Jump to content

Bruhadaranyaka/C2/S6

From Grantha
Revision as of 07:05, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
अथ वंशः पौतिमाष्यो गौपवनात् ।गौपवनः पौतिमाष्यात् ।


आग्निवेश्यः शाण्डिल्याच्च अनभिम्लाताच्च ।अनभिम्लात आनभिम्लातादानभिम्लातो गौतमात् ।


धृतकौशिकात् धृतकौशिकः।पाराशर्यायणात् पाराशर्यायणः ।


॥ इति वंशब्राह्मणम् ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये चतुर्थोऽध्यायः ॥
पाराशर्यो जातुकर्ण्यः पराशरसुतावुभौ ।
             विप्रायामेव भार्यायां तृतीयः कृष्ण एव च ॥ इति ब्रह्माण्डे ।
             परस्य ब्रह्मणो विष्णोर्हयशीर्षादधीतवान् ।
ब्रह्मविद्यामिमां ब्रह्मा ततः सनक एव च ॥ इति गारुडे ॥