राणिदेहस्थरूपेण अधियज्ञः।
‘अत्र’ इति स्वदेहनिवृत्त्यर्थम् । न हि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति । नात्रोक्तं ब्रह्म भगवतोऽन्यत् । ‘ते ब्रह्म’(७.२९) इत्युक्त्वा ‘साधिभूताधिदैवं मां साधियज्ञं च ये विदुः’(७.३०) इति परामर्शात् । तस्यैव च प्रश्नात् । ‘साधियज्ञम्’ इति भेदप्रतीतेः तन्निवृत्त्यर्थम् ‘अधियज्ञोऽहम्’ इत्युक्तम् । ‘माम्’ इत्यभेदप्रतीतेः ‘अक्षरम्’ इत्येवोक्तम् । आह च गीताकल्पे- ‘देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः ।कर्मेश्वरस्य सृष्ट्याख्यं तच्चापीच्छाद्यमुच्यते ।अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते ।हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा ।ब्रह्म नारायणो देवः सर्वदेवेश्वरेश्वरः ॥’ इति ।
‘यथाप्रतीतं वा सर्वमत्र वै न विरुध्यते ॥’ इति च । स्कान्दे च - ‘आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते ।देहाद् बाह्यं विनाऽतीव बाह्यत्वादधिदैवतम् ।देवाधिकारगं सर्वं महाभूताधिकारगम् ।तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्’॥ इति । महाकौर्मे च - ‘अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम् ।‘सदेहजीवभूतानि यत् तेषामुपकारकृत् ।अधिभूतं तु मायान्तं देवानामधिदैवतम् ॥’ इति ॥४ ॥
अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् ।यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥५ ॥
मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तम्-‘मुक्तानां च गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पितः।’(म.भा.शां.प.३४२.४२) इति मोक्षधर्मे ॥ ५ ॥
यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।तं तमेवैति कौन्तेय सदा तद्भावभावितः॥६ ॥
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्॥७ ॥
स्मरन् त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदिति ‘अन्ते’ इति विशेषणम् । सुमतेर्नैव शङ्काऽवकाशः । ‘स्मरन् त्यजति’ इत्येककालीनत्वप्रतीतेः । दुर्मतेः दुःखान्न स्मरन् त्यजतीति भविष्यति शङ्का ।‘त्यजन् देहं न कश्चित्तु मोहमाप्नोत्यसंशयम्’ ।इति स्कान्दे ।
‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते । तेन प्रद्योतेनैष आत्मा निष्क्रामति॥’(बृ.६.४.२) इति हि श्रुतिः ।‘सदा तद्भावभावितः’ इति अन्तकालस्मरणोपायमाह । भावः= अन्तर्गतं मनः । तथाऽभिधानात् । भावितत्वम्= तिवासितत्वम् । ‘भावना त्वतिवासना’ इत्यभिधानात् ॥ ६, ७ ॥
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥८ ॥
सदा तद्भावभावितत्वं स्पष्टयति -अभ्यासेति ॥ अभ्यास एव योगो अभ्यासयोगः । दिव्यं पुरुषं पुरिशयं पूर्णं च ।
‘स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो। नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् ॥’(बृ.४.५.१८) इति श्रुतेः ।दिव्यं सृष्ट्यादिक्रीडादियुक्तम् । ‘दिवु = क्रीडा-.......’ इति धातोः ॥८ ॥
कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद् यः।सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात्॥ ९ ॥
ध्येयमाह- कविमिति ॥ कविं सर्वज्ञम् ,‘यः सर्वज्ञः...’(आथ.१.१०) इति श्रुतिः । ‘त्वं कविः सर्ववेदनात्’ इति च ब्राह्मे । धातारं धारणपोषणकर्तारम् । ‘डुधाञ्= धारणपोषणयोः’ इति धातोः । ‘धाता विधाता परमोत सन्दृक्’(कृ.य.का.५.प्र.७.अनु.४) इति च श्रुतिः ।‘ब्रह्मा स्थाणुः’ इत्यारभ्य ‘तस्य प्रसादादिच्छन्ति तदादिष्टफलं गतिम्।’(म.भा.शां.प.३३४.३४-३९) इति च मोक्षधर्मे । तमसः अव्यक्तात् परतः स्थितम्- तमसः परस्तादिति ॥ अव्यक्तं वै तमः, परस्ताद्धि स ततः’ इति पिप्पलादशाखायाम् । ‘मृत्युर्वा व तमः’ , मृत्युर्वै ज्योतिरमृतम्’(बृ.३.३.२९) इति श्रुतेः ॥९ ॥
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
वायुजयादियोगयुक्तानां मृतिकालकर्तव्यमाह विशेषतः - प्रयाणकाल इति ॥ वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यसम्पूर्णानां भवत्येव मुक्तिः । तद्वतां तु ईषज्ज्ञानाद्यसम्पूर्णानामपि निपुणानां तद्बलात् कथञ्चिद् भवतीति विशेषः । उक्तं च भागवते- ‘पानेन ते देवकथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वाऽऽपुरकुण्ठधिष्ण्यम् ॥ तथाऽपरे (परे) त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् ।त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्नतु सेवया ते।’(भाग.३.६.२४-२५)इति ॥ ‘ये तु तद्भाविता लोके ह्येकान्तित्वं समास्थिताः । एतदभ्यधिकं तेषां यत्ते तं (तत् तेजः) प्रविशन्त्युत ॥’(म.भा.शां.प.३४२.४५) इति च मोक्षधर्मे ।‘सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः ।नियमेन तथाऽपीरजयादियुतयोगिनाम् ।वश्यत्वान्मनसस्त्वीषत् पूर्वमप्याप्यते ध्रुवम् ॥’ इति च व्यासयोगे ।॥१० ॥
