Jump to content

Anuvyakyanam/C3/S3

From Grantha
Revision as of 09:38, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।आपरोक्ष्यं भवेत् विष्णोरिति पादक्रमो भवेत् ॥1॥

युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।परस्परविरोधं(धे) च प्रणुद्याशेषवाक्यगम् ॥2॥

अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः ।बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः ॥3॥

विरोधं च निराकृत्य श्रुतीनां प्राणतत्वगान् ।परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥4॥

देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥5॥

निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥6॥

सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥7॥

कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥8॥

सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः ॥9॥

इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ।येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ॥10॥

सुप्रसन्नो भवेदीशो जिज्ञासाऽतोऽस्य मुक्तिदा ।मोक्षादिदत्वमीशस्य कथमेवावगम्यते ॥11॥

इति चेच्छास्त्रयोनित्वात् शास्त्रगम्यो हि मोक्षदः ।प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ॥12॥

किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ।यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ॥13॥

धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ।अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि ॥14॥

दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ।तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ॥15॥

शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ।मोक्षदो हि स्वतन्त्रः स्यात् परतन्त्रः स्वयं सृतौ ॥16॥

वर्तमानः कथं शक्तः परमोक्षाय केवलम् ।अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ॥17॥

तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः ।अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः ॥18॥

‘यमेवैष’ इति श्रुत्या ‘तमेवे’ति च सादरम् ।शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥19॥

‘य एनं विदुरमृता’ इत्युक्तस्तु समुद्रगः ।‘तदेव ब्रह्म परममि’ति श्रुत्यावधारितः ॥20॥

‘यतः प्रसूते’ति ततः सृष्टिमाह ततो हरिः ।शास्त्रयोनिर्न चान्योऽस्ति मुख्यतस्त्विति गम्यते ॥21॥

शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।समिति ह्युपसर्गेन परमुख्यार्थतोच्यते ॥22॥

एवं परममुख्यार्थो नारायण इति श्रुतेः ।निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥23॥

कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।‘वेदा ह्यनन्ता’ इति हि श्रुतिराहाप्यनन्ताम् ॥24॥

अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः ।उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥25॥

इत्याशङ्कापनोदार्थं(इति शङ्कापनोदार्थं) स आह करुणाकरः ।अशक्योत्तारणत्वेऽपि(अशक्योत्तरणत्वेऽपि) ह्यागमापारवारिधेः ॥26॥

निर्णीयते मयैवायं रोमकूपलयोदिना ।यद्यप्यशेषवेदार्थो दुर्गमोऽखलिमानवैः ॥27॥

मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ।इति प्रकाशयन् (वेद)विश्वपतिराह प्रमेयताम् ॥28॥

निखलिस्यापि वेदस्य गतिसामान्यमञ्जसा ।को नाम गतिसामान्यमनन्तागमसम्पदः ॥29॥

ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम् ।अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ॥30॥

जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः ।इति मुख्यतयाऽशेषगतिसामान्यवित् प्रभुः ॥31॥

प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ।अतो निखलिवेदानां सिद्ध एव समन्वयः ॥32॥

इति सुज्ञापितार्थोऽपि पृथक् चाह समन्वयम् ।तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ॥33॥

शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ।इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ॥34॥

महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ।ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ॥35॥

दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ।अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ॥36॥

प्रवृत्तः प्रथमं देवः तत्रानन्दादयो गुणाः ।ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥37॥

देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥38॥

अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥39॥

इत्यन्यत्र प्रसिद्धोरुशब्दराशेरशेषतः ।ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥40॥

तेषामन्यगतत्वे तु न स्यात् सम्यक्समन्वयः ।इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥41॥

आह उभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥42॥

शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥43॥

शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता ।अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥44॥

यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागतः ।अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥45॥

अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥46॥

इत्याह एवं च शब्दानां नारायणसमन्वये ।सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥47॥

विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् ।इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥48॥

परस्यावरताहेतुर्यः स्वयं पर एव सन् ।सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥49॥

अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे ।द्वितीयो जीव एवास्ति स्वातन्त्र्यान्न तु(च) दूषणम् ॥50॥

हरेरेवमशेषेण सर्वशब्दसमन्वये ।उक्ते विरोधहीनस्य स्यात् समन्वयता यतः ॥51॥

अतोऽशेषविरोधानां कृतेशेन निराकृतिः ।समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ॥52॥

किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ।तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ॥53॥

उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये ।वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥54॥

सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥55॥

तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः ।आहोपासनमद्धैव विस्तरात् श्रुतिपूर्वकम् ॥56॥

पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥57॥

विभ्रमोपाकृतिर्लिङ्गमनवस्थाविशेषिता ।अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥58॥

विशिष्टकारणं चेष्टां दृष्टवैरूप्यमुन्नतिः ।अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥59॥

पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।विशेषदर्शितालापो गुणसाम्यं पृथग्दृशिः ॥60॥

अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥61॥

युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥62॥

फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥63॥

कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥64॥

संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥65॥

सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥66॥

अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः ।सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥

सर्ववेदान्तप्रत्ययाधिकरणम्

यथाशक्त्यखिलान् वेदान् विज्ञायोपासनं भवेत् ।तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मणः एव हि ॥68॥


उपसंहाराधिकरणम्

कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ॥97॥


नवाधिकरणम्(अनुबन्धाद्यधिकरणम्)

विषयेषु च संसर्गात् शाश्वतस्य च संशयात् ।मनसा चान्यदाकाङ्क्षात् परं न प्रतिपद्यते ॥98॥


विद्याधिकरणम्

नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ॥122॥


यावदधिकाराधिकरणम्

अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥187॥


इयदामननाधिकरणम्

उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ॥192॥


दर्शनभेदाधिकरणम्

..... दृष्टिरिति योग्यानुसारतः ॥203॥


प्रदानाधिकरणम्

सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।


गुरुप्रसादाधिकरणम्

श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥204॥


पूर्वविकल्पाधिकरणम्

गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित् ।विपर्ययस्तु कर्तव्यः सर्वथा शुभ(मुक्ति)मिच्छता ॥205॥


ताद्विद्याधिकरणम्

साधनेभ्योऽधिका भक्तिर्नैवान्यत् तादृशं क्वचित् ॥209॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः ॥