Jump to content

Anuvyakyanam/C3/S1

From Grantha
Revision as of 18:58, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

प्रथमः पादः

स्वाभाविकान्यथानामसहभावान्ययोक्तयः ॥1॥

अविशेषविशेषौ च सहभाIो विमिश्रता ।विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ॥ 2 ॥

युक्तयः पूर्वपक्षस्य गुणाधिक्यर्थतो भवौ ।उपपत्तिद्विरूपत्वमाधिक्यमनुरूपता ॥3॥

योग्यता बलवत्त्वं च विभागः कारणाभवः ।क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥4॥

बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम् ।अथशब्देन भगवानाह कारणतश्च ताम् ॥4॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