BramhasutraBhashyam/C03/S04/व्याख्या/bhashya
Appearance
यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात् सर्वपुरुषार्थप्राप्तिरिति बादरायणो मन्यते ।
‘यं यं लोकं मनसा संविभाति विशुद्धस्तत्त्वः कामयते यांश्च कामान् ।
इति शब्दात् ॥ 01 ॥
इति शब्दात् ॥ 01 ॥
अस्त्येव मोक्षसाधनत्वं ज्ञानस्य । स्वर्गादिषु तत्साधनकर्मशेषत्वेन ।
‘स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित्’ इतिवदति जैमिनिः ॥ 02 ॥
ज्ञानिनामेव देवादीनामाचारदर्शनात् ॥ 03 ॥
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’
इति शेषत्वश्रुतेः ॥ 04 ॥
‘कर्मैव देहं दैविकं मानुषं वाऽप्यन्वारभेन्नापरस्तत्र हेतुः ।
इति माठरश्रुतेश्च ।
इति माठरश्रुतेश्च ।
संशब्द प्राधान्यं दर्शयति ॥ 05 ॥
‘ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत्’ इति कमठश्रुतौ ज्ञानतोऽपि विधानात् ॥ 06 ॥
‘कुर्वन्नेवेह कर्माणि जीजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’ इति ॥ 07 ॥
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’ इति ॥ 07 ॥
‘ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे कामाः सम्पद्यन्ते ।
इति कौण्ठरव्यश्रुतेः ॥
इति कौण्ठरव्यश्रुतेः ॥
युधिष्ठिरादीनां राजसूयादिना फलाधिक्य दर्शनाच्चेति बादरायण मतम् ॥ 08 ॥
राजसूयादिकृतावकृतौ च सममेव तेषां विज्ञानम् ।
‘विज्ञातमेतत् सर्वेषां मुनीनां ब्रह्मदर्शनात् ।
स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥
स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥
स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः ।
ज्ञानेनाधिक्यमित्याहुर्जैमिन्याद्यास्तु केचन ॥
ज्ञानेनाधिक्यमित्याहुर्जैमिन्याद्यास्तु केचन ॥
अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते ।
इति केचिद्विदः प्राहुर्व्यासशिष्या इमेऽखिलाः ॥
यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावदिस्तथा ।
प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥
प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥
स्वयं तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् ।
अनन्ताकाशवत् पश्यन् निखिलं पुरुषोत्तमः ॥
अनन्ताकाशवत् पश्यन् निखिलं पुरुषोत्तमः ॥
ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् ।
इति भविष्यत्पर्वणि ।
इति भविष्यत्पर्वणि ।
‘ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् ।
इति ब्रह्मतर्के ॥ 09 ॥
इति ब्रह्मतर्के ॥ 09 ॥
न सर्वेषामधिकारः ॥ 10 ॥
‘नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु ।
सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥
सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥
यथा तथैवा सङ्ख्येयाः प्रजास्तासु कियान् जनः ।
ज्ञानाधिकारी सम्प्रोक्तो विष्णुपादैकसंश्रयः’
ज्ञानाधिकारी सम्प्रोक्तो विष्णुपादैकसंश्रयः’
इति वचनात् सुखापेक्षासाम्येऽपि विभाग इष्यतेऽधिकारार्थम् ॥ 11 ॥
कस्याधिकारः?
‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते ।
न च वर्णावरस्यापि तस्मादध्ययनान्वितः ।
ब्रह्मज्ञाने तु वेदोक्तेऽप्यधिकारी सतां मतः’ इति ब्रह्मतर्के ॥
ब्रह्मज्ञाने तु वेदोक्तेऽप्यधिकारी सतां मतः’ इति ब्रह्मतर्के ॥
‘पठेद्वेदानथार्थानधीयीताथ विचार्यः ब्रह्म विन्देत्’ इति च कौषारवश्रुतिः ॥ 12 ॥
न सामान्येनाधिकारो देवादीनाम् ।
‘अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् ।
इति कौण्डिन्यश्रुतिः॥ 13 ॥
इति कौण्डिन्यश्रुतिः॥ 13 ॥
‘अथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात् तेनेदृश एव’ इति ज्ञानिनो यथेष्टाचरणं विधीयत इत्यत आह-
न विधिः । ज्ञानिनः स्तुतये अनुमतिमात्रं वा । युज्यते च ॥ 14 ॥
‘कामाचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमुत्सृज्याथ परात् परमीयुरनारम्भणम्’ इति चैके पठन्ति ॥ 15 ॥
‘ओमित्युच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तुरश्रुतौ ॥ 16 ॥
न तावता कामचाराणां ज्ञानेऽधिकारः ।
‘य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् ।
इति माठरश्रुतेः ॥ 17 ॥
इति माठरश्रुतेः ॥ 17 ॥
‘प्रातरुत्थायाथ सन्ध्यामुपासीत यत् सन्ध्यामुपासते ब्रह्मैव तदुपासतेऽथ देवान् नमेज्जुहुयाद् वेदानावर्तयीत नान्यत् किञ्चिदाचरेन्न सुरां पिबेन्न पलाण्डुं भक्षयीत न भृषं वेदेन्न विस्मरेतात्मानं सोमं पिबेद्दुतशेषेण वर्तयेत्’
इत्युक्ताचारपरामर्शेन विधिबन्धवर्जितत्वेन कामत एव तस्य चरणं कामचार इति जैमिनिर्मन्यते ।
न च निषिद्धं कर्म कर्तव्येमेवेति चोदना । ‘ब्राह्मणो न हन्तव्यः’ इत्याद्यपवादश्च ॥ 18 ॥
अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरेति बादरायणो मन्यते । ‘केन स्याद्येन स्यात् तेनेदृश एव’ इति साम्यश्रुतेः ।
‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
इति भगवद्वचनाच्च ॥ 19 ॥
इति भगवद्वचनाच्च ॥ 19 ॥
‘केन स्याद्येन स्यात्’ इति विधिर्वा । यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम् । एवं स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता । न तत्राधर्मशङ्का कार्या । नान्येषामिति वा ।
‘स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदिता ।
इति हि ब्राह्मे ॥ 20 ॥
इति हि ब्राह्मे ॥ 20 ॥
स्तुतिमात्रमेव स्वेच्छाचरणं न विधिः । तैरपि सामान्यविधिस्वीकारादिति चेन्न । अपूर्वत्वात् परवशत्वात् । सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं परब्रह्मण एव हि ।
‘विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ ।
इति च ब्रह्मतर्के ॥ 21 ॥
इति च ब्रह्मतर्के ॥ 21 ॥
‘यथाविधानमपरे विधिर्भावे प्रजापतेः । ब्रह्मणः परमस्यैव सर्वविद्यतिदूरता’ इति च तुरश्रुतौ ॥ 22 ॥
‘केन स्याद्येन स्यात्’ इत्यादयः स्थिरत्वनिवृत्त्यर्था इति चेन्न ।
‘त्रेधा ह ज्ञानिनो विधिनियता अनियताः स्वेच्छानियता इति ।
इति गौपवनश्रुतौ विशेषितत्वात् ॥ 23 ॥
इति गौपवनश्रुतौ विशेषितत्वात् ॥ 23 ॥
एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां च सम्बन्धो भवति ॥ 24 ॥
अत एव ज्ञानस्य मोक्षादेन नाग्निहोत्राद्यपेक्षा ।
ब्रह्मतर्के च –
‘येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः ।
शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥
शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥
स्वेच्छानुवृत्यैव भवेद् ब्रह्मणः प्रायशस्तथा ।
देवानामपि सर्वेषां विशेषादुत्तरोत्तरम्’ इति ॥ 25 ॥
देवानामपि सर्वेषां विशेषादुत्तरोत्तरम्’ इति ॥ 25 ॥
