Jump to content

Bhagavatatatparyanirnaya/C9/S8

From Grantha
Revision as of 09:02, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धे-स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।


रक्षोधमेन वृकवद् विपिनेऽसमक्षंवैदेहराजदुहितुर्यपयापितायाम् ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे अष्टमोऽध्यायः ॥
'नित्यपूर्णसुखज्ञप्तिस्वरूपोऽसौ यतो विभुः ।

अतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपि ॥ तथाऽपि लोकशिक्षार्थमदुःखो दुःखवर्तिवत् । अन्तर्हितां लोकदृष्ट्या सीतामासीत्स्मरन्निव ॥ ज्ञापनार्थं पुनर्नित्यसम्बन्धं स्वात्मनः श्रिया । अयोध्याया विनिर्गच्छन् सर्वलोकस्य चेश्वरः ॥

प्रत्यक्षं तु श्रिया सार्धं जगामानादिरव्ययः॥ ९०,९२ ॥