Jump to content

Anuvyakyanam/C4/S4

From Grantha
Revision as of 18:58, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

चतुर्थः पादः

अतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः ॥1॥

समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षके ।सामान्यरूपं प्रतिभानमुक्तिराश्चर्यता कृत्रिमतास्तदोषः ॥2॥ विशेषक्लृतिः कृतनिश्चयश्च माहात्म्यमित्येव सुनिर्णयार्थाः ।

अनन्याधिपत्त्यधिकरणम्

अनन्यभृत्यत्वमिहोदितेभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ॥3॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य चतुर्थः पादः ॥