सर्वधर्मापेक्षा च ज्ञानस्येत्पत्तौ ।
‘विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति श्रुतेः ।
यथा गतिनिष्पत्यर्थमश्वादयोऽपेक्ष्यन्ते न विनिष्पन्नगतेर्ग्रामादिप्राप्तौ ॥ 26 ॥
यद्यपि ज्ञानेनैव मोक्षो नियतस्तथाऽपि ज्ञानी शमदमाद्युपेतः स्यात्।’आचार्याद्विद्यामवाप्यैतमात्मानमभिपश्य शान्तो भवेद्दान्तो भवेदनुकोलो भवेदाचार्यं परिचरेत् परिचरेदाचार्यम्’ इति माठरश्रुतौ ज्ञानिनोऽपि तद्विधेः ।
‘ब्राह्मीं वाव त उपनिषदब्रूम’ इति । तस्यैतपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् । यो वा एतामुपनिषदमेवं वेद’
इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् ।
इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् ।
‘यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा ।
इति च आग्नेये ।
इति च आग्नेये ।
तुशब्दः पूर्णफलार्थत्वं सूचयति ॥ 27 ॥
‘यदि ह वा अप्येवंविन्निखिलं भक्षयीतैवमेव स भवति’ इति सर्वान्नानुमतिः प्राणात्ययविषया ।
‘न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानम्’इति दर्शनात् ॥ 28 ॥
‘अन्यायचरणाभावे न हि ज्ञानस्य बाधनम् ।
इति च ब्रह्मतर्के ॥ 29 ॥
इति च ब्रह्मतर्के ॥ 29 ॥
‘अतीतानागतज्ञानी त्रैलोक्योद्दरणक्षमः ।
इति हरिवंशेषु ॥ 30 ॥
इति हरिवंशेषु ॥ 30 ॥
‘स य एतदेवंविदेवं मन्वान एवं पश्यन् न कामचरितं चरेन्न कामं भक्षयीत न कामामनुवर्तेत’ इति कौण्डन्यश्रुतौ ।
अत इत्यल्पफलत्वं सूचयति ।
‘न निषिद्धानि वर्तेत पूर्णज्ञानफलेच्छया’ इति पाद्मे ॥ 31 ॥
न केवलं निषिद्दाकरणेन पूर्यते । कर्तव्यं च वर्णाश्रमविहितं कर्म ॥
‘पश्यन्नपीममात्मानं कुर्यात् कर्मविचारयन्।
यदात्मानः सुनियतमानन्दोत्कर्षमाप्नुयात्’
‘यथा राज्ञः सहकार्येव मन्त्री तथाऽप्यृते तं क्षितिपः कार्यमृच्छेत् ।
एवं ज्ञानं कर्म विनाऽपि कार्यं सहायभूतं न विचारः कुतश्चित्’
एवं ज्ञानं कर्म विनाऽपि कार्यं सहायभूतं न विचारः कुतश्चित्’
इति कमठश्रुतौ सहकारित्वोक्तेश्च ।
‘ज्ञानान्मोक्षो भवेत्येव सर्वकार्यकृतोऽपि तु ।
इति ब्रह्माण्डे ॥
इति ब्रह्माण्डे ॥
‘सर्वदुःखनिवृत्तिश्च ज्ञानिनो निश्चितैव हि ।
इति बृहत्तन्त्रे ॥
इति बृहत्तन्त्रे ॥
‘धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः ।
इति च पाद्मे ॥ 33 ॥
इति च पाद्मे ॥ 33 ॥
सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये ।
‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’
‘दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चासुरा नैतयोरभिभवः कदाचित् स्वभाव एव ह्यवतिष्ठन्ते’ इति स्वभावानभिभवं च दर्शयति ॥ 35 ॥
सम्यज्ज्ञानविपरीतज्ञानयोरन्तरा स्थितानामपि देवासुरभावयोर्दार्ढ्यदृष्टेः॥ 36 ॥
‘असुरा असुरेणैव स्वभावेन च कर्मणा ।
इति स्कान्दे ॥ 37 ॥
इति स्कान्दे ॥ 37 ॥
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
एधमानद्विडुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्’
एधमानद्विडुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्’
इति विशेषानुग्रहं च दर्शयति देवेषु परमेश्वरस्य।
‘असुरान् दमयन् विष्णुः स्वपदं च सुरान् नयन् ।
इति भविष्यत्पर्वणि ॥ 38 ॥
इति भविष्यत्पर्वणि ॥ 38 ॥
देवभागादसुरभाग एव बहुलः । ‘तस्मान्न जनतामियात्’ इति लिङ्गात् ।
चशब्दात्
‘ततः कनीयासा एव देवा ज्यायासा असुराः’ इति श्रुतेश्च ।
‘ततः कनीयासा एव देवा ज्यायासा असुराः’ इति श्रुतेश्च ।
‘असुरा बहुला यस्मात् तस्मान्न जनतामियात्’ इति च ब्राह्मे ॥ 39 ॥
