Bhagavadgitabhashya/C7
सप्तमोऽध्यायः
साधनं प्राधान्येनोक्तम् अतीतैरध्यायैः । उत्तरैस्तु षड्भिः भगवन्माहात्म्यं प्राधान्येनाह- भगवन्महिमा विशेषत उच्यते ।
मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः ।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु॥१ ॥
श्रीभगवानुवाच
आसक्तमनाः अतीव स्नेहयुक्तमनाः । मदाश्रयः ‘भगवानेव मया सर्वं कारयति, स एव च मे शरणम्, तस्मिन्नेव चाहं स्थितः’ इति स्थितः । ‘असंशयम्’, ‘समग्रम्’ इति क्रियाविशेषणम् ॥ १ ॥
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥२ ॥
इदं मद्विषयं ज्ञानम् । विज्ञानं विशेषज्ञानम् ॥ २ ॥
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥३ ॥
दौर्लभ्यं ज्ञानस्याह -मनुष्याणामिति ॥ ३ ॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥४ ॥
प्रतिज्ञातं ज्ञानमाह - भूमिरित्यदिना ॥ महतोहङ्कार एवान्तर्भावः ।॥४ ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।जीवभूतां महाबाहो ययेदं धार्यते जगत्॥५ ॥
अपरा अनुत्तमा। वक्ष्यमाणामपेक्ष्य । जीवभूता श्रीः । जीवानां प्राणधारिणी । चिद्रूपभूता सर्वदा सती । ‘एतन्महद्भूतम्’ इति श्रुतेः । जगाद च- ‘प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा । अव्यक्ताख्या जडा सा च सृष्ट्या भिन्नाऽष्टधा पुनः ।महान् बुद्धिर्मनश्चैव पञ्चभूतानि चेति हि ।अव(प)रा सा जडा श्रीश्च परेयं धार्यते तया ।चिद्रूपा सा त्वनन्ता च अनादिनिधना परा ।यत्समं तु प्रियं किञ्चिन्नास्ति विष्णोर्महात्मनः ।नारायणस्य महिषी माता सा ब्रह्मणोऽपि हि ।ता(आ)भ्यामिदं जगत् सर्वं हरिः सृजति भूतरा ॥’ इतिनारदीये ॥५॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥६ ॥
न केवलं ते जगत् प्रकृती मद्वशे इत्येतावन्मदैश्वर्यमित्याह -अहमिति ॥ प्रभवादेः सत्ताप्रतीत्यादिकारणत्वात्, तद्भोक्तृत्वाच्च प्रभव इत्यादि । तथा च श्रुतिः- ‘सर्वमकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः’(छा.३.२.९) इति । आह च - ‘स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता ।यतः सर्वस्य तेनाहं सर्वोऽसीत्यृषिभिः स्तुतः ।सुखरूपस्य भोक्तृत्वान्न तु सर्वस्वरूपतः ।आगमिष्यत् सुखं चापि तस्यास्त्येव सदाऽपि तु ।तथाऽप्यचिन्त्यशक्तित्वाज्जातं सुखमि(म)तीव च’ ॥ इति नारदीये ॥६॥
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥७ ॥
अहमेव परतरः । मत्तोऽन्यत् परतरं न किञ्चिद् अपि । (इदं ज्ञानम्) ॥ ७ ॥
रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ।प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु॥८ ॥
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥९ ॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्॥१० ॥
बलं बलवतां (चाहं) अस्मि कामरागविवर्जितम् ।धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥११ ॥
इदं ज्ञानम्। ‘रसोऽहम्’ इति (इत्यादि)विज्ञानम् । अबादयोऽपि तत एव । तथाऽपि रसादिस्वभावानां साराणां (रसानां) च स्वभावत्वे सारत्वे च विशेषतोऽपि स एव नियामकः । न त्वबादिनियमानुबद्धो रसादिः तत्सारत्वादिश्चेति दर्शयति ‘अप्सु रसः’ इत्यादिविशेषशब्दैः । भोगश्च विशेषतो रसादेरिति, उपासनार्थं च । उक्तं गीताकल्पे- ‘रसादीनां रसादित्वे स्वभावत्वे तथैव च ।सारत्वे सर्वधर्मेषु विशेषेणापि कारणम् ।सारभोक्ता च सर्वत्र यतोऽतो जगदीश्वरः ।रसादिमानिनां देहे स सर्वत्र व्यवस्थितः ।अबादयः पार्षदा एव ध्येयः स ज्ञानिनां हरिः ।रसादिसम्पत्त्या अन्येषां वासुदेवो जगत्पतिः ॥’ इति । ‘स्वभावो जीव एव च’(भाग.१.१०.१२), ‘सर्वस्वभावो नियतस्तेनैव किमुतापरम्(किमतः परम्)।’, ‘न तदस्ति विना यत् स्यान्मया भूतं चराचरम्’(१०.३९) । इति च ।‘धर्माविरुद्धः’, ‘कामरागविवर्जितम्’ इत्याद्युपासनार्थम् । उक्तं च गीताकल्पे- ‘धर्माविरुद्धकामेऽसावुपास्यः काममिच्छता ।विहीने कामरागादेर्बले च बलमिच्छता ।ध्यातस्तत्र त्वनिच्छद्भिर्ज्ञानमेव ददाति सः ॥’ इत्यादि ।
‘पुण्यो गन्धः’ इति भोगापेक्षया च । तथाहि श्रुतिः - ‘पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति’(बृ.३.६.२७), ‘ऋतं पिबन्तौ सुकृतस्य लोके’(कठ.१.७.१) इत्यादिका । ऋतं च पुण्यम्- ‘ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते’इत्यभिधानात् । ‘ऋतं तु मानसो धर्मः सत्यं स्यात् सम्प्रयोगगः’ इति च । न च ‘अनश्नन्नन्यो अभिचाकशीति’(आथ.३.१.१), ‘अन्यो निरन्नोऽपि बलेन भूयान्’(भाग.११.११.६) इत्यादिविरोधः । स्थूलानशनोक्तेः । आह च सूक्ष्माशनम्- ‘प्रविविक्ताऽहारतर इवैष भवत्यस्माच्छारीरादात्मनः’(बृ.६.२.३) इति । न चात्र जीव उच्यते । ‘शारीरादात्मनः’इति भेदाभिधानात् । स्वप्नादिश्च शारीर एव - ‘शारीरस्तु त्रिधा भिन्नो जाग्रदादिष्ववस्थितेः’ इति वचनाद् गारुडे । ‘अस्मात्’ इतीश्वरव्यावृत्त्यर्थम्-‘शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसंज्ञितः ।अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपरः ॥’ इति वचनान्नारदीये ।भेदश्रुतेश्च । सति गत्यन्तरे पुरुषभेद एव कल्प्यः, न त्ववस्थाभेदः । आह च - ‘प्रविविक्तभुग् यतो ह्यस्माच्छारीरात् पुरुषोत्तमः ।अतोऽभोक्ता च भोक्ता च स्थूलाभोगात् स एव तु ॥’इति गीताकल्पे ॥ ८-१० ॥
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि॥१२ ॥
‘न त्वहं तेषु’ इति तदनाधारत्वमुच्यते । उक्तं च-‘तदाश्रितं जगत् सर्वं नासौ कुत्रचिदाश्रितः’ ।इति गीताकल्पे ॥ १२ ॥
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥१३ ॥
तर्हि कथमेवं न ज्ञायसे ? इत्यत आह -त्रिभिरिति ॥ तादात्म्यार्थे मयट् । तच्चोक्तम्- ‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’। इति । नहि गुणकार्यभूता माया । ‘गुणमयी’ इति च वक्ष्यति । सिद्धं च कार्यस्यापि तादात्म्यम्- ‘तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः’ । इति व्यासयोगे ।
भावैः पदार्थैः । सर्वे भावा दृश्यमाना गुणमया एत इति दर्शयति- एभिरिति
