Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S02/A023

From Grantha
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

उत्पत्त्य(शक्त्य)धिकरणम्

शक्तिपक्षं दूषयति-


ॐ उत्पत्यसम्भवात् ॐ ॥ 42-215 ॥


न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ॥ 42 ॥


ॐ न च कर्तुः करणम् ॐ ॥ 43-216 ॥


यदि पुरुषोऽङ्गीक्रियेत तस्यापि करणाभावादनुपपत्तिः ॥ 43 ॥


ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ ॥ 44-217 ॥


यदि विज्ञानादिकरणं तस्याङ्गीक्रियते तदा तत एव सृष्ट्याद्युपपत्तेरीश्वरवादान्तर्भावः ॥ 44 ॥


ॐ विप्रतिषेधाच्च ॐ ॥ 45-218 ॥


सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसम् ॥ 45 ॥