Bhagavatatatparyanirnaya/C7/S15
Appearance
कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १४ ॥
नभश्छदिः नभोव्याप्यस्थितः परमात्मा ॥ १४ ॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २२ ॥
'सप्तम्यादित्रयं चैव तथा चैत्रत्रयोदशी ।
चतस्रस्त्वष्टकाः प्रोक्ताः सर्वपक्षाद्विशेषतः॥ इति च व्यासस्मृतौ ॥
'हेमन्ते शिशिरे चैव नित्यश्राद्धं गुणोत्तरम्। इति च ॥ २२ ॥पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः ।शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३८ ॥
जीवेन रूपेण सह ॥ ३८ ॥
तेष्वीशो भगवान् राजन् तारतम्येन वर्तते ।तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३९ ॥
ब्रह्मादिस्थावरान्तेषु न विशेषो हरेः क्वचित् ।
व्यक्तिमात्रविशेषेण तारतम्यं वदन्ति च॥ इति च ॥ ३९ ॥
पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४२ ॥
तन्वोऽस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः ।पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे पञ्चदशोऽध्यायः ॥
'शिलावत्प्रतिमाः सन्तो विप्राद्याश्च हरेः स्मृताः॥
इति च ॥ ४२-४३ ॥