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
तदेव सध्येयं प्रपञ्चयति -यदक्षरमित्यादिना ॥ प्राप्यते मुमुक्षुभिरिति पदं स्वरूपम् । ‘पद= गतौ’ इति धातोः ।‘तद् विष्णोः परमं पदम्’(ऋ.मं.१.सू.२२.मं.७) इति श्रुतेश्च ।‘गीयसे पदमित्येव मुनिभिः पद्यसे यतः।’ इति वचनान्नारदीये ॥११ ॥
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।मूर्ध्न्याधायाऽत्मनः प्राणम् आस्थितो योगधारणाम्॥१२ ॥
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥१३ ॥
ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्य। ‘निर्गच्छन् चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि’ इत्यादिवचनात् व्यासयोगे, मोक्षधर्मे च । हृदि नारायणे ।‘ह्रियते त्वया जगद् यस्माद्धृदित्येव प्रभाष्यसे’इति हि पाद्मे। न हि मूर्ध्नि प्राणे (प्राणस्थितेः) हृदि मनसः स्थितिः सम्भवति । ‘यत्र प्राणो मनस्तत्र तत्र जीवः परस्तथा।’ इति व्यासयोगे । योगधारणामास्थितः योगभरण एवाभियुक्त इत्यर्थः ॥ १२, १३ ॥
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः॥१४ ॥
नित्ययुक्तस्य नित्योपायवतः । योगिनः परिपूर्णयोगस्य ॥ १४ ॥
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।नाऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥१५ ॥
तत्प्राप्तिं स्तौति - माम् इति ॥ ‘परमां (सं)सिद्धिं गता हि ते’ इति तत्र हेतुः ॥ १५ ॥
आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥१६ ॥
महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः । तच्चोक्तं नारायणगोपालकल्पे-‘आ मेरुब्रह्मसदनाद् आजनान्न जनिर्भुवि ।तथाऽप्यभावः सर्वत्र प्राप्यैव वसुदेवजम् ॥’ इति ॥१६ ॥
सहस्रयुगपर्यन्तम् अहर्यद्ब्रह्मणो विदुः ।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥१७ ॥
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके॥१८ ॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे॥१९ ॥
परस्तस्मात्तु भावोऽन्योऽव्यक्तो व्यक्तात्सनातनः ।यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥२० ॥
‘मां प्राप्य न पुनरावृत्तिः’ इति स्थापयितुम् अव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति - सहस्रयुगेत्यादिना ॥ सहस्रशब्दोऽत्रानेकवाची । ब्रह्म परम् । ‘सा विश्वरूपस्य रजनी’ इति हि श्रुतिः । द्विपरार्धप्रलय एवात्र विवक्षितः । ‘अव्यक्ताद् व्यक्तयः सर्वाः’(८.१८) इत्युक्तेः । उक्तं च महाकौर्मे- ‘अनेकयुगपर्यन्तम् अहर्विष्णोस्तथा निशा ।रात्र्यादौ लीयते सर्वमहरादौ च जायते ॥’ इति ।‘यः स सर्वेषु भूतेषु’ इति वाक्यशेषाच्च ॥ १७-२० ॥
अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां गतिम् ।यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥२१ ॥
अव्यक्तः भगवान् । ‘यं प्राप्य न निवर्तन्ते’ इति ‘मामुपेत्य’(८.१६) इत्युक्तस्य परामर्शात् । ‘अव्यक्तं परमं विष्णुः’ इति प्रयोगाच्च गारुडे । धाम स्वरूपम् । ‘तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते’ इत्यभिधानात्॥ २१ ॥
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥२२ ॥
परमसाधनमाह- पुरुष इति ॥ २२ ॥
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥२३ ॥
यत्कालाद्यभिमानिदेवतागता आवृत्त्यनावृत्ती गच्छन्ति ता आह - यत्रेत्यादिना ॥ ‘काले’ इत्युपलक्षणम् । अग्न्यादेरपि वक्ष्यमाणत्वात् ॥२३ ॥
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥२४ ॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥२५ ॥
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।एकया यात्यनावृत्तिम् अन्ययाऽऽवर्तते पुनः॥२६ ॥
ज्योतिः अर्चिः । ‘ते अर्चिषमभिसम्भवन्ति’(छा.५.४.१)इति हि श्रुतिः । तथा च नारदीये- ‘अग्निं प्राप्य ततश्चार्चिः ततश्चाप्यहरादिकम्।’ इति ।अभिमानिदेवताश्च अग्न्यादयः । कथमन्यथा ‘अह्न आपूर्यमाणपक्षम्’ इति युज्येत ।
‘दिवादिदेवताभिस्तु पूजितो ब्रह्म याति हि।’ इति च ब्राह्मे ।मासाभिमानिभ्यो अयनाभिमानिनी च पृथक् । तच्चोक्तं गारुडे- ‘पूजितस्त्वयनेनासौ मासैः परिवृतेन हि’ इति ।तच्चोक्तं ब्रह्मवैवर्ते- ‘साह्ना मध्यन्दिनेनाथ शुक्लेन च स पूर्णिमा ।सविष्वा चायनेनासौ पूजितः केशवं व्रजेत् ॥’ इति ॥ २४-२६ ॥
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥२७ ॥
वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ।
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः ॥
एते सृती सोपाये ज्ञात्वाऽनुष्ठाय न मुह्यति । तच्चाह स्कान्दे- ‘सृती ज्ञात्वा तु सोपाये अनुष्ठाय च साधनम् ।न कश्चित् मोहमाप्नोति न चान्या तत्र वै गतिः ॥’ इति ॥ २७-२८ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये अष्टमोऽध्यायः ॥