Bruhadaranyaka/C1/S7
Appearance
त्रयब्राह्मणम्
त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषां सामेतद्धि सर्वै रूपैः सममेतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥
अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रयं सदेकमयमात्माऽऽत्मैकः सन्नेतत्त्रयं तदेतदमृतं सत्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥
सहैव माति जानातीति समम् । आत्मा प्राणः । नामरूपयोरपि प्राणाधीनत्वादेकमित्युच्यते ।
प्राणो वायुरिति प्रोक्तस्तत्पत्नी नाम भारती ।
रूपं तु तत्सुतो रुद्रो वशे प्राणस्य तद्द्वयम् ॥
अमृतो वायुरुद्दिष्टो नित्यज्ञानात्मकत्वतः ।
सत्यं यथार्थवक्तृत्वाद्भारती रुद्र एव च ॥ इति ।रुद्रं वेदेषु च प्राणः प्रविष्टश्छादितः सदा ।
सत्य इत्युच्यते नित्यं स्वरूपेणामृतः स्मृतः ॥ इति च ।