Jump to content

Yamakabharatam/Vyakhya/YamakabharataTikaYadupatyam

From Grantha
Revision as of 18:35, 15 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

यमकभारतटीका — यादुपत्यम्

यमकभारतटीका — यादुपत्यम्
पदच्छेदः— ध्यायेत् । तम् । परमानन्दम् । यत् । माता । पतिम् । अयत् । अपरमा । आनन्दम् । उझ्झितपरमानम् । दम्पत्याद्याध्याश्रमैः । सदा । एव । परमानन्दम् ॥ १ ॥
श्रीमुखाम्भोजहंसाय संसारभयसेतवे ।सोमवंशावताराय नमः कंसाद्यसद्भिदे ॥ १ ॥
पदच्छेदव्यासं भारतकर्तारं मध्वं मूलकृतं तथा ।पदच्छेदचेतोवाग्देवतां वाणी गुरूंश्च प्रणमाम्यहम् ॥ २ ॥
अथ योगीशवेदेशशिक्षाशाणनिशातधीः ।पदच्छेदं करिष्ये मन्दबोधाय टीकां यमकभारते ॥ ३ ॥
पदच्छेदा यद्यपि श्लोकरूपास्ति टीकाऽस्य सुगमा न सा ।अतस्तामनुसृत्यैव टीकेऽयं क्रियते मया ॥ ४ ॥
इह सकलसुजनानां प्रत्यहं पठनेन भातरपठनजनितफलसिद्ध्यर्थं सङ्क्षेपतो भारतार्थप्रतिपादकं काव्यं करिष्यन्भगवानानन्दतीर्तमुनिः स्वस्यातिशयविधुरतया ग्रन्थादौ हरिध्यानरूपं मङ्गलम् अवश्यं कर्तव्यमिति सुजनं शिक्षयति ध्यायेदिति ।

अत्र सुधीरिति कर्तृवाचिपदं विष्णुमिति कर्मवाचिविशेष्यपदं चाध्याहार्यम् । तमिति तच्छब्दात् यमिति सिद्ध्यति । ततश्च सुधीः परमः आनन्दो यस्यस तथोक्तः तं विष्णुं ध्यायेदिति क्रियाकारक सम्बन्धः । कुतोऽस्य परमानन्दत्वमित्यत उक्तं यन्मातेति । यत् यस्मात् । माता जगन्माता रमा । पतिं स्वस्वामिनं विष्णुम् । आनन्दम् । उद्दिश्येतिशेषः । अयत् प्राप । तस्मात् परमानन्दत्वमिति सम्बन्धः । ननु आनन्दमुद्दिश्य रमया प्राप्तत्वेऽपि तस्य कुतः परमान्दत्वमित्यतो रमां विशिनष्टि अपरमेति । अः विष्णुः परमः यस्यास्सा अपरमा । ब्रह्माद्युत्तमेत्यर्थः । ततश्च ब्रह्माद्युत्तमापि रमा स्वानन्दमुद्दिश्य यं प्राप्नोति स परमानन्द इति सिद्ध्यत्येवेति भावः । ननु कामादिवैरिकलुषिते मनसि श्रवणादिना ज्ञानमेव न सम्भवति । अतः कथं ध्यायेदिति ध्यानविधिरित्याशङ्कायां स्वस्वाश्रम विहितनिवृत्तकर्मभिः परिहृतकामादिवैरिणां प्रसन्नोविष्णुरेव ध्यानोपयुक्तं ज्ञानं ददातीत्याशेनाह उझ्झितेत्यादिना । दम्पतीशब्देन गृहस्थाश्रमो लक्ष्यते । एवञ्च तस्य आद्यः ब्रह्मचर्याश्रमः दम्पत्याद्य एव आद्यो येषां ते दम्पत्याद्याद्याः ते च ते आश्रमाश्च तैः तत्तदाश्रमविहित-कर्माभिरिति यावत् । उझ्झिताः परिहृताः परे कामादिवैरिणो येषां ते उझ्झितपराः तेषां मानं ज्ञानं यस्मात्स उझ्झितपरमानः तम् । (तेषां प्रतिबन्धकध्वंसपूर्वकं ज्ञानदमित्यर्थः ।) नन्वेवं ध्यातोविष्णुः किं फलं ददातीत्यपेक्षाया नित्यशुद्धानन्दरूपं मोक्षं ददातीत्याशयेनाह सदैवेति । सदैव । परपः नित्यः शुद्धः स्वरूपभूत इति यावत् । आनन्दो यस्मात्स तथोक्तस्तमित्यर्थः । यद्वा ननु विष्णुध्यानेन पूर्वं मुक्तिं प्राप्ताः केचित्सन्ति चेत्तर्हि तस्मिन्ध्यानविधौ विश्वासो भविष्यतीत्यपेक्षायां तादृशाः सन्तीत्याह यन्मातेति । यन्माता यत्प्रमाता यद्व्यानेति यावत् । ब्रह्मा दम्पत्याद्याद्याश्रमैः सम्पूर्णब्रह्मचर्याद्याश्रमसम्पन्नैर्देवादिभिस्सह । पतिं पालकं स्वोपास्यं विष्णुम् । अयत् प्राप । ततश्च पूर्वकल्पे विष्णुध्यानेन तत्प्राप्तिरूप-मुक्तिमन्तो ब्रह्माद्याः सन्तीत्युक्तं भवति । अस्यां योजनायां विष्णो-रेवध्येयत्वमुपपादयितुं अपरमानन्दं उझ्झितपरमानमितिविशेषणद्वयम् । न विद्यते परमोयस्मासोऽपरमः आनन्दयतीत्यानन्दः । (अहिकुण्डला-धिकरणन्यायेन आनन्दविशिष्टः आनन्दरूपश्च) ततः कर्मधारयः । उझ्झितपरमानं ध्वंसितवैरिदर्पम् । ततश्च विष्णोः सर्वोत्तमतया विशिष्टत्वात् आनन्ददातृत्वेन अनिष्टजनकवैरिदर्पहन्तृत्वेनेष्टत्वात् (विष्णुत्वेनाधिकृतकृष्णाभेदलाभेनाधिकृतत्वाच्च) तस्यैव ध्येयत्वमुपपन्नमिति भावः ॥ १ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यस्य । करालः । अलम् । चक्रम् । परस्य । हि । करालोलम् । यस्य । गदा । पवमानः । सन् । यः । व्यासः । अभवत् । सत् । आपवमानः ॥ २ ॥
अथ भारतस्याप्तकृततया प्रामाण्यमस्तीति सूचनाय तत्कर्तुर्व्यासस्य भगवदवतारत्वेनाप्तत्वं भगवतोऽपि सशरीरस्यैव प्रयेऽवस्थित्या जगद्व्यापारोपयुक्त नानावतारकरणं सूचयति यस्येति ।

यस्य परस्य पूर्वकालीनस्य प्रयेऽवस्थितस्येति यावत् नारायणस्य । अलं अत्यन्तम् । करालः क्रूरः । कालः कालाख्यदुर्गात्मकलक्ष्क्षरूप-विशेषः । महत्तश्चतुर्मुखादित्यादाविव अभिमताभिमानिनोरभेदव्यपदेशः । करालोलं करे सम्यक्भ्रमत् । चक्रं । पवमान । सर्वज्ञेवायुः । यस्य । करालोला गदा गदाभिमानी सर्वायुदोपलक्षणमेतत् । प्रय-कारि लीनतयाऽभ्यर्हितत्वाच्चक्रगदयोः स्वाब्देनोपादानम् । सः श्रीनारायणः आपवमानः आपवमानं पवमानमभिव्याप्य । सत् स्वोदरे विद्यमानं जगत् । भवत् भावयन् । स्वतन्त्र्यज्ञापनायव्यपञ्चद्विषट्-दशशताद्यात्मकोऽभवदित्यर्थः । यः सन् सर्वदा । विद्यमानः नाना-रूपः । यच्छब्दबलात् स इति लभ्यते । स व्यासः वेदव्यासोऽ-भवदितियोज्यम् । व्यासः कुत्रा्रवतीर्णइत्यतस्तं विशिनष्टि सदापवमान इति । अप्सुप्रवेशादापवेतिशक्रेणोक्तत्वादापवो वसिष्ठः । तत्सम्बन्धा-दापवो वसिष्ठान्वयः । ततश्च सन् निर्दुष्टश्चासौ आपवश्च सदापवः तस्मिन्मानं निर्माणं अवतरणं यस्यसतथोक्तः ॥ २ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः—यस्य । रमा । न । मनोगं । जगृहे । विश्वम्भरा । अपि । नमनः । अगम् । यस्य । पुमान् । आनन्दम्१ (आनन्दमित्यस्यावृत्तिः । भुङ्क्ते । यद्धाम । कपतिमानानन्दम् ॥ ३ ॥
ननु व्यासस्य भगवदवतारत्वेऽपि इन्द्राद्यवतारेऽर्जुनादाविव ज्ञानादिह्रासेनाप्तत्वं निर्णेतुमशक्यमित्यत आह यस्येति ।

