Bhagavadgitatatparya/C1
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् । नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ॥ शास्त्रेषु भारतं सारं तत्र नामसहस्रकम् । वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेञ्जसा ॥ न भारतसमं शास्त्रं कुत एवानयोः समम् । भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ॥ देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः । व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् । महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते ॥ निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते । स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः ॥ अर्थितो व्यासतां प्राप्य केवलं तत्त्वनिर्णयम् । चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम् ॥ इति ब्रह्माण्डे । तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतमर्जुनं क्षत्रियाणां विशेषतोपि परमधर्मं नारायणद्वितदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मः, तद्विरुद्धः सर्वोप्यधर्मः, भगवदधीनत्वात् सर्वस्येति बोधयति भगवान् नारायणः । सर्वं चैतदत्रैवावगम्यते - अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ (२-३३) इत्यादिना युद्धस्य स्वधर्मत्वम् । यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिदि्धं विन्दति मानवः ॥ (१८-४६) श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ (१८-४७) सर्वगुह्यतमं भूयः शृृणु मे परमं वचः । इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ (१८-६४-६६) इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च । नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ (११-५३, ५४) इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोर्ज्ञानिनोपि मोक्षस्य तदधीनत्वं च । मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ (११-५५) इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ।" (४-१५) इत्यादिना ज्ञानिनोपि भगवत्कर्म । सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ (११-५२) इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् । (१८-६४) दैवीसम्पद्विमोक्षाय निबन्धायासुरी मता । मा शुचः सम्पदं दैवीमभिजातोसि पाण्डव ॥ (१६-५) महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ (९-१३) 'दर्शयात्मानमव्ययं दर्शयामास पार्थाय परमं रूपमैश्वरम् । (११-९) इत्यादिनार्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं च । न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ बुदि्धर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । (१०, २-४) 'महर्षयः सप्त पूर्वे ... । (१०-६) 'एतां विभूतिं योगं च ... । (१०-७) अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ (१०-८) 'तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयामि (१०-११) 'तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । (१२-७) भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ (५-२९) ज्ञानं तेहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते ॥ (७-२) अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ॥ मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव । (७-६,७) इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ॥ ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेशुभात् । 'राजविद्या राजगुह्यम् ... । (९-१,२) मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ (९-४) 'भूतभृन्न च भूतस्थः ... । (९-५) 'न त्वत्समोस्त्यभ्यधिकः कुतोन्यः (११-४३) परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । (१४-१) मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ॥ सम्भवः सर्वभूतानां ततो भवति भारत । (१४-३) ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ॥ शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च । (१४-२७) द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः । अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद् भजति मां सर्वभावेन भारत ॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुध्वा बुदि्धमान् स्यात्कृतकृत्यश्च भारत ॥ (१५, १६-२०) न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यम् ... ॥ (३-२२) इत्यादिना सर्वस्माद् भगवतो भेदः, सर्वस्य तदधीनत्वं, तस्यानन्याधीनत्वं, सर्वोत्तमत्वं, सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं, तथा तज्ज्ञानादेव मोक्ष इत्यादि । 'अधा ते विष्णो विदुषा• चिदर्ध्यः स्तोमो• यज्ञश्च राध्यो• हविष्म•ता । (ऋ.मं १, सू. १५६-१) पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन् । यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात् । भक्त्या प्रसन्नः परमो दद्याज्ज्ञानमनाकुलम् । भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत् ॥ ततोपि भूयसीं भक्तिं दद्यात्ताभ्यां विमोचयेत् मुक्तोपि तद्वशो नित्यं भूयो भक्तिसमन्वितः । सान्द्रानन्दस्वरूपैव भक्तिर्नैवात्र साधनम् ब्रह्मरुद्ररमादिभ्योप्युत्तमत्वं स्वतन्त्रताम् ॥ सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम् । निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः ॥ स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमोत्तमः । तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम् ॥ अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः । अधिकार्युत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः । नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः । तिरोहितं तथाप्येते शृण्वन्ति क्रीडयाथवा ॥ बहुवारतदभ्यासात्तिरोभावोपि नो भवेत् । यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम् ॥ पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम् । अस्य देवस्य मी•हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विना विरावत् ॥ (ऋ. ७-४०-५) 'एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वा समचिन्तयत्तत एते व्यजायन्त विश्वो हिरण्यगर्भोग्निर्यमो वरुणरुद्रेन्द्रा इति ।श्व 'एको नारायण आसीन्न ब्रह्मा नेशानः । 'वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः । 'यं यं कामयते विष्णुस्तं ब्रह्माणं च शङ्करम् । शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्तास्य न क्वचित् ॥ सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् । अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोतः ॥ इति पैङ्गिश्रुतिः । 'परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । (ऋ. ६-९९-१) 'अनन्तगुणमाहात्म्यो निर्दोषो भगवान् हरिः । न समो वाधिको वापि विद्यते तस्य कश्चन । नासीन्न च भविष्यो वा परतः स्वत एव च । इत्यादिश्रुतेश्च । 'यस्त्वात्मरतिरेव स्याद् इत्यादि तु मुक्तविषयम् । यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्ति हि । तस्मात् कुर्वीत कर्माणीत्याह कृष्णोर्जुनं स्मयन् ॥ इति च स्कान्दे । ज्ञानयोगेन साङ्ख्यानाम् इत्यादि तु बाह्यकर्मसङ्कोचापेक्षया । न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । (३-५) शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः । (३-८) एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् । (१८-६) 'ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत । न सर्वकर्मणां त्यागः कस्यचिद् भवति क्वचित् । त्यागिनो यतयोपि स्युः सङ्कोचाद् बाह्यकर्मणाम् । इत्यादि । 'उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः इत्यादि चोत्पन्नज्ञानतिरो-भावनिवृत्त्यर्थम् ॥