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥१४ ॥
कथमनादिकाले मोहानत्ययो बहूनाम्? इत्यत आह- दैवीति ॥ अयमाशयः - माया हि एषा मोहिका । सा च सृष्ट्यादिक्रीडादि- मद्देवसम्बन्धित्वाद् अतिशक्तेर्दुरत्यया । तथाहि देवशब्दार्थं पठन्ति- ‘दिवु=क्रीडा-विजिगीषा-व्यवहार-द्युति-स्तुति-मद-मोद-स्वप्न-कान्ति-गतिषु’ इति । कथं दैवी ? मदीयत्वात् । अहं हि देव इति । अब्रवीच्च- ‘श्रीर्भूर्दुर्गेति या भिन्ना महामाया तु वैष्णवी । तच्छक्त्यनन्तांशहीनाऽथापि तस्याश्रयात् प्रभोः ।अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिकलाऽपि हि ।तेषां दुरत्ययाऽप्येषा विना विष्णुप्रसादतः ॥’ इति व्यासयोगे । तर्हि न कथञ्चिदत्येतुं शक्यते? इत्यत आह- मामेवेति ॥ अन्यत् सर्वं परित्यज्य मामेव ये प्रपद्यन्ते, गुर्वादिवन्दनं च मय्येव समर्पयन्ति । स एव च तत्र स्थित्वा गुर्वादिर्भवतीत्यादि पश्यन्ति । आह च नारदीये- ‘मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा नराः । मदुपाधितया तांश्च सर्वभूतानि चोत्तमाः ॥’इति । ‘आचार्यचैत्यवपुषा स्वग(तं)तिं व्यनङ्क्षि’(भाग.११.२९.६)। इति च ॥१४ ॥
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः॥१५ ॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥१६ ॥
तर्हि किमिति सर्वेऽपि नात्यायन्? इत्यत आह - न मामिति ॥ दुष्कृतित्वात् मूढाः । अत एव नराधमाः। अपहृतज्ञानत्वाच्च मूढाः । अत एव आसुरं भावमाश्रिताः । स च वक्ष्यते- ‘प्रवृत्तिं च निवृत्तिं च’(१६.७) इत्यादिना । अपहारः= अभिभवः । उक्तं चैतद् व्यासयोगे- ‘ज्ञानं स्वभावो जीवानां मायया ह्यभिभूयते’। इति । असुषु रता असुराः । तच्चोक्तं नारदीये- ‘ज्ञानप्रधाना देवास्तु असुरास्तु रता असौ’ ।। इति ॥ १५, १६ ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥१७ ॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥१८ ॥
एकस्मिन्नेव भक्तिरित्येकभक्तिः । तच्चोक्तं गारुडे- ‘मय्येव भक्तिर्नान्यत्र एकभक्तिः स उच्यते।’ इति ॥ १७, १८ ॥
बहूनां जन्मनामन्ते ज्ञानावान्मां प्रपद्यते ।वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥१९ ॥
बहूनां जन्मनामन्ते ज्ञानवान् भवति । तच्चोक्तं ब्राह्मे- ‘जन्मभिर्बहुभिः ज्ञात्वा ततो मां प्रतिपद्यते’। इति ॥ १९ ॥
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।तं तं नियममास्थाय प्रकृत्या नियताः स्वया॥२० ॥
प्रकृत्या स्वभावेन,- ‘स्वभावः प्रकृतिश्चैव संस्कारो वासनेति च’। इत्यभिधानात् ॥ २० ॥
यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति ।तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥२१ ॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।लभते च ततः कामान् मयैव विहितान् हि तान्॥२२ ॥
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि॥२३ ॥