विश्वम्भरा । देहेन मनसाचेति शेषः । मनसा विश्वम्पश्यन्त्यपि (देहेनसर्वधारकापि) रमा । यस्य मनोगं येन व्यासेन ज्ञातं विश्वं सर्वं तत्स्वर्यं । न जगृहे नापश्यत् । किञ्च यस्य नमनः नमस्कर्ता स्तोता वा पुमान् । अगं नगच्छतीत्यगं सर्वधाविद्यमानम् । आनन्दं भुङ्क्ते । अपि च आनन्दं आनन्दरूपम् । यद्धाम यस्य व्यासस्य स्वरूपम् । कपतिमानानन्दं कः ब्रह्मा पतिः शिवः (कः ब्रह्मा पतिः येषान्ते कपतयः अशेषदेवाः) मा रमा अनःप्राणः तेषामानन्दोयस्मात्ततथोक्तम् । यदित्यत्रत्य यच्छब्दस्य पूर्वश्लोकस्थेन स इत्यनेनान्वयः । तथा ....सस्य रमाद्य-ज्ञातज्ञातृत्वेनापरिच्छिन्नज्ञानत्वात्सकलसज्जनमेक्षदातृत्वाद्रमा-द्यनन्दोपजीव्यानन्दस्वरूपत्वाच्च मानादिह्रासेनानाप्तत्वशङ्का नेतिभावः ॥ ३ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— परमेषु । यत् । आ । तेजः । परम् । एषु । चकार । वासुदेवः । जः । मानधि । बिभ्रत्सु । मनः । मा । अनधिमा । आसीत् । न । वासुदेवः । अजः ।
ननु व्यासोऽभवदिति कृष्णावतारोप्यादिका एवोक्तः स नयुक्तः ततात्वे तस्य वसुदेवजातत्वासम्भवेन वासुदेवशब्दवाच्यत्वानुपपत्तिप्रसङ्गात् । देवकीजठरभूरुडुराज इति प्रमाणविरोधाच्चेत्यतो वासुदेव-शब्दवाच्यत्वे उपपत्तिं तावदाह परमेष्विति ।

जः यः जययोरभेदात् । वासुदेवः विद्वद्रूढ्या हरिः सः । अजः अजोऽपि । वासुदेवः वासुदेवपदवाच्यः आसीत् । कस्मान्निमित्तात् । यत् यस्मात् । परमेषु इन्द्राद्यपेक्षया उत्तमेषु । मानधि मानानि ज्ञानानि धीयन्तेऽस्मिन्निति मानधि ज्ञानपूर्णम् । मनः चित्तम् । विभ्रत्सु । एषु ब्रह्मादिदेवेषु । परं लोकविलक्षणम् । आतेजः स्वविषयकं ज्ञानम् । चकार तस्मात् अनेन वं ज्ञानं सु समीचीनं पूर्णं यस्यतत्वसु ज्ञानेन पूर्णम्मनः तेन देवः देवनंस्तुत्यादि येषान्ते वसुदेवाः (वसु धनं ज्ञानधनं तेनदेवाः प्रकाशमानाः) पूर्वोक्ताः ब्रह्मादयः तेषामयंसम्बन्धीवासुदेवः । सम्बन्धश्चतद्ज्ञानदातृत्वादिरूप इति वासुदेवशब्दनिर्वचनं दर्शितमिति ज्ञातव्यम् । तथा कृष्णः स्वप्रादुर्भावानन्तरं स्तुत्यर्थमागतानां ज्ञानपूर्ण-मनस्कानामप्युक्तं तद्ज्ञानंस्तुत्युपयुक्तं चकार । तत एवनिमित्ता-द्वासुदेवाशब्दवाच्यः । न न तु वसुदेवजातत्वेग अजत्वविरोधादिति भावः । ननु आतेजश्चकारेत्युक्त्या रमाज्ञानं ब्रह्मादिमानस-ममेवेतिप्राप्तमत आह मानधिमेति । मा रमा । अनधिमा अधि अधिका मा ज्ञानंयस्यसः अधिमः नविद्यते अधिमोयस्याः सकाशात् एतेषूक्तदेवेषु सा अनधिमा आसीदित्यर्थः । यद्वा न वासुदेवः अज इति पदच्छेदः । निर्वचनाद्वाशब्दोनवेत्यर्थकः ततश्च अजजेऽपि पायुगुह्ययोरैक्याभिप्रायेण वानां नवानां असूनां इन्द्रियाभिमानिनां देव इति वा । वानाम् नवानामसूनां देवोऽपि जयोपि योगिनां यस्याद्भवतीतिवा वासुदेवशब्दस्यानिर्वचनान्तरं च प्रदर्शितं भवतीति ज्ञातव्यम् ॥ ४ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः—सः । अजनि । देवक्यन्ते । यस्मात् । अनुकम्पना । अव । देवक्यन्ते अवदन् । देव । क्यं । ते । भुवनम् । हि । सुराः । सदा । एव । देवक्यन्ते ॥ ५ ॥
इदानी देवकीजठरजातत्वप्रसिद्धिविरोधं परिहरन् देवैः कृतसमस्तुतिं लेशतो दर्शयति स इति ।

सः कृष्णः । देवक्याः अन्ते समीप एव । अजनि प्रादुर्बभूव । अत एव नतन्मलोत्थः । तत्समीप एव प्रादुर्भूतत्वात्तज्जठरजात त्वप्रसिद्धिरितिभावः । किमर्थं प्रादुर्भूत इत्यत उक्तं देवक्यन्त इति । देवानां कः कात्कारः येषामस्तीति ते देवकिनो दैत्याः । तेषामन्ते । तादर्थ्ये सप्तमी । विनाशायेत्यर्थः । कस्मान्नम-लोत्थ इत्यत उक्तं यस्मात् सुराः वेदाभिमानिनो देवाः । देवक्यन्तेऽ-वदन्निति कं सुखं एषामस्तीति किनः तेचते देवाश्च देवकिनः । कडारादित्वात्परनिपातः तेषामन्ते तारतम्यान्तगप्रकृतिपरं परिपूर्ण-सुखमेवावदन् । तस्मान्नमलसम्भावनमस्मिन्नितिभावः । सुराः ब्रह्माद्याः अवतारानन्तरं अनुकम्पना अव देव इति पदच्छेदः । तथात्र सज्जनेषु हरेः अनुकम्पना कृपा यथास्यात्तथा अवदन् अस्तुवन् । किमिति । हे देव । क्यं कोब्रह्मा तन्निर्मितं क्यम्भुवनं अव रक्ष । हि यस्मात् सदैव ते त्वदधीनं क्यं तस्मात् । क्यन्ते इत्यपिच्छेदः । किनां सुखिनां भुयनान्तर्गतानां सज्जनानां अन्ते नाशे नृजन्मभिर्दैत्यैः प्राप्तेसति अव । इति शब्दोध्याहार्यः । तस्य चावदन्नित्यनेनान्वयः । अनुकम्पनावत् एवेति पदच्छेदः । अत्रानुकम्पनायत् अवदन्नितिक्रियाविशेषणं । तथा च सुराणां यत्स्तुतिरूपं वचनं तल्लोकानुकम्पापूर्वकमेवेत्युक्तं भवति । अस्यां योजनायां सदैवदे अवेति च्छेदोविवक्षितः । तथा च सदैवदे नित्यमेवसर्वपुरुषार्थप्रदे त्वयि विद्यमानं भुवनमवेतियोज्यम् ॥ ५ ॥ सर्वपादगतान्तभागयमकरूपोयं श्लोकः ।

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— नीतः । वसुदेवेन । स्वतनेन । सः । गोकुलम् । सुखसुदेवेन ॥ तत्र यशोदा । तनयम् । मेने कृष्णम् । स्वकीयम् । अवदातनयं ॥ ६ ॥
इतःपरं भारतोदितं कृष्णचरित्रं क्रमेणसक्षेपतोदर्शयत्युत्तर श्लोकैः नीत इति ।

सः कृष्णः । स्वततेन स्वस्मिन्व्याप्तेन हरिणाप्रेरितेन । यद्वा स्यस्य तातेन पित्रा वसुदेवेन । गोकुलं प्रति । नीतः । तत्र गोकुले । यशोदा नन्दभार्याम् । सुखसुदेवेन सु सुष्ठुवसुद्रव्यं येषां ते सुवसवः वैश्याः तेषां देवेन स्वामिना । यद्वा सु वसुदेवेन द्रोणनामकवसूत्तम-स्वरूपेणनन्देन सह । अवदातनयं अवदाताः शुद्धाः मुक्ताः तान्नयतीति अवदातनयः । नित्यमुक्त इति यावत् । तं कृष्णम् । स्वकीयं तनयम् । सु सम्यक् । मेने अमन्यतेत्यर्थः ॥ ६ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— ववृधे । गोकुलम् । अधि । आद्योदेवः । (आत् । यः । देवाः ।) विश्वम् । अद्...ताकुलम् । अधि । आ । अत् ॥ तत्र । च । पूतनिकायाः वधम् । अकरोत् । यन्निजाः । पूतनिकायाः ॥ ७ ॥ अगोकुलमति वा च्छेदः ।

