Jump to content

Bhagavatatatparyanirnaya/C11/S9

From Grantha
Revision as of 16:48, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि ।एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥


'असज्जनैस्तु संवासो न कर्तव्यः कथञ्चन । यावद्यावच्च बहुभिः सज्जनैः स तु मुक्तिदः॥ इति षाड्गुण्ये ॥ १० ॥
यस्मिन् मनो लब्धपदं यदेत- च्छनैः शनैर्मुञ्चति कर्मरेणून् । सत्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥


तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व््राजन्त- मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥


'बाह्यं मनो विलीनं स्यान्मुक्तौ चिन्मात्रकं मनः । तेनैवानुभवेत्सर्वं स्वात्माभिन्नेन मुक्तिगः॥ इति मुक्तितत्त्वे ॥ १२,१३ ॥
एको नारायणो देवः पूर्वसृष्टं स्वमायया ।संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥


एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ॥ १७ ॥


सत्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ।परावराणां परम आस्ते कैवल्यसंज्ञितः ॥ १८ ॥


'कालप्रकृतिजीवादौ लयेऽसत्यप्रवर्तनात् ।

तन्निमित्तस्य कार्यस्य विष्णुरेक इतीर्यते ॥ स हि कालादिकं सर्वं वर्तयत्यमितद्युतिः॥ इति तत्त्वलये ॥ 'प्रकृतिश्च गुणाश्चैव शक्यत्वाच्छक्तयः स्मृताः ।

विष्णोः स्वरूपभूता तु शकनाच्छक्तिरुच्यते॥ इति शक्तिविवेके ॥ १६-१८ ॥
यत्र यत्र मनो देही धारयेत् सकलं धिया ।स्नेहाद् द्वेषाद् भयाद् वापि याति तत्तत्सरूपताम् ॥ २२ ॥


कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।याति तत्साम्यतां राजन् पूर्वरूपमसंत्यजन् ॥ २३ ॥


'भयादपि हरिं भक्तया चिन्तयंस्तत्स्वरूपताम् ।

पेशस्कारिवदायाति द्विषन् द्वेषसरूपताम् ॥ सुखरूपस्य हि द्वेषो दुःखरूप इतीर्यते । तस्माद्दुःखं सदा याति द्वेषवान्पुरुषोत्तमे ॥ नृसिंहद्वेषतो दुःखं रक्षोरूपेण रावणः । अगाच्च रामविद्वेषाच्छिशुपालस्तथैव च ॥ ततो भक्त्या परं यातो द्वेषरूपस्त्वधोगतिम् । तस्मात्सर्वगुणोद्रेकिविद्वेषात्सर्वदोषवान् ॥ भवेदिति सरूपत्वं द्वेषादेः पुरुषस्य हि॥ इति भागवततन्त्रे ॥ 'तं यथा यथोपासते तदेव भवति 'तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूरित्यसुरास्ते ह पराबभूवुः॥ इत्यादि च ॥ 'सत्यप्यत्यल्पविद्वेषे भोजनं दास्यतीति तु । स्नेहबाहुल्यतः कीटः पेशस्कारिसमो भवेत् ॥ द्वेषे सर्वात्मना नष्टे स्नेहे चैव विवर्धति । सरूपता तदैव स्यात्कीटस्यैवं हरेरपि ॥ अत्यल्पोऽपि हरेर्द्वेषः स्नेहस्यानुदयङ्करः । सोऽयं विशेषो नान्यस्य फलदाता च केशवः ॥ न हि पेशस्कृतः किञ्चित्फलदातृत्वमिष्यते ।

स्वातन्त्र्याद्विद्विषां चैव केशवो न सुखप्रदः॥ इति स्वातन्त्र्यविवेके ॥ २२,२३ ॥
देहो गुरुर्मम विरक्तिविवेकहेतु- र्बिभ््रात् स्म सत्वनिधनं सततात्युदर्कम् । तत्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥


सत्त्वनिधनः सत्वं निधीयतेऽस्मिन्परमेश्वर इति । 'सततमतिशये-नोच्चैरर्करूपःइति सततात्युदर्को भगवान् ॥ २५ ॥
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षया वितन्वन् । सोऽन्ते सुकृच्छ्रमवरुद्धमनाः स्वदेहं सृष्ट्वा स्वबीजमवसीदति वृक्षधर्मा ॥ २६ ॥


बीजार्थमारोपहणादिकं कुर्वन्निति ॥ २६ ॥
न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।ब््राह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे नवमोऽध्यायः ॥
'एकस्मात्तु गुरोर्ज्ञानं जायते नैव कस्यचित् ।

एकस्मादेव जायेत योग्याद्ब्रह्मपदस्य तु ॥ स्वयं चोपदिशेज्ज्ञानं वैरिञ्चिपदयोगिनि । अनुग््राहात्तेन चापि ज्ञानं दत्वा विमुक्तिदः ॥ ज्ञानं प्राप्य बहुभ्योऽपि नर्ते मुक्तिश्चतुर्मुखात् ।

ज्ञानमप्राप्य तेषां तु ज्ञानदो विष्णुरेव हि॥ इति गुरुविवेके ॥३१॥