Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S02/A021

From Grantha
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

सन्ध्याधिकरणम्

ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ 01-324 ॥


न स्वप्नोऽपि तं विना प्रतीयते । ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ । रथान् रथयोगान् पथः सृजते’ इत्यादि श्रुतेः ॥ 01 ॥


ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ 02-325 ॥


‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः’ इति च ।


‘एतस्माद्ध्येव पुत्रो जायत एतस्माद् भ्रातैतस्माद्भार्या यदेनं पुरुषमेष स्वप्नेनाभिहन्ति’ इति गौपवनश्रुतिश्च ॥ 02 ॥


केन साधनेन ?-


ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्त स्वरूपत्वात् ॐ ॥03-326॥


अनादिमनोगतान् संस्कारान् स्वेच्छामात्रेण प्रदर्शयति नान्येन साधनेन, सम्यगनभिव्यक्तत्वात् । ब्रह्माण्डे च –


‘मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स्वप्न इति गीयते ॥


यदन्यथात्वं जाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत्’ इति ॥ 03 ॥


ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॐ ॥ 04-327 ॥


साधनान्तराभावेऽपि भावाभावसूचकत्वेन चेश्वरो दर्शयति ।


‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने’ इत्यादिश्रुतेः ।


हिशब्दाद्दर्शनाच्च ।


‘यद्वाऽपि ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा । स्वप्नस्थमथवा राजा तत् तथैव भविष्यति’ ॥


इत्याद्याचक्षते च स्वप्नविदो व्यासादयः ॥ 04 ॥