ववृध इति । द्योदेवः स्वर्गोपलक्षितसर्वलेकस्वामीकृष्णः । आगोकुलं अधि ईषत् (आसम्मतात्) गवां अज्ञदृष्टीनां कुलं समृहं इन्द्रियसम्मूढजनमधिकृत्य अज्ञदृष्ट्येति यावत् । ववृधे । न वस्तुतः । कुतः ? । अद्भुताकुलम् अद्भुतमनिर्वाच्य यथास्यात्तथा आकुलं व्याकूला विश्वम् । अध्यात् अधि आधिक्येन आसमेतात् अत्तीत्यत् संहर्तेति यावत् । तथा च प्रयेप्यवस्थितस्य न वस्तुतो वृद्धिरितिभावः । यद्वा । योदेवः अद्भुताकुलं विश्वं सर्वं अगोकुलं गोगुलविरोधितृणावर्तादिकम् । अध्यात् अधि आधिक्येन आसमन्तात् अत् संहर्ता यः तस्मात् । आत् अकारशब्दवाच्यात् कृष्णात् । गोकुलं अधि आधिक्येन । ववृधे अवर्धत । तृणावर्तादिवैरिपराभूतं नाभूदित्यर्थः । तत्र गोकुले । चशब्दः कर्मान्तरसमुच्चयार्थः । नाम्ना पूतनिकायाः राक्षस्याः वधमकरेत् । स्त्रीहत्यया पापंस्यादित्यत उक्तम् । यन्निजाः यद्भक्ताः । पूतनिकायाः पूतः शुद्धः कर्मवशात् निः नीचः कायो येषान्ते तथोक्ताः कर्मवशात् नीचयोनिं प्राप्ताः यद्भक्ता अपि शुद्धाः भवन्ति इति शेषः तस्यपापमसम्भावितमेवेति भावः ।

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— अधुनोत् । शकट । लोली । पादाङ्गुष्ठेन । वातपेश-शकटम् । लोली । अतनोत् । रक्षाम् । अस्य । स्वामानात् । गोपिका । सदा । ईर•मस्या ।

अधुनोदिति । शकटं शकटगं तन्नामकमसुरम् । लोली देहचलनवान् । शकटस्याधः शायितः देहं चालयित्वा तत्समीपं प्राप्येति यावत् । पादा अङ्गुष्ठेन । अधुनोत् अकम्पयत् जघानेति यावत् । प्रये शेषशायित्वादिगुणकस्य नेदं चित्रमित्याशयेनाह वातपेशेति । वातो वायुः तं पिबन्तीति वातपाः नागाःतेशमीशःशेषः तल्लक्षणं शं सुखकरं कटं आस्तगणं द्वितीया-सप्तम्यर्थे तस्मिन् । लालीशयवनित्यर्थः अथवा वावपेशं शेषाम् । शकयाय सुखास्तरणायालोलयति प्रेरयतीति वातपेशाकटं लोली । तत्र मुमागमः छान्दसाबोद्ध्यः । यद्वा वाति प्रवर्तयति लोकं स्वोदयेनेतिवा सदागमनशील इति वः । सचसौ आतपेशः सूर्यः तस्यशकटं शकटपदोपलक्षितं (रथं) लोलयतीति तथोतः । गोपिका यशोदा । अस्य पूर्वप्रकृतस्य । अकारशब्द-वाच्यस्यवा कृष्णस्य । स्वाज्ञानात् । स्वसम्बन्धादज्ञानात् स्वः स्वतन्त्रोहरिः तदज्ञानाद्धा । रक्षां रक्षणं मन्त्रादिभिः । अतनोत् रक्षणं अज्ञानमूलमेवेत्युक्तमुपपादयति सदेति । सदा निरन्तरं । ई रमां रक्षतीति ईरक्षः । नविद्यते मा मर्यादा यस्येत्यमः परिच्छेद त्रयरहितः ईरक्षश्चासौ अमश्चेति ईरक्षामः तस्येत्यर्थः । यद्वा ईरो वायुः क्षामः कृशः यस्यात्सतथोक्तः तस्येत्यर्थः । तथा च वायोरप्यवमस्य रमारीकस्य कृष्णस्य रक्षाकरणममानमूलकमेवेति भावः ॥ ८ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— मुखलालनलोला । तन्मुखङ्ग । जगत् । अचष्ट । सालनलोलातत् ॥ न । अध्यैत् । मायाम् । अस्य । गजत्प्रभोः । स्वाधिकतततमायामस्य ॥ ९ ॥

मुखलालनेति । गोपिकेति पदमनुवर्तते । गोपिका यशोदा । अस्य कृष्णस्य । मुखलालनलोला सती मुखस्य लालने चुम्बनादिरूपे लोला आसक्ता सती । तन्मुखगं तस्य कृष्णस्य मुखे विद्यमानम् । जगत् सावरणं ब्रह्माण्डम् । अच्•ष्ट अपश्यत् । कथं भृतं जगत् सालन-लोलातत् । रलयोर्नणयोरभेदात् सालनं सारणं सरक्षकमति यावत् । तच्चतत् लोलं चलं चेष्टमानमिति यावत् तच्चतत् अतच्चतद्व्यतिरिक्तं ततथोक्तम् । अनेन जगतो भगवदात्मकत्वात् तत्रजगद्दर्शनं नचित्रमिति शङ्का निरस्तेति ज्ञातव्यम् । भेदस्यान्यत्रसाधितत्वादिति भावः । इत्थञ्जगदाश्रयमुखवत्वरूपं माहात्म्यं पर्श्यत्यपि सा न साकल्येन तन्महिमानमपायदित्याह नाध्यैदित्यादिना । जगत्प्रभोः जगत् प्रकर्षेण भावयतीतिव्युत्पत्त्या जगदुत्पत्त्यादिकर्तुः । स्वाधिकतततमायामस्य सु सुष्टु आ अधिकः अत्युत्तमः अतिशयेन ततः तततमः व्याप्तः आयामः गुणक्रियारूपविस्तारो यस्य स तथोक्तः तस्य कृष्णस्य । मायां महिमानम् । नाध्यैत् नाध्यगच्छत् । अनयाऽज्ञातं जगदुत्यत्त्यादि-कर्तृत्वरूपं नियामकतयान्तर्बहिर्विस्तृतावयवत्वादिरूपं च माहात्म्या-न्तरमस्तीति भावः ॥ ९ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— तस्य । सुशर्माण्यकरः । दरिणः । गर्गः । सदुक्ति-कर्माणि । अकरोत् । अवदत् । नामानम् । अयम् । जगदादिम् । वासुदेवनामानम् । अयम् ॥ १० ॥

तस्येति । सुशर्माण्यकरः सु समीचीनं शर्म सुखं येषान्ते सुशर्माणः मुक्ताः तैरण्यः प्राप्यः विष्णुः करे यस्य स तथोक्तः विष्ण्वर्चक इति यावत् । यद्वा स•र्माभिर्यादवैः अ•यः प्राप्यः करो बलिर्यस्य सतथोक्तः । यादवानां पुरोहित इति यावत् (सुशर्मवरेण्यकर इति वा पाठः । सुशर्मसमीचीनं सुखं तस्मै वरेण्यौ वरणीयौ करौ यस्य सः) गर्गः । दरिणः दरः अस्यास्तीति दरी तस्य शङ्खपाणेः । तस्य कृष्णस्य । सदुक्तिकर्माणि सत्यो निर्दुष्टाः उक्तयः श्रुतयो येषां तानि सदुक्तीनि श्रुतिविहितानीति यावत् । तानि च तानि कर्माणि जात-कर्मादीनि च तानि सदुक्ति कर्माणि । अकरोत् । अयं गर्गः । वासुदेवनामानं उक्तरीत्या वासुदेव नामकं कृष्णम् । अवदत् । नन्दादीन्प्रतीतिशेषः । वासुदेव इति नामास्य चकारेत्यर्थः । कथं भूतमवदत् । नामानं नविद्यते आ समन्तात् साकल्येनेेति यावत् प्रतिपादकं मानं प्रमाणं यस्य सतथोक्तः तम् । पुनःकथं भूतम् । अयं अयति प्रेरयतीत्ययः तं जगत्प्रेरकम् । पुनः कथं भूतम् । जगदादिं जगत्कर्तारम् । गर्गः जातकर्मनामकरणादीन् संस्कारान् कृत्वा उक्तगुरहर्यवताररूपं कृष्णं नन्दादीन् प्रत्युपदिष्टवानित्यर्थः ॥ १० ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— तस्य । सखा । बलनामा । ज्येष्ठः । भ्राता । अथ । यत् । निजा बलना । मा । यस्य । च पर्यङ्कः । अयम् । पूर्वतनः । विष्णुम् । अजसपर्यम् । कः । अयम् ॥ ११ ॥