यां यां ब्रह्मादिरूपां तनुम् । उक्तं च नारदीये-‘अन्तो ब्रह्मादिभक्तानां मद्भक्तानामनन्तता’। इति ।‘मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः’।(म.भा.शां.प.३४२.३) इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु ।‘अवतारे महाविष्णोर्भक्तः कुत्र च मुच्यते’ । इत्यादेश्च ब्रह्मवैवर्ते ॥॥ २१-२३ ॥
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।परं भावमजानन्तो ममाव्ययमनुत्तमम्॥२४ ॥
को विशेषस्तवान्येभ्यः ? इत्यत आह -अव्यक्तमिति ॥ कार्यदेहादिवर्जितः(तम्) । तद्वानिव प्रतीयस इत्यत आह -व्यक्तिमापन्नमिति ॥ कार्यदेहाद्यापन्नम् । तच्चोक्तम्- ‘सदसतः परम्’ ,‘न तस्य कार्यम्(श्वे.उ.६,८)’ ,‘अपाणिपादः’(श्वे.उ.३,१९) ,‘आनन्ददेहं पुरुषं मन्यन्ते गौणदेहिकम्’ इत्यादौ । भावं याथार्थ्यम् । (तच्चा)तथाऽब्रवीत्-‘याथातथ्यमजानन्तः परं तस्य विमोहिताः’ । इति ॥ २४ ॥
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।मूढोऽयं नाभिजानाति लोको मामजमव्ययम्॥२५ ॥
अज्ञानं च मदिच्छयेत्याह -नाहमिति ॥ योगेन= सामर्थ्योपायेन, मायया च । मयैव मूढो नाभिजानाति । तथाऽऽह पाद्मे-‘आत्मनः प्रावृतिं चैव लोकचित्तस्य बन्धनम् ।स्वसामर्थ्येन देव्या च कुरुते स महेश्वरः ॥’ इति ॥२५ ॥
वेदाहं समतीतानि वर्तमानानि चार्जुन ।भविष्याणि च भूतानि मां तु वेद न कश्चन॥२६ ॥
न च मां माया बध्नातीत्याह -वेदेति ॥ न कश्चन अतिसमर्थोऽपि स्वसामर्थ्यात् ॥ २६ ॥
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।सर्वभूतानि संमोहं सर्गे यान्ति परन्तप॥२७ ॥
द्वन्द्वमोहेन सुखदुःखादिविषयमोहेन । इच्छाद्वेषयोः प्रवृद्धयोर्न हि किञ्चिज्ज्ञातुं शक्यम् । कारणान्तरमेतत् । सर्गे सर्गकालं आरभ्यैव । शरीरे हि सति (सन्ति) इच्छादयः । पूर्वं त्वज्ञानमात्रम् ॥ २७ ॥
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥२८ ॥
विपरीताश्च केचित् सन्तीत्याह - येषामिति ॥ २८ ॥
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्॥२९ ॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः॥३० ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥
‘जरामरणमोक्षाय’ इत्यन्यकामनिवृत्त्यर्थम् । मोक्षे सक्तिस्तुत्यर्थं वा । न विधिः । ‘मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्’ । इतीतरस्तुतेः नारदीये ।‘नात्यन्तिकम्’(भाग.३.१६.४८) इति च ।
‘देवानां गुणलिङ्गानाम् आनुश्राविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ।अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥’(भाग.३.२६.३२-३३)इति भागवते लक्षणाच्च ।
आह च- ‘सर्वे वेदास्तु देवार्था देवा नारायणार्थकाः ।नारायणस्तु मोक्षार्थे मोक्षो नान्यार्थ इष्यते ।एवं मध्यमभक्तानाम् एकान्तानां न कस्यचित् ।अर्थे नारायणो देवस्त्वन्यत् सर्वं तदर्थकम् ॥’ इति गीताकल्पे ।
त एव च विदुः । ‘यमेवैष वृणुते’(आथ.४.१.३)इति श्रुतेः ॥ २९, ३० ॥॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये सप्तमोध्यायः ॥