Jump to content

Bhagavatatatparyanirnaya/C3/S3

From Grantha
Revision as of 09:00, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
समाहुता भीष्मककन्यया येश्रियः सवर्णेन जिहीर्षयैषाम् ।


भीष्मककन्याया अर्थे सवर्णमात्रतया आहूताः । एषां श्रियोजिहीर्ष-याऽऽह्वानबुद्धिर्भगवता कृता । 'सुपर्णः सुपरानन्दात्काकुत्स्थो वाचि संस्थितः। इति पाद्मे ॥ ३ ॥
तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः ।एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥


'उत्तमैः सर्वतः साम्यं किञ्चित्साम्यमुदीर्यतेइत्याग्नेये ॥ ९ ॥
भगवानपि विश्वात्मा लोकवेदपथानुगः ।कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ १९ ॥


'केवलं भगवज्ज्ञानं साङ्ख्यमित्यभिधीयतेइत्यध्यात्मे ॥ १९ ॥
तस्येत्थं रममाणस्य संवत्सरगणान् बहून् ।गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥


'सर्वदाऽपि विरक्तः सन् भासयीत विरागिवत् । कादाचित्कः कुतस्तस्य लोकशिक्षार्थमिष्यते॥ इति पाद्मे ॥ २२ ॥
दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।को विश्रंभेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥


तेनापि विरागः प्रदर्शितः । अतः कोऽन्यो विस्रम्भं कुर्यात् तेनापि विरागः प्रदर्शितः ॥ २३ ॥
ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः ।ययुः प्रभासं संहृष्टा रथैर्दैवविमोहिताः ॥ २५ ॥


तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा ।तर्पयित्वाऽथ विप््रोभ्यो गावो बहुगुणा ददुः ॥ २६ ॥


हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।हयान् रथानिभान् कन्यां धरां वृत्तिकरीमपि ॥ २७ ॥


अन्नं चोरुरसं तेभ्यो दत्वा भगवदर्पणम् ।गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे तृतीयोऽध्यायः ॥
'एष्यच्च निश्चितं यत्तदतीतत्वेन भण्यते ।

चक्रवत्परिवृत्तेर्वा दुष्टानां मोहनाय वा ॥"

इति स्कान्दे ॥ २५-२८ ॥