तस्येति । तस्य कृष्णस्य । भ्राता । बलनामा । गर्गेण कृत इति शेषः । सः बलनामा तस्य सखा इष्टः ज्येष्ठश्च । इदं सखित्वं ज्येष्ठत्वं च स्वरूपतस्समत्वोत्तमत्वाभ्यां न किं त्ववतारेप्रियत्व पूर्वजत्वाभ्या-मेवेत्याशयेन कृष्णबलयोः स्वरूपस्थितिमाह यन्निजेति । मा रमा । यन्निजाबलना यत् यस्यकृष्णस्य निजाबलना स्वाभाविकावरणरूपा ‘लक्ष्मीघराभ्यामाश्लिष्ट इति वचनात्’ अत्र बकारस्यवत्वं लस्यरत्वं च तयोरभेदविवक्षया । (निजा स्वभावसिद्धा बलना बस्यलत्वं ललना भार्येतिवा) यस्य कृष्णस्य । अयं बलः । पूर्वतनः पुरातनः मूलरूपसम्बन्धी । पर्यङ्कः शय्याच । अथ तस्मात् । अजसपर्यं अजस्यब्रह्मणः सपर्या पूजायस्यस तथोक्तः तं ब्रह्मपूजितम् । विष्णुं विष्णुस्वरूपं कृष्णम्प्रति । अयं बलः । कः किंशब्द आक्षेपे नोत्तमो नापि सम इत्यर्थः । तस्मादवतारप्रयुक्तमेव ज्येष्ठत्वादिकमिति लभ्यत इति भावः ॥ ११ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— तेन । हतः । वातरयः । तृणचक्रः । नाम । दितिसुतः । अवातरयः । हरमाणः । बालतमम् । स्वात्मानम् । कण्ठरोधिना । अबालतमम् ॥ १२ ॥

तेनेति ॥ वातरयः वातरो वायुः तद्वत् रयोवेगो यस्य स तथोक्तः । तृणचक्रो नाम तृणावर्तो नाम । दितिसुतो दैत्यः । स्वात्मानं द्वितीया षष्ठ्यर्थे स्वात्मनः । कण्ठरेधिना कण्ठगश्वासरोधिनेत्यर्थः । तेन कृष्णेन । अवातरयः श्वासरूपवातवेगरहितस्सन् । हतः । कुतोहत इत्यतो हेतुगर्भाविशेषणमाह हरमाण इति । अबालमं अबाडतमं नविद्यते वाट्वाहको यस्य स अवाट् अता व्याप्ता मा रमा (मितिः परिमाणम्) यस्य स अतमः अवाट्चासावतमश्च अवाडतमः तं बस्यवत्वं लस्यडत्वं च पूर्ववत् । बालतमं अतिशयेन बालरूपम् । स्वातनमित्यस्य द्वितीयान्तस्यैवात्रसम्बन्धः । अत्र स्वशब्दन हननकर्ता कृष्णः परामृश्यते । स्वत्त्रात्मानमितिवार्थः । तता च यतो हरमाणः (उन्नीतवान्) ततो हत इत्यर्थः ॥ १२ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— सः । अवनिमध्ये । रङ्गन् । अरिदरयुक् । बालरूपम् । अधि । आ । ईरम् । गन् । अमुषत् । नवनीतम् । अदः । अगोकुले । गोपिकासुनवनीतमदः ॥ १३ ॥

स इति । सगोकुले गोकुलसहिते । अवनिमध्ये गृहप्रदेशमध्ये । रङ्गन् रिङ्खणङ्कुर्वन् । अरिदरयुक् चक्रशङ्खधरः । सः कृष्णः । बालरूपं अधि आ ईरं गन् इति पदच्छेदः । तथाच बालरूपं ईरम् वायुम् । अधि अधिरुह्य । आ समन्तान् । गन् गच्छन् । अदः दूरस्थितं शिक्योपरिगभाण्डे विद्यमानमिति यावत् । नवनीतम् । अमुषत् । कथम्भूतः । गोपिकासुनवनीतमदः । गोपिकानां सुशोभनो नवः स्तवः तेन नीतः प्राप्तः मदः सुखं यस्य स तथा । (अथवा गोपिकासु नवेन नूतनेन चौर्येण उत्पादितः मदः अनुग्रहसुखं आग्रहो वा यस्मात्स इति वा) ॥ १३ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— तन्माता । कोपम् । इता । तम् । अनुससार । आत्मवादवाकोपमिता । जगृहे । सा । अ (आ) नमनम् । तम् । देवम् । तच्चिन्तया । एव । सानम् । अनन्तम् ॥ १४ ॥

तन्मातेति । तन्माता तस्य कृष्णस्य माता यशोदा । नवनीतचौर्यादिना कोपम् । इता प्राप्तासती । तं पलायमानं कृष्णम् । अनुससार अन्वगच्छत् । कथम्भूत । आत्मवादवाकोपमिता आत्मवादवाकः परमात्मप्रतिपादकवाक्यं वेदः (आत्मनोवाकः वेदः) तत्सदृशी । यथा वेदवाक्यं आपातप्रतीतं कर्मादिकं परित्यज्य मुख्यतः परमात्प्रानमेवानुगच्छति तथा यशोदापि इतरत् गृहकृत्यं परित्यज्य तमेवान्वगच्छदिति भावः । सा यशोदा । अनमनं न विद्यते नमनं प्रह्वीभवनं यस्य स तथा तमिति । मातृभक्त्या आ ईषत् नमनं यस्यसतथा तमितिवा । देवं क्रीडादिगुर विशिष्टं । तं कृष्णम् । तच्चिन्तयैव ‘इमं मां गृह्णात्विति तदिच्छयैव’ न स्वप्रयत्नेन । जगृहे जग्राह । पुनः कथम्भूतम् । सानं जगद्व्यापारसहितं (स चेष्टं धावन्तम्) पुनःकथम्भूतम् । अनन्तं गच्छन्तम् । अपरिच्छिन्नं वा ॥ १४ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— तन्माता । कोषम् । इता । तम् । अनुससार । आत्मवादवाकोपमिता । जगृहे । सा । अ (आ) नमनम् । तम् । देवम् । तच्चिन्तया । एव । सानम् । अनन्तम् ॥ १४ ॥

अथेति । अथ अनन्तरम् । सा यशोदा । अन्तरितामानं अन्तः इतं प्राप्तं आसमन्तात् सर्वस्मिन् विषय इति यावत् मानं ज्ञानं यस्य स तथा तं (अन्तः इताः गताः अमानाः अभिमानरहिताः मुक्ताः यस्य स तथा तं) यद्वा अन्तः उदरे इताः प्राप्ताः अः ब्रह्मा च मा रमा च अनःप्राणश्च यस्यसतथोक्तस्तामित्यर्थः । विष्णुं व्यासम् । विश्वोद्भवं विश्वस्य उद्भवो यस्मात्सतथातं । सदा सर्वदा । अन्तरितामानं अन्तः इतं गतं अमानं अपरिमितं जगज्जातं यस्यसतथातम् । यद्वा सदा सर्वदा । अन्तरितामानं अन्तरितं व्यवहितं अमानं अज्ञानं यस्य सतथातम् । तथा च बन्धायोग्यमित्यर्थो लभ्यते । एतदुपपादनायैव प्राचीनविशेषणानि । तं कृष्णम् । दामोदरतां दाम रज्जुः उदरे बन्धकं यस्य स दामोदरः तस्य भावः । दामोदरता ताम् । अनयत् दाम्ना बद्धं चकारेत्यर्थः । । जडाज्ञानं तस्य बन्धकतया नास्तीति पूर्वमुक्तम् । इदानी तदभिमानिनी रमापि तदुपजीविनी न तद्बन्धिकेत्याशये नाह य इति । तमित्यन्वयः । तथा च बन्धायोयस्यापि यद्बन्धनं तत्तदिच्छयैवेति भावः । यः कृष्णः । निजामोदरतां निजः स्वरूपभूतः आमोदःपूर्णं इतरगुणोपलक्षरमेतत् तस्मिन्रतां स्निग्धाम् । सुन्दरी दुर्गी। सदेत्यावर्तते । सदा । अरमयत् नित्यमुक्तामकरोत् ॥ १५ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— चक्रे । सः । अर्जुननाशम् । प्राप्नोति । यत्स्मृतिः । सदा अर्जुनना । शम् । तौ । च । गतौ । निजम् । ओकः । तेन । एव । नुतेन यत् । निजानिजमोकः ॥ १६ ॥
किञ्च संसारपाशात् मोचयन् कृष्णाः अन्यैर्न बद्धुं शक्य इत्याशये नाह चक्र इति ।

सः कृष्णः । अर्जुननाशं अर्जुनयोः तन्नामकवृक्षयोः नाशम् । चक्रम् । यत्स्मृतिः यस्य स्मरणवान् । अर्जुनना अर्जुनः धवलः शुद्ध सचासौ ना पुमांश्च सतथा । शुद्धोभूत्वेति यावत् । सदा । शं नित्यसुखं मोक्षञ्चाप्नोति । तौ वृक्षशरीरौ नकूबरमणिग्रीव-नामानौ सुरौ । नुतेन स्वकर्तृकस्तुतिविषयेण । तेनैव कृष्णेनैव । न स्वप्रयत्नेनेत्यर्थः श्री कृष्णानुग्रहेणैव शापमोक्षं प्राप्तौ । निजम् ओकः स्वकीयं स्थानं स्वर्गस्थानम् । गतौ प्राप्तौ । चशब्दात् तौ तदाविष्टौ धुनिचमुनामानौ दुष्टौ तावपि निजं स्वमोकः स्थानं तमोलक्षणङ्गताविति सूचयति । कुत एतदुभयमित्यतो भगवत्स्वभाव एतादृशा इत्याह यन्निजेति । यत् यस्मात् । निजानिजमोकः निजानिजयोः भक्तद्वेषिणोः मोकः मोचनं स्वस्वयोग्यं भवतीति शेषः । तेनेत्यन्वयः ॥ १६ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— अथ । बृन्दावनवासम् । गोपाः । चक्रुः । जगच्छ्रिता । अवनवासम् । तत्र । बकासुरमारः । शौरिः । अभूत् । नित्यसंश्रिता सुरमारः ॥ १७ ॥