असुरजातेरेवासुरत्वं देवजातेरेव देवत्वं जैमिनेरपि सिद्धमेव।
‘नासुरा दैवीं न देवा आसुरीं न मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव जातिमनुभवन्ति’ इति नियमश्रुतेः ।
‘नासुराणां दैवं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः स तद्रूपो निसर्गो ह्येष भवति’ इत्यतद्रूपत्वश्रुतेः ।
‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सप्तो भूर्भूरित्येव प्रशस्वित्यभूतिरित्यसुरासेते ह परूभभूवुः’ इति देवासुराणां भावाभावश्रुतेश्च ।
देवानां भूतिरित्येव मनो विष्णौ स्वभावतः ।
असुराणामभूतित्वेनैतन्नेयमतोऽन्यथा ॥
असुराणामभूतित्वेनैतन्नेयमतोऽन्यथा ॥
‘देवाः शापाभिभूतत्वात् प्रह्लादाद्या बभूविरे ।
इति चाध्यात्मे ॥ 40 ॥
इति चाध्यात्मे ॥ 40 ॥
न च परमात्मैश्वर्यादिकमाकाङ्क्ष्यम्, ब्रह्मादीनामपु नाकाङ्क्षयं, किमुपरस्येति सूचयितुमपिशब्दः । चशब्दस्तु ज्ञानार्थीनां पूर्वोक्तादित्थम्भावान्तरसूचकः । अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयोगस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकाङ्क्षायां पतनमनुमीयते ।
‘न देवपदमन्विच्छेत् कुत एव हरेर्गुणान् ।
इति ब्रह्माण्डे ।
इति ब्रह्माण्डे ।
‘स्वकीयमिच्छमानं तु राजाद्याः पातयन्ति हि । एवमेव सुराद्याश्च हरिश्च स्वपदेच्छुकम्’
इत्याद्यनुमानरूपवाक्याच्च ।।
‘मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षत ।
इति च श्रुतिः॥
इति च श्रुतिः॥
उपदेवपदं च नाकाङ्क्ष्यमित्येके । भावशमनवदृष्टिपदवदेव ।।
तच्चोक्तमिन्द्रद्युम्नश्रुतौ –
तच्चोक्तमिन्द्रद्युम्नश्रुतौ –
‘अथ यथर्षीन् प्रजापतीन् नाकाङ्क्षेदेवं न गन्धर्वान् न विद्याधरान् न सिद्धान्’ इति।
बृहत्संहितायां च –
‘न दैवानभिकाङ्क्षेत कुत एव हरेर्गुणान् ।
प्राजापत्यान् न चार्षां गान्धर्वादीनपि क्वचित् ॥
ऋष्यादिषु विशेषे तु दोषो नैवाविशेषतः’
देवर्षिगन्धर्वादिपदेभ्योऽन्यत्र शुभविषय आकाङ्क्षायामनाकाङ्क्षायां च न पतनम् ।
‘देवर्षिगन्धर्वाणां पदाकाङ्क्षी पतेत् ध्रुवम् ।
इति स्मृतेः ॥
इति स्मृतेः ॥
‘नानात्वमेव कामानां नाकामः क्व च दृश्यते ।
अतोऽविरुद्धकामः स्यादकामस्तेन भण्यते’ इत्याचाराच्च ॥ 43 ॥
‘ब्रह्मविदाप्नोति परम्’ इत्यादि फलं स्वामिनां देवानामेव भवति ।
‘यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः’
इति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ॥ 44 ॥
सत्रयागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजानामपि भवतीत्यौडुलोमिर्मन्यते । तधर्थं देवैः क्रियमाणत्वात् ॥ 45 ॥
तृतीयः स्वपक्षः । देवानां ज्ञापनादिकर्मणि सहकार्यान्तरत्वेन प्रजा विधीयन्ते । यथा प्रजावतो राज्ञः प्रजाः सहकारित्वेन विधीयन्ते । यथावाऽऽचार्यस्य शिष्याः ।
वाराहे च –
वाराहे च –
‘ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् ।
वेदे च तेषां विहितं तत्राचार्यो महत्तरः ॥
वेदे च तेषां विहितं तत्राचार्यो महत्तरः ॥
विहितः सहकारित्वे सहकार्यान्तरं प्रजाः ।
पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥
पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥
तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् ।
ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम्’ इति ॥ 46 ॥
ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम्’ इति ॥ 46 ॥
‘कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत्’ इत्युक्त्वा ‘न च पुनरावर्तते न च पुनरावर्तते’ इति गृहिणोपसंहारः क्रियते । तस्माद्गृहस्तस्यैवोत्तवत्वमिति न वाच्यम् ।
यतः कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते ।
‘कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना एते यतयोऽत एतेषां न पुत्रा दायमुपयन्ति स चैते गृहान् विसृजन्त्यरागा अद्वेषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तारः’ इति पौत्रायणश्रुतिः ॥ 47 ॥
न चाश्रमद्वयमेव देवानाम् ।
‘देवाएव ब्रह्मचारिणो देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः सर्वं ह्येते कर्म कुर्वन्ति’ इति कौण्ठरव्यश्रुतौ यतित्वदृष्टान्तेनान्येषामप्युपदेशात् ॥ 48 ॥
‘एतां विद्यामदीत्य ब्रह्मदर्शी वाव भवति । स एतां मनुष्येषु विब्रूयात् । यथा यथा ह वै ब्रूयात् तथा तथाऽधिको भवति’
इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च बहूनां स्वीकरणार्थमाविष्कारेणेति न मन्तव्यम् । अन्वयाद्युक्ते । अविष्कारेऽयोग्यानामपि स्वीकारप्राप्तिः । तच्च विषिद्धम् –
इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च बहूनां स्वीकरणार्थमाविष्कारेणेति न मन्तव्यम् । अन्वयाद्युक्ते । अविष्कारेऽयोग्यानामपि स्वीकारप्राप्तिः । तच्च विषिद्धम् –
‘मा नः स्तेनेभ्यो यो अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः।
येषां नैतन्नापरं कि च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यं कदाचित् ॥
येषां नैतन्नापरं कि च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यं कदाचित् ॥
अथोशमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।
आदेवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः’ इति ।
आदेवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः’ इति ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवदिस्टेऽहमस्मि ।
अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम्’ इति च ॥ 49 ॥
अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम्’ इति च ॥ 49 ॥
‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’
इति दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमैहिकमेव प्रारब्दप्रतिबन्धाभावे ।
इति दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमैहिकमेव प्रारब्दप्रतिबन्धाभावे ।
‘श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्येहैव दृष्टिं परमस्य विन्देत् ।
यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य’
यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य’
इति सौपर्णश्रुतौ दर्शनात् ।
‘अनादिजन्मसम्बन्धं निर्भेत्तुं पापपञ्जरम् ।
यावत्या सेवया शक्यं तावत् कार्यं न संशयः॥
यावत्या सेवया शक्यं तावत् कार्यं न संशयः॥
यावद्दूरे स्थितो गम्यात् तावद्गन्तव्यमेव हि ।
इह जन्मान्तरे वाऽपि तावत्यैव तु दर्शनम् ॥
इह जन्मान्तरे वाऽपि तावत्यैव तु दर्शनम् ॥
श्रवणं मननं चैव निधिध्यासनमेव च ।
इति बृहत्संहितायाम् ॥ 50 ॥
इति बृहत्संहितायाम् ॥ 50 ॥
एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः, तद्भावे जन्मान्तराणीत्यनियमः ।
‘धर्मी स्वर्गं विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृतमेत्येव ब्रह्मसंस्थोऽमृतम्’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणात् ।
‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा ।
अवसन्नं यदारब्दं कर्म तत्रैव गच्छति ॥
अवसन्नं यदारब्दं कर्म तत्रैव गच्छति ॥
न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’ इति च नारायणाध्यात्मे ॥ 51 ॥