Bhagavatatatparyanirnaya/C8/S7
Appearance
तदुग्रवेगं दिशि दिश्युपर्यधोविसर्पदुत्सर्पदसह्यवीर्यम् ।
विलोक्य तं देववरं त्रिलोक्याभवाय देव्याऽभियुतं मुनीनाम् ।
प्रजा ऊचुः– देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरणापन्नान् त्रैलोक्यदहनाद् विषात् ॥ २१ ॥
त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः ।तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे सप्तमोऽध्यायः ॥
'रुद्रस्य यशसेऽर्थाय स्वयं विष्णुर्विषं विभुः ।न सञ्जह्रे समर्थोऽपि वायुं चोचे प्रशान्तयेइति च ॥'तत्र तत्र स्तुतिपदैर्हरिरेव तु तद्गतः ।स्तूयतेऽतो युक्तमेव गुणाधिक्यवचोऽपि तुइति च ॥ १९-२२ ॥