अथेति । अथ अनन्तरम् । गोपाः । बृन्दानवनवासम् गेपगोपीगवां बृन्दस्य समूहस्य अवनं रक्षणं यस्मात्तत्तथा तस्मिन् बृन्दावनसज्ज्ञेवने वासम् । जगच्छ्रिता जगन्निवासेन कृष्णेन सह । चक्रुः । कृष्णसाहित्यात् । न स वन वास इत्याह अवनवासमिति । न वनवासः अवनवासः तं स्वर्गतुल्यमिति भावः । तच्चोक्तं ‘बृन्दावनं यदधिवासत आस सद्ध्र्यङ्माहेन्द्रसद्मसदृशं किमुतत्र पुर्यामिति’ । तत्र बृन्दावने । शौरिः शूरस्य गोत्रापत्यं पुमान् कृष्णः । बकासुरमारः बकः तन्नामकश्चासावसुरो दैत्यश्च तं मारयतीति बकासुरमारकः । अभूत् इत्यन्वयः । कथम्भूतःशौरिः । नित्यसंश्रितासुरमारः असुश्च रमाच असुरमे नित्यं संश्रितेचते असुरमे च ते रमयतीति रः लोके मरणं मुख्यप्राणेन तमेमिान्यिादुर्गया च भवति तदुभयाश्च यस्य तदुभयरति-प्रदस्य कृष्णस्यासुरमारकत्वं नाश्चर्यकरमिति भावः ॥ १७ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— अहनत् । वत्सतनूकम् । यः । अपात् लोकम् । स्वयत्नवत् । सतनूकम् । सः । अपात् । वत्सान् । अमरः । सहाग्रजः । गोपवत्सवत् । सानमरः ॥ १८ ॥

अहनदिति । सतनूकं उः रुद्रः को ब्रह्मा एतौ तनू विष्ण्वपेक्षया अल्पौ नीचाविति यावत् तौ च तौ उक्तौ च तनूकौ ताभ्यां सहितः सतनूकः तं लोकम् । स्वयत्नवत् सुष्ठु न विद्यते यत्नो यस्य सः स्वयत्नः पुमान् त्वतत् । यः । अपात् । यश्च अमरः मरणशून्यः । सानमरः अनः प्राणः मा रमा च अनेमे ताभ्यां सहितं सानमं जगत् तद्रमयतीति सानमरः । सहाग्रजः अग्रजेनसहितः कृष्णः । गोपवत्सवत् गोपालसूनुवत् । वत्सान् । अपात् पालयामास । तत्र प्राप्तं वत्सतनूकं वत्सरूपधरन्दैत्यम् । अहनत् हिंसितवान् जघान ॥ १८ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— सः । विभुः । श्रीमान् । अहिके । ननर्त । यस्य । श्रमानमा । मा । न । हि । के । अकरेत् । नद्युदकान्तम् । कान्तम् । नीत्वा । उरगम् । सः । ना । आद्युदकान्तम् । (नाद्युदकान्तम्) इति वाच्छेदः ॥ १९ ॥

स इति । विभुः समर्थः । सः कृष्णः । अहिके सर्पशिरसि । ननर्त नृत्यं कृतवान् । तथापि सः श्रीमान् । सर्पविषेण तस्यशरीर-कान्तिर्नापगतेति भावः । प्रलयकाले सर्पशयनस्य नेदमाश्चर्य-मित्याशयेनाह यस्यश्रमेति । के प्रलयोदके । ‘अहिक’ इत्यस्या-वृत्तिः । अत्र क शब्दः शरीरपरः तस्मिन् शयानस्येति शेषः । तथा च प्रलयोदके अहिशरीरे शयानस्य तस्मिन् शयानस्येति शेषः । तथा च प्रलयोदके अहिशरीरे शयानस्य यस्य श्रीकृष्णस्य । मा श्रीः शरीरकान्तिः । श्रमानमा श्रमेण सर्पविषजन्यश्रमेण आ ईषदपि नमा नम्ना । श्रगकृतैषत्सङ्कोचवतीति । यावत् । न नबभूव । हि इत्यनेन तत्र प्रमाणप्रसिद्धिं दर्शयति । तथा च प्रलयोदके अहिशरीरे शयानस्य यस्य श्रीकृष्णस्य शोभा नसङ्कुचिता भवति तस्याहिमस्तके नर्तनमात्रेण शोभाऽनपगम इति किं वक्तव्यमिति भावः । सः श्रीमान् इति सम्बन्धः । ना परमपुरुषः । नद्युदकान्तं नद्याः यमुनायाः उदकस्य अन्तो नाशो विषेणदूषणं यस्मासतश्रातम् । उरगं कायिम् । आद्युदकान्तं द्वीपम् । आदौ अन्ते च उदकं यस्येति । योगात् द्वीपमेवहितादृशम् । यथा च समुद्रमध्यागतं रमणकाख्यद्वीपं प्रतीत्यर्थः । (नाद्युदकान्तं नादः घोषः अस्यास्तीति नादी समुद्रः तस्य उदकमध्यस्थ द्वीपं प्रतीत्यर्थ इति वा) नीत्वा प्रापयित्वा । तन्नद्युदकमिति शेषः । कान्तं मनोहरं निर्विषमिति यावत् । अकरोत् कृतवानित्यर्थः ॥ १९ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— हत्वा धेनुकमूढम् । बलात् । प्रलम्बम् । च । खेट् । सधेनुकम् । ऊढम् । व्रजम् । आवीत् । अमृताशः । पीत्वा । वह्निम् । चरस्थिरादम् । ऋताशः ॥ २० ॥

हत्वेति । ननु विघ्नेश्वरवरेण दीर्घायुष्यवतो धेनुकस्यहननं कथं कृष्णेन कृतमित्यत उक्तं खेडिति । खेट् आकाशाभिमानिनः धेनकवरदातुर्विनायकस्येश्वरः कृष्णः । धेनुकमूढं धेनुकाख्यं मूर्खं खरमिति यावत् । ऊढं बलरामेणरूढम् । प्रलम्बम् च । बलात् बलरामाविष्टरूपेण । हत्वा । सधेनुकं देनुस्सिहितम् । व्रजम् । अमृताशः । (आनन्दामृताशनोऽपि) चरस्थिरादं चराचरभक्षकम् । वह्निम् । पीत्वा । आवीत् रक्षितवात् । ननु वह्निनाशः प्रकारान्तरेणापि कुतो नकृत इत्यस्य उक्तं ऋताशः सत्यसङ्कल्प इत्यर्थः ॥ २० ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः—गिरिणा । रक्षा । अपि । कृता । व्रजस्य । तेन । स्वरक्षरक्षापिकृता । शक्राय । व्यञ्जयता । स्वां । शक्तिं । विश्वम् । आमात्मना । अव्यम् । व्यञ्जयता ॥ २१ ॥

गिरिणेति । तेन कृष्णेन । गिरिणा गोवर्धनपर्वतेन । व्रजस्य इन्द्रप्रमुक्ते मेघपीडितस्य गोकुलस्य । रक्षा । कृता । अपिशब्दः पूर्वोक्तरक्षणसमुच्चायकः । कथम्मूतेन तेन । स्वरक्षरक्षापिकृता स्वरः (स्वरित्यव्ययं स्वश्चासौ अश्च स्वरः स्वतन्त्रः) आनन्दरूपी कृष्णः तस्मै क्षीरं क्षरन्तीति स्वरक्षरा गावः तासां क्षः क्षयो येभ्यस्ते स्वरक्षरक्षाः मेघाः तान् आ समन्तात् पालयतीत्यापिरिन्द्रः तं करोतीति कृत् तेन इन्द्रस्य मेघपालकत्वप्रदेनेति यावत् । नन्विन्द्रेण कथं स्वोपजीव्यभगवद्विरोधः कृत इति चेत् कृष्णे भगवदवतारत्वस्य तेन विस्मृतत्वात् । अत एवाह शक्राय स्वां शक्तिं व्यञ्जयतेति । (स्वां स्वकीयां शक्तिं भगवदवता-रत्वस्मारकशक्तिं प्रकाशयतेत्यर्थः) प्रयोजनान्तरमाह विश्वमित्यादिना । अव्यमित्यस्य देहीदीपन्या-येनोभयत्रसम्बन्धः । तथा च । आत्मना स्वेन । अव्यं रक्ष्यम् । विश्वम् अव्यं (सत्) रक्ष्यम् । व्यञ्जयता । गोपान् प्रति विज्ञापयतेत्यर्थः । व्रजरक्षणेन सर्वजगद्रक्षणमपि मयैवक्रियत इति गोपानां ज्ञापितवानिति भावः ॥ २१ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— रेमे । गोपीषु । अरिहा । सः । मन्मथाक्रान्त-तसुन्दरीपीषु । अरिहा । पूर्णानन्दैकतनुः । सः । विश्वरुक्पावनः । अपि । आनन्दैकतनुः ॥

