Bhagavatatatparyanirnaya/C4/S27
Appearance
सप्तविंशोऽध्यायः
द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥
'अलौकिकं च शास्त्रीयं कर्तव्यं लौकिकं कुतः ।लोकार्थं शास्त्रहा याति निरयं त्वितरः सुरान्॥ इति पाद्मे ॥२५॥