Jump to content

Bhagavatatatparyanirnaya/C10/S5

From Grantha
Revision as of 09:42, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
मा शोचेथां महाभागावात्मजान् स्वकृतं भुजः ।जन्तवो न सदैकत्र दैवाधीनाः सहासते ॥ १८ ॥


पूतनाकंसनरकशिशुपालादिषु द्विधा ।

जीवाः सन्तस्त्वसन्तश्च तत्र बन्ध्वादिरूपिणः ॥ विष्णोः सन्त इति ज्ञेया असन्तः शत्रुरूपिणः । शुभजीवप्रकाशेन कदाचिच्छुभबुद्धयः ॥ विपर्ययेऽन्यथा च स्युः शुभास्तत्र हरिं ययुः । असुराश्च तमो घोरं यदि तत्रैव मध्यमाः । ।

मध्यमां गतिमेवापुरेकदेहगता अपि ॥ इति गारुडे ॥ १८ ॥
भुवि भौमानि भूतानि यथाऽऽयान्त्यपयान्ति च ।नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥


यतोऽनेकविधोऽभेदो यत आत्मविपर्ययः । देहयोगवियोगश्च संसृतिर्न निवर्तते ॥ २० ॥


तस्माद् भद्रे स्वतनयान् मया व्यापादितानपि । माऽनुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥


अयमात्मा परमात्मा ॥

यतः परमात्मनो नैकविधमैक्यं, विपरीतज्ञानेन यतश्च संसृतिर्न निवर्तते । स एव न विपर्येति । पुत्रादिकं तु विपर्येति ॥ तस्मात्तस्मिन्नेव स्थितिं कृत्वा माऽनुशोच ॥ 'अहं ब्रह्मास्मि देवोऽस्मि नास्मि केवलमानुषः । जातोऽस्मि वर्धे धनवान्म्रिय इत्यादिका सदा ॥ देहादिषु च देवेषु परे ब्रह्मणि चाभिदा । मोहाद्यन्मायया नित्यं दृश्यतेऽधममध्यमे ॥ स ईशो न विपर्येति सर्वेशत्वात्कदाचन । पुत्रादिकं विपर्येति पित्रादिश्च यतो भवेत्॥ इति ब्राह्मे ॥ 'तल्लक्षणैर्विहीनः सन्ब्रह्मदेवोऽस्मि चेति तु । असुराः प्रतिपद्यन्ते जन्मादीन्मानुषा जनाः॥ इति च ॥ 'परं ब्रह्मण एकस्य ब्रह्मास्मीति विचिन्तनम् । परब्रह्मेति रामादिलक्षणैरवधारयेत् ॥ देवोऽस्मीति च देवानां तच्च ज्ञेयं स्वलक्षणैः । मर्त्यानां मानुषोऽस्मीति प्रतिपत्तिर्विधीयते ॥ अन्यथाप्रतिपत्त्या तु तमो यान्ति विनिश्चयात् । अन्यथा प्रतिपद्यन्ते आसुरा नियतं जनाः ॥

घोरं तमश्च ते यान्ति तथा ज्ञानात्परं सुराः॥ इति च ॥१९-२१॥
एवमेतन्महाराज यथा वदसि देहिनाम् ।अज्ञानप्रभवा हन्ति स्वपरेति भिदा यतः ॥ २६ ॥


देहिनामज्ञानप्रभवा यातनाः स्वपरेति भिदा हन्ति ।

'देवोऽहं मानुषो वेति विशेषं तत्र चापि तु । तथैव परमात्मानं विशेषं ब्रह्मजीवयोः ॥ सम्यग्भेदेन यः पश्येत्स हन्त्यज्ञानसम्भवाः ।

यातनाः परमात्मानं तत्प्रसादाच्च गच्छति॥ इति ब्रह्माण्डे ॥ २६ ॥
शोकहर्षभयद्वेषलोभमोहमदान्विताः ।मिथो घ्नन्तो न पश्यन्ति भावैर्भावान् पृथग्दृशः ॥ २७ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चमोऽध्यायः ॥
'भगवद्दर्शनाद्यस्य विरोधाद्दर्शनं पृथक् ।

पृथग्दृष्टिः स विज्ञेयो न तु सद्भेददर्शनः॥ इति च भविष्यत्पुराणे ॥ 'स्वरूपभेदो हि परजीवयोर्जीवगो मिथः । परस्परेण वस्तूनां विशेषः शास्त्रदर्शितः ॥ सद्भेदोऽयं समुद्दिष्टस्त्वसद्भेदं च मे शृृणु । स्वरूपाणां गुणानां च विष्णोर्भेदः परस्परात् ॥ सर्वस्याविष्णुतन्त्रत्वं शत्रुमित्रादिभेदिता । यच्चान्यच्छास्त्रविद्विष्टमसद्भेदः स ईरितः ॥ सद्भेददर्शनान्मोक्षस्त्वसद्भेदात्तमो व्रजेत् ।

सद्भेदादर्शनाच्चैव तमो मोक्षस्तथेतरात्॥ इति च ॥ २७ ॥