रेमे इति । अरिहा शङ्खचूड•ख्यवैरिहन्ता । सः कृष्णः । गोपीषु। रेमे । कथम्भूतासु । मन्यथाक्रान्तसुन्दगीपीषु इः कामः पिः पाता यस्य तदिपि स्त्रीगुह्यं तदेव श्रीः सम्पत् यासां ताः ईप्यः मन्मथाक्रान्ताः कामाविष्टाश्चताः सुन्दर्यश्च ता ईप्यश्चतास्तथा तास्वित्यर्थः । कामिपुरुषेवत् तस्य स्त्रीसेवया रमणं नेत्याह अरिहेति । अत्र रस्य लत्वं विवक्षितम् । यमक संरक्षणार्थं तथोक्तम् । लिट्लोनं सेवनं तदभावो अलिट् तेन अलिहा असेवनेन सेवां विनेति यावत् । कुत इत्यत आह पूर्णोति । यतः इति शेषः । सः कृष्णः । यतः पूर्णानन्दैकतनुः पूर्णः सर्वेभ्योऽधिकः आनन्द एव एका मुख्या तनुः शरीरं यस्य सः अवाप्तसमस्तकाम इति यावत् । अतो असेवयेति गम्यत इति भावः । तर्हि किमर्थं रेम इत्यत आह विश्वरुगित्यादिना । अपि यद्यपि पूर्णानन्दैकतनुः विश्वरूक्पावनः विश्वेषां सर्वेषां भक्तानां कामाद्युपद्रवहन्तो । आनन्दैकतनुः आनन्दयतीत्यानन्दा । तत्प्रदा एका मुख्या तनुरवतारो यस्यस तथा । तथा च गोपिकानां भक्तत्वात् तासां कामाद्युपद्रवनाशायानन्दप्रदानाय च रमणं न स्वप्रयोजनायेति भावः ॥ २२ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— अथ । हतयोः । गकिेश्योः । श्वफल्कजप्रापितः । पुरी गकिेशी । ओः भङ्क्त्वा । धनुः । आजवरम् । जघान । तेन । एव । च । स्वयम् । राजवरम् ॥ २३ ॥

अथेति । अथ अनन्तरम् । गकिेश्योः । गसाध्यध्वनिविशेषोऽस्यास्तीति गी वृषभाकारोऽरिष्टनामाऽसुरः । केशा अस्य सन्तीति केशी तुरगरूपो दैत्यः तयोर्गकिेश्योः । गकिेशिनोरिति वक्तव्ये इत्यर्थक इप्रत्ययोप्यस्तीत्याशयात् व्यत्ययः दैत्ययोः कुत्सनार्थ इत्यप्याहुः । हतयोः (सतोः) पुरी मधुरां (प्रति) । श्वफल्कजप्रापितः श्वफल्कजोऽक्रूरः तेन प्रापितः । गकिेशी गनिौ सुगौ (सुस्वरकण्ठै) स्तुवत्कण्ठाविति यावत् । तौ चतौ केशौ च को ब्रह्मा ईशो रुद्रः । तावस्य स्त इति तथोक्तः ब्रह्मरुद्राभ्यां स्तूयमान इति यावत् । स इत्यनुवर्तते । सः कृष्णः । स्वयं स्वयमेव नान्यवरादिनेति भावः । ओः उकारवाच्यस्य रुद्रस्य (अः अकारवाच्यः उक्ष उत्कृष्टः अश्चासौ उश्च ओः । आत् चतुर्मुखात् उः उत्कृष्टः ओः श्रीकृष्णः) धनुः रुद्रधनुरित्यर्थः । कथम्भूतं धनुः । आज वरं अजो ब्रह्मा रुद्रो वा तत्सम्बन्धी आजः वरो यस्य तत्तथोक्तं तत् । भङ्क्त्वा । तेन भग्नेन धनुषा तत्खण्डेनेति यावत् । राजवरं कं सबलम् । जघान । बसय वत्वं लस्य रत्वं च यमकार्थम् । एवमग्रेऽपि द्रष्टव्यम् ॥२३॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— मृत्नन् । गजम् । उग्रबलम् । सबलः । रङ्गम् । विवेश । सृति । मुक् । रबलम् । हत्वा । मल्लौ । बलिनौ । कंसम् । च । विमोक्षितौ । ततौ । रौ । बलिनौ ॥ २४ ॥

मृत्नन्निति । सबलः बलरामेण सहितः । कृष्ण इत्यध्याहारः । कृष्णः । उग्रबलं उग्रो रुद्रः तद्वरो यस्य स तथोक्तः वबयोरभेदात् रलयेरभेदाच्च । उग्रं बलं यस्येति वा तम् । गजं कुवलयापीडसञ्ज्ज्ञाम्। मृत्नान् मर्दयन् । रबलं वबयो रलयेरभेदः रवेण बाद्यध्वनिविशेषण रं रमणीयम् । अथवा रं रमणीयं वरं वरणीयम् । रङ्गम् युद्धसन्नद्ध-शत्रुस्थानम् । विवेश । (तत्र) बलिनौ बलं बरोवा अनयोरस्तीति तौ । मल्लौ चाणूर मुष्टिकसज्ज्ञौ । कंसं चशब्दात्तत्सैन्यं च हत्वा ब्रह्मादिसंस्तुतोऽूदितिशेषः । ततौ तातौ देवकीवसुदेवौ । विमोक्षितौ । तेन बन्धादिति च शेषः । कथं भूतौ ततौ । रौ रमणीयौ भक्त्यादि-गुणोपेतावित्यर्थः । पुनः कथम्भूतौ । बलिनौ वबयोरलयोश्चाभेदः नस्यणत्वं च ‘अहं युवयोः पुत्रोभविष्यामीति’ पूर्वं स्वदत्तवरवन्तौ । संसारमोचकस्य निगडबन्धमोचकत्वं नाश्चर्यकरमित्याशयेनाह सृतिमुगिति । सृतिमुक् सृतेः संसारात् मेचयतीति तथा यतोऽत इति शेषः । (श्रुतिमुक्) इति पाठे जात इति शेषः । तथा च पश्चादुपनीतः सर्वश्रुत्यध्ययनं सान्दीपनिसकाशात्कृतवानित्यर्थः । श्रुतिं मुञ्जति उच्चारयतीति श्रुतिमुगिति व्याख्यानात् ॥ २४ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— प्रादात् । सान्दीपिनये । मृतपुत्रम् । मानदीपसान्दीपनये । गुर्वर्थे । अज्ञानतमःप्रभेदिता । नित्यसम्भृताज्ञानतमः(पूर्वार्धे प्रदात्सान्दीपनये गुर्वर्थ मृतपुत्रं इति, उत्तरार्धे ततमाज्ञान तमः प्रभेदिता इति वा पाठः) ॥ २५ ॥

प्रादादिति । सबल इति कर्तृवाचकपदमनुवर्तते । तथा च सबलः कृष्णः । गुर्वर्थे तादर्थ्ये सप्तमी गुरुदक्षिणार्थम् । ज्ञानदीपसान्दीपनये ज्ञानमेव दीपः ज्ञानदीपः तस्य सम्यक् समन्तात् ये दीपकाः ते ज्ञानदीप सान्दीपाः पण्डिताः तानपि यो नयति शिक्षयतीति सः ज्ञानदीपसान्दीपनिः तस्मै । सान्दीपनये सान्दीपनि नाम्ने गुरवे । मृतपुत्रम् । प्रादात् । ननु गुरुकुलवासेन भगवता विद्याप्राप्ताचेत् तस्य ज्ञानं प्रसक्तम् । अतेऽज्ञानतम इत्यादि विशेषणद्वयेन तं विशिनष्टि अज्ञानेति । अज्ञानतमःप्रभेदिता सर्वसज्जनाज्ञानतमच्छेत्ता । नित्यसम्भृताज्ञानतमः नित्यं सम्यक् भृता धृता आज्ञा ययासा नित्यसम्भृताज्ञा सा चासौ नता नम्ना ब्रह्मादि नतावाच्छेता सकलविद्यादेवता रमा यस्य नमनपूर्वकं आज्ञाधारिणी स कथं अमानेन गुरुकुलवासं कुर्यात् । किन्तु लोकशिक्षार्थमेव कृतवानिति भावः । (ततमाज्ञानतमः प्रभेदिता ततत्वात्तं अतिशयेन तं ततमं तच्च तत् अज्ञानं तदेव तमः तस्य प्रभेदिता छेत्ता) ॥ २५ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— जित्वा । मागधराजम् । तोषितम् । अकरोत् । सदा । आत्मयोगधराजम् । अनुकुर्वत् । निजसदनम् । चक्रे । रम्यम् । पुरम् । सुबोधजिसदनं ॥ २६ ॥

