ब्रह्मसूत्रभाष्यम्/C03/S01/A015
Appearance
महातमोऽधिकरणम्
‘यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते ।अपि नीचगतौ किञ्चित् किमु मानुषदेहिनः’ इति वचनान्महातमस्यपि सुखप्राप्तिरित्यत आह-
ॐ न तृतीये तथोपलब्धेः ॐ ॥ 19-313 ॥
‘अथाविद्वानकर्माऽवाग्गच्छति त्रिधा ह वाऽवाग्गतिस्तिर्यग्यातना तम इति । द्वेवाव सुखानुवृत्ते, न तमः सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति’ इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ 19 ॥
ॐ स्मर्यतेऽपि च लोके ॐ ॥ 20-314 ॥
इति भविष्यत्पर्वणि ।‘तिर्यक्षु नरके चैव सुखलेशो विधीयते ।
नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’
लोकसिद्धं चैतत्। चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह ।
इति हि ब्राह्मे ॥ 20 ॥‘अतिप्रिये यथा राजा न दुःखं सहते क्वचित् ।
अत्यप्रिये सुखमपि तथैव परमेश्वरः’
ॐ दर्शनाच्च ॐ ॥ 21-315 ॥
‘नारायणप्रसादेन समिद्धज्ञानचक्षुषा । अत्यन्तदुःखसल्लीनान् निश्येषसुखवर्जितान् ॥
नित्यमेव तथाभूतान् विमिश्रांश्च गणान् बहून् ।
निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥
अपश्यत् त्रिविधान् ब्रह्मा साक्षादेव चतुर्मुखः’
इति दर्शनवचनाच्च पाद्मे॥ 21 ॥
ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ ॥ 22-316 ॥
तृतीये तृतीयतमस श्रवणादेव शब्दानुसारेण संशोकजमोहप्राप्तिः ॥ 22 ॥
ॐ स्मरणाच्च ॐ ॥ 23-317 ॥