Jump to content

Bhagavatatatparyanirnaya/C11/S5

From Grantha
Revision as of 05:35, 8 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

पञ्चमोऽध्यायः

वदन्ति तेऽन्योन्यमुपासितश्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्यसृष्टान्नविधानदक्षिणा वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ८ ॥


'ये तु विष्णुमवज्ञाय श्रियमेव ह्युपासते ।उपेक्ष्य वा हरिं ते तु भूत्वा याज्याः पतन्त्यधः॥ इति प्रवृत्तिसंहितायाम् ॥ ८ ॥
लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विहाय यज्ञान् सुराग््राहैरासुरवृत्तिरिष्टा ॥ ११ ॥


धनं हि धर्मैकफलं यतोऽस्य ज्ञानं सविज्ञानमनुप्रशान्तिः । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥


यद् घ््र•णभक्षो विहितः सुराया- स्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥


'व्यवायामिषमद्यानि हरेः पूजार्थमेव तु ।वामदेव्यो नाम यज्ञो व्यवायो हरिपूजनम् ॥पितृयज्ञो देवयज्ञो मांसेन हरिपूजनम् ।व्यवाययज्ञे मद्यं तु सोमात्मकतयेष्यते ॥क्षत्रियादेर्न विप्राणां विप्रो दोषेण लिप्यते ।अरागतः प्रवृत्तिः स्याद्रागो दोषस्य कारणम् ॥घ््र•णभक्षोऽथवा यज्ञे दैवे सर्वस्य चेष्यते ।पैष्टमद्यस्य माध्व्यादि क्षत्रियस्य न दुष्यति ॥दैवे रत्यैव च प्रीतिर्विष्णोः पुत्रात्तु मानुषे ।तस्माद्विहितमात्रेषु रागं मुक्तवा यथाविधि ॥समाहितो हरिं स्मृत्वा वर्तन् याजी हरेर्भवेत्॥ इति क्रियाविधाने ।यज्ञान्विहाय न चोदना ॥'यज्ञेष्वालम्भनं प्रोक्तं देवतोद्देशतः पशोः ।हिंसा नाम तदन्यत्र तस्मात्तां नाचरेद्वुधः ॥यतो यज्ञे मृता ऊर्ध्वं यान्ति दैवे च पैतृके ।अतो लाभादालभनं स्वर्गस्य न तु मारणम्॥ इति च ॥११-१३॥
द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥


स्वात्मानं स्वस्मिन्नाप्तं च ।'आप्तत्वादात्मशब्दोक्तं स्वस्मिन्नपि परेषु च ।जीवादन्यं न पश्यन्ति श्रुत्वैवं विद्विषन्ति च ॥एतांस्त्वमासुरान्विद्धि लक्षणैः पुरुषाधमान्॥ इति हरिवंशेषु ॥ १५ ॥
एवं युगानुरूपोऽसौ भगवान् युगवर्तिभिः ।मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥ ३५ ॥


'ध््राुवं तयैव मुच्यन्ते यां मूर्तिं प्रदिशेद्गुरुः ।शिष्याणां योग्यताऽभिज्ञो विघ्नहानिस्तु तद्युगे ॥अवतीर्णहरेर्मूर्त्या तत्पूर्वयुगजेन च ।नृसिंहमूर्त्या च तथा यां चान्यां प्रदिशेद्गुरुः॥ इति स्वाभाव्ये ॥ ३५ ॥
देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिचर्यया च ॥ ४२ ॥


स्वपादमूलं भजतः प््रिायस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ ४३ ॥


'सर्वात्मना हरेर्भक्ता देवेशा एव केवलम् ।देवास्तु सर्वथा भक्ता भक्ता एवेतरे स्मृताः ॥हरिभक्तयाऽधिकेष्वेव किङ्करश्चाप्यृणी तथा ।हरिभक्तो नेतरेषां वासुदेवव्यपाश्रयात् ॥द्विधैव स्वोत्तमर्णानि दातव्यानीतराणि च ।दातव्येभ्यो विमुच्येत नेतरेभ्यः कथञ्चन ॥कथं देवानुपकृतो मनो मोक्षेऽपि वर्तयेत् ।बिम्बत्वात्तदधीनं हि स्वरूपं सर्वशो यतः॥ इति जीवनिर्णये ॥'उदकैश्च नमस्कारैः स्तुतिभिर्मनसा तथा ।यतिभिश्चापि सम्पूज्या देवा मोक्षमियासुभिः ॥मध्ये विष्णुमनुस्मृत्य नान्यथा तु कथञ्चन॥ इति समयाचारे ॥'प्राधान्येन हरिर्ध्येयस्तत्सम्बन्धात्सुरादयः ।ध्येया नान्यत्क्वचिध्द्यायेद्धरावनुपयोगि यत्॥इति हरिसंहितायाम् ॥ ४२,४३ ॥
वैरेण यं नृपतयः शिशुपालपौण्ड्र- साल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियः पुनः किम् ॥ ४९ ॥


Template:AuthorNote

'पौण्ड्रकादिषु दैत्येषु सुरांशाः सन्ति सर्वशः ।बहुमानफलं विष्णोस्ते यान्त्यादाय सद्गतिम् ॥विद्वेषस्य फलं यत्तु तदादायासुरास्तमः ।यान्त्यतो नैव विद्वेषो विष्णोः कार्यः कथञ्चन॥इत्यंशविवेके ॥ ४९ ॥