जित्वेति । कृष्ण इत्यध्याहारः । मागधराजं मगधदेशाधिपत्तिं जरासन्धम् । जित्वा । सदा निरन्तरम् । आत्मयोगधराजं आत्मनो योगः आत्मयोगः स्वविषयकध्यानादिरूपः तस्य धरः सचासावजो ब्रह्म च स तथोक्तः तम् । तेषितं सन्तुष्टम् । अकरोत् कृतान् । ब्रह्माहि जरासन्धायाजेयत्वं वरं दत्वा कृष्णो यदि मद्वचनगौरवेण जरासन्धं नजयेत्तर्हि महाननर्थो भविष्यतीति भीतो बभूव । अतः कृष्णः तं जरासन्धं जित्वा तदीयभयनिवारणं कृतवानित्याशयः । निजसदनं श्वेतद्वीपाभिधम् । अनुकुर्वत् अनुकरणशील समुद्रमध्यगतत्वात्तत्सदृश-धर्मोपेतमिति यावत् । अत एव रम्यं मनोहरम् । पुरं द्वारवत्याख्यं पुरम् । चक्रे निर्मितवान् । कथम्भूतं निजसदनम् । सुबोधनिजसदनं सुबोधेन समीचीनेन भगवत्साक्षात्कारेण निजाः स्वस्वरूपाविर्भावं प्राप्ताः मुक्ता इति यावत् तेषां सदनं आवासस्थानम् । सुबोधनिज-सदनमित्यावर्तते । समीचीनबोधवद्यादवादिसदनं पुरं चक्रे । भगवतः मुख्यकर्तृत्वाच्चक्र इति प्रयोगः ॥ २६ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— प्रसभम् । सः । गजबलस्य । क्षत्रस्य । उच्चैः । समगधराजबलस्य । मानम् । शिशुपालवरम् । हत्वा । भैष्मीम् । अवाप शिशुपालवरम् ॥ २७ ॥

प्रसभमिति । सः कृष्णः । गजबलस्य गजशब्दोऽश्वाद्युपलक्षकः । तथा च गजादिरूपचतुरङ्गं बलं सैन्यं यस्य तद्गजबलं तस्येत्यर्थः । समगधराजबलस्य मगधराजसैन्येन सहितस्य । क्षत्रस्य रुक्म्यादिरूपस्य । उच्चैर्मानं उत्कृष्टमहङ्कारम् । हत्वा । प्रसभं यथास्यात्तथा । भैष्मी रुक्मिणीम् । अवाप । कथम्भूतं मानम् । शिशुपालवरं शिशुपालो वरो यस्मिन्विषयतयाऽस्तीति स तथोक्तः तं शिशुपालः रुक्मिण्यावरोऽस्माभिः कृतोऽस्तीत्येवं शिशुपालवरत्व-विषयकमित्यर्थः । नन्वेवं भूतो अहङ्कारः कतो जात इत्यतस्तं विशिनष्टि । शिशुपालवरं कृष्णस्य (शिरवश्चते पालाः लोकपालाश्च) शिशूभूताः पालाः पालकाः ये ब्रह्माद्याः तेषां वरो यस्मिन् अहङ्कारे कारणतयास्ति स तथोक्तस्तम् । ब्रह्मादिवरजन्यमिति यावत् ॥२७॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— हंसः । डिभिकः । चपलौ । अमुना । संसूदितौ । यवनकः । च । पला । कीर्तिः । विमला । विरता । प्रतता । विश्वाधिपावनी । ईलाविरता ॥ २८ ॥

हंस इति । अमुना कृष्णेन । चपलौ चञ्चलौ हंसोडिभिकश्चेत्येतौ। संसूदितौ निहतौ । यवनकश्च कालयवनमामाऽसुरश्रच संसूदितः । पला परा । कीर्तिः । प्रतता प्रकर्षेण व्याप्त । कृतेति शेषः । पुनः कीर्ति विमलेत्यादि विशेषणचतुष्टयेन विशिनष्टि । विमला निर्मला । विरता वि विशिष्टाः रमाब्रह्मादयः सुराः रताः यस्यां सा तथा । विश्वाधिपावनी विश्वेभ्यो भागीरथ्यादितीर्थेभ्येप्याधिक्येन पावयतीति तथोक्ता । विश्वम् आधिक्येन पावयतीति वा । ईलाविरता ईलः रलयोरभेदः ईरः मुख्यवायुः तेन आविः आविर्भूता प्रकटिता अता व्याप्ताचेत्यर्थः । ईलाविश्वसा अताचेति विग्रहः ॥ २८ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— सत्याजाम्बवतीर्याः । भार्याः । विन्दाद्याः । भानु-साम्बवतीः । याः । प्रद्युम्नम् । मोदरतः । प्राप । ज्येष्ठम् । हरिः । सुतम् । मोदरतः ॥ २९ ॥

सत्येति । हरिः कृष्णः । याः सत्याजाम्बवतीर्याः सत्याजाम्बवत्यौ ईर्ये आर्ये यासां ता स्तथाभूताः । तृतीयोऽतिशय सति आकारस्थाने ईकारः । विन्दाद्याः मित्रविन्दाद्याः । भार्याः ताः प्राप । कथम्भूताः । भानुसाम्बवतीः भानुः सत्यभामासूनुः साम्बो जाम्बवतीसुतः एतदादिक पुत्रवतीरित्यर्थः । मोदरतः मा रमारूपा रुक्मिमणी तस्याः उदरतः । प्रद्युम्नं प्रद्युम्नाख्यम् । ज्येष्ठं सुतं (च) प्राप । नन्वेवं विषयसापेक्षं हरेः सुखमित्यायातमत आह । मोदरतः रुक्तिमण्यादि विषयासम्बद्धे सम्भोदरूपं स्वस्मिन्नेवरत इत्यर्थः ॥२९॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यत्परिवारतया । ईशाः । जाताः । देवाः । नृपात्मना । अरतयेशाः । यद्भरितम् । विषसर्पभृति । ध्वान्तम् । न । मारुतिम् । विषसर्प ॥ ३० ॥

यत्परिवारतयेति । यत्परिवारतया यस्य कृष्णस्य परिवारतया (परि परितः वारयन्तीति व्युत्पत्त्या शत्रुनिवारकतया श्रीकृष्णकार्याङ्ग सेवतानिमित्तेनेति यावत्) ईशाः सर्वलोकानामिति शेषः । देवाः शेषाद्याः । नृपात्मना क्षत्रियत्वेन । जाताः । कथम्भूताः देवाः । अरतयेशाः अः परमात्मा तस्मिन् रतः अरतः याति सदा गच्छतीति यः मरुत् अरतश्चासौ यश्च अरतयः सईशो येषां ते तथोक्ताः । यद्भरितं तेन कृष्णेन भरितं पूर्णम् । मारुतिं भीमम् । विषसर्पप्रभृति विषसर्पजलवह्निपूर्वकम् । ध्वान्तं तमः मारकं वस्त्विति यावत् । न विषसर्प न विससर्प न प्राप । यमकार्थं सस्य षत्वम् । स हरिरिति पूर्वेणान्वयः ॥ ३० ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— येन । हिडिम्बबकाद्याः । रक्षोधीशाः । निपातिताः । बबकाद्याः । भीमे । प्रीतिम् । अमेयाम् । व्यञ्जयता । तेन । शेषपाति । ममे । याम् ॥ ३१ ॥

येनेति । येन कृष्णेन । बबकाद्याः बबकं मांसं अद्यं अदनयेग्यं येषां ते तथोक्ताः । बबकं मांसमज्जयोरित्यभिधानात् । हिडिम्बबकाद्याः हिडिम्बकिर्मीरपूर्वकाः । रक्षोधीशाः राक्षसेश्वराः । तेन भीमेव निमितेन । निपातिताः निषूदिताः । ननु कृष्णेन राक्षसहनने भीमः कस्मान्निमित्तीकृत इत्याशङ्का परिहारायोक्तं भीम इति । अमेयां भीमादन्यत्र निर्मातुमयोग्याम् । प्रीतिम् । व्यञ्जयता अभिव्यक्ती कुर्वता । भीमस्य निमित्ततयाऽनुसरणे हि भीमेनैव रक्षोधीशा निपातिता इति लोके यशोदानेन तस्मिन् प्रीतिः प्रकटिता भवतीति ज्ञातव्यम् । प्रीते रमेयत्वं अज्ञेयत्वं बाधितमतो विवृणोति शेष-पेत्यादिना । शेषपाति शेषोऽनन्तः पो रुद्रः गरुडो वा ताभ्यामतिशयो यथास्यात्तथा । यां प्रीतिम् । ममे निर्ममे । तां प्रीतिमित्यन्वयः । अनेनान्यत्र मातुं (निर्मातुं कर्तुं) योग्या न भवतीत्यमेयेति पूर्वोक्तमेयत्वं प्रीतेर्विवृतमिति ज्ञातव्यम् । यच्छब्दलब्धस्य स कृष्ण इत्यस्य उत्तरश्लोनान्वयः ॥ ३१ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— अथ । कृष्णावरणेतान्। प्राप्तान् । राज्ञः । अश्रुणोत् । सदावरणेतान् । द्रष्टुम् । यातः । सबलः । ताम् । च । अनैषीत् । पृथासुतान् । ततः । सबलः ॥ ३२ ॥

अथेति । अथ अनन्तरं । राज्ञः । कृष्णावरणेतान् कृष्णासयाः द्रौपद्याः वरणेन वरत्वेच्छया इतान् युक्तान् । प्राप्तान् द्रौपदीवरणाय प्राप्तान् सतः । अश्रुणोत् । कथम्भूतान् राज्ञः । सदावरणेतान् सत्सुविषये (पाण्डवविषये) आवरणममानं तेन इतान् युक्तान् । सन्तो भीमाद्याबलाधिकास्तेभ्योऽस्माकं मानभङ्गो भविष्टतीति ज्ञानवर्जिता-निति यावत् । सबलः बलरामेण सहितः । सः कृष्णः । पृथासुतान् । तां च । कृष्णां च । द्रष्टुं द्रष्टुमेव । यातः प्राप्तः । तां कृष्णाम् । पृथासुतान् प्रति । अनैषीत् प्रापितवान् । (तां चानैषीत् पृथासुता-नित्यावर्तते) ता पृथासुतांश्च । ततः । पाञ्चालपुरात् । सबलः सवरः आशीर्वादरूपं वरं दत्वेति यावत् । अनैषीत् गजाह्वयं पुरं प्रतीति शेषः (अनेन श्रीकृष्णस्य पाण्डवेषु सार्वकालिकी निरुपाधिकप्रीतिः सूचिता भवति) ॥ ३२ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— तान् । इन्द्रस्थलवासान् । चक्रे । कृष्णः । परः । निजस्थलवासान् । स्वबलोद्रेचितमानैः । जुगोप । धर्मं । च । तैः । पराचितमानैः ॥ ३३ ॥

तानिति । कृष्णः । तान् पृथासुतान् । इन्द्रस्थलवासान् इन्द्रस्थले इन्द्रपस्थे वासो येषां ते तथोक्ताः तान् चक्रे । कथम्भूतः कृष्णः । परः सर्वोत्तमः तस्याशक्यं न किमपीति भावः । कथम्भूतान् तान् । निजस्थलवासान् निजेषु भृत्यरूपेषु स्वेषु स्थः संस्थितः यः लवः रवः आज्ञारूपः शब्दः तत्रैव असान् विद्यमानात् स्वविषयकहर्याज्ञानुसारेण प्रवर्तमानानिति यावत् । अथवा निजानां स्वरूपर्वेषां स्थं स्थितं यद्राज्यं तस्य लवे लेशे एकदेशे अर्द इति यावत् तत्र असान् इत्यर्थः । (तत्र वसत इति यावत्) स्वपितृराज्यार्दराज्यास्थितां श्चक्र इति भावः । तैः पार्थैर्निमित्तैः । धर्मं जुगेपच रक्षितवान् (ररक्षापि) । कथम्भूतैः । स्वबलोद्रेचितमानैः स्वः कृष्णः तस्य बलेन उद्रेचितं अभिवृद्धं मानं सन्मानं अखिलराजवन्द्यत्वादिरूपं येषां ते तथोक्ताः तैः । पुनः कथम्भूतैः । पराचितमानैः परैः उक्तमैः शत्रुभिर्वा आचितं सम्यक्कृतं मानं सन्मानं येषां ते तथोक्ताः तः ॥ ३३ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— वालिवधानुनयाय । प्रणयी । सख्यम् । सुसन्दधे । नु । नयाय । वासवजेन । विशेषात् । तेन । एव । पुनः । नृजन्मजेन । विशेषात् ॥ ३४ ॥
ननु कृष्णो विशेषेणार्नुनसखः कस्माज्जात इत्यतस्तत्र कारणमाह पवालिवधेति ।

्रणयी भक्तवत्सलः कृष्णः । वालिवधानुनयाय अपराधाभावेऽपि मया वालिवधः कृत इति यः पश्चात्तापः (चिततोदः) स इह वालिवधशब्देन लक्ष्यते अनुनयः परिहारः तस्मै । (वालिनः वधः यस्मै सः वालिवधः सुग्रीवः तस्य अनु अनन्तरं कर्णजन्मनि नयाय परित्यागायैव) विशेषात् धर्मनकुलसहदेवापेक्षया विशेषेण । वासवजेन अर्जुनेन । सख्यं सखित्वम् । नु इदानी कृष्णावतारे । सुसन्दधे अतिदृढतयाऽनेकप्रकारेण कृतवानित्यर्थः । नन्विदं व्यधिकरणं वालिनोर्जुनस्य भिन्नत्वादित्याशङ्का परिहारायोक्तं पुनर्नृजन्मजेनेति । नृजन्मना अर्जुनतया जेन जातेन । तेनैव वालिनैव । अनेन य इन्द्रांशः पूर्वं वालितया जातः स एवेदानीमर्जुनतयोत्पन्नः । अतो नोक्तशङ्केत्युक्तं भवति । ननु प्रत्यवाय गन्धविधुरस्य भगवतः कथं चित्ततोदः येन तत्परिहारायार्जुनसख्यकरणमुपपन्नं स्यादित्यत उक्तं नयायेति । नयाय लोके नीतिप्रदर्शनायेत्यर्थः । ननु भगवतोऽपि चेतनत्वादितरचेतन-वत्प्राप्तप्रत्यवशङ्काजनितचित्ततोदःसम्भावितः किं नस्यादित्यस्य उक्तं विशेषादिति । विशेषात् विर्गरुडः शेषोऽनन्तः उपलक्षणमेतत् तावत्तीति सः (वि विशेषेण शेषस्य उपसर्जनभूतस्य ब्रह्मादिसमुदायस्य अत् अत्ता) तथा च प्रलयकाले अपराधाभावेऽपि सकल प्राणिहिंसकाय श्रीनृसिंहात्मनः श्रीकृष्णास्य प्रत्यवायजनितचित्ततोदः असम्भावित एवेति भावः ॥ ३४ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— मातुः । परिभवहा । अन्यैः । राज्ञा । द्युसदाम् । इतः । च । परिभवहान्यै । अभवत् । नरकमुरारिः । यः । अवात्सीत् । अत्समस्तनरकम् । उरारिः ॥ ३५ ॥

मातुरिति । अत्राद्यपादे परिभवहा अन्यैरिति पदच्छेदः । द्युसदां द्यौः स्वर्गः सत् सदनं येषां तेषां देवानाम् । राज्ञा इन्द्रेण । मानुः स्वमातुः अदित्याः । परिभवहान्यै नरकेण हि अदित्याः कुण्डलापहारेण परिभवः कृतः तत्कृतपरिभवनाशाय । अन्यैश्च मुनिभिश्च । इतः शरणं प्राप्तः । परिभवहा परितोभावः परिभवः संसारस्तस्यहन्ता । श्रीकृष्णः । नरकमुरारिः नरकश्च मुरश्च तौ तता तयोररिः विनाशकः । अभवत् । य उरारिः इकारस्थाने उकारः तृतीयोऽतिशय इति वचनादतिशयार्थः (द्वयोरपिरवर्णयोर्लत्वं विवक्षितम्) लयोरभेदश्च । तथा च इा भूमिः आमर्िार्या यस्य स इाःि वराहरूपस्य हरेः भूदेवता धरा भार्या प्रसिद्धा तदभिप्रायेणेदम् । अथवा भूसज्ज्ञकरमावतारभूता सत्यभामा इाशब्देन ग्राह्या । सा इा आभर्िार्या यस्येत्यर्थः । सत्यभामापतिः कृष्णः । अत्समस्तनरकम् अत अतं व्याप्तं समस्तं स्वमाहात्म्यं तेन नराणां ज्ञानिनां कं मनः द्वितीया सप्तम्यर्थे मनसि । अवात्सीत् अवसत् । उक्तमाहात्म्यवत्तया सकलमानिध्येयोऽभवदिति भावः ॥ ३५ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— नीतः । दिवि । देववरैः । रेमे । सत्यासमन्वितः । ओववरैः । सर्वर्तुवने । शशिना । निशि । सत्याम् । वासरे । वने । अशशिना ॥ ३६ ॥

नीत इति । देववरैः देवश्रेष्ठैः । इन्द्रादिभिर्दिवम्प्रति । नीतः (सन्)। दिवि स्वर्गे । सत्यासमन्वितः सत्यभामासमन्वितः । रेमे । कथम्भूतैर्देववरैः । ओववरैः ओवा असुराः तेभ्योवरैरुच्चबलैः । यद्वा अश्चासौ देवश्च ओवो हरिः स वरो वरणीयो येषां ते तथोक्तैः । स्वर्गेऽपि रमणस्थविशेषमाह सर्वर्तुवन इति । सर्वर्तुवने अत्र ऋतुशब्देन तत्कार्यं लक्ष्यते । तथा च सर्वर्तुसम्पद्भिर्वने वननीये सेव्ये । वने नन्दनाख्ये वने । निशि । रेम इत्यन्वयः । ननु निशि प्रकाशशभावेन कथं रमणमित्यत उक्तम् । शशिना चन्द्रेण । निशि रात्रौ । वासरे दिवासमायाम् । सत्याम् । ननु शशरूपकलङ्कोपेतेन शशिना कथं निशा दिवासमा जातेत्यत उक्तं अशशिनेति । शशोऽस्यास्तीतिशशी नशशी अशशी तेन निष्कलङ्केणेति यावत् । नन्दनवन-स्यालौकिकत्वाद्यथा तत्र युगपत्सर्वर्तुसम्पविस्तथा चन्द्रोप्यशशीसन् प्राशते । अतस्तत्र निशायामन्धकारलेशाभावाद्दिवा समता युक्तेति भावः । (श्लोकरूप) पूर्वटीकायान्तु अशशिना शशिभिन्नेन भानुना वासरे सत्यामिति व्याख्यातम् ॥ ३६ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— सुरतरुम् । आप । आमितात् । प्रकाशयन् । शक्तिम् । आत्मनः । पामितात् । सुरवरवीरेषु । दरी । प्रधानजीवेश्वरः । परेषुदरी ॥ ३७ ॥

सुरतरुमिति । दरी शङ्खान् ध्मातशङ्खः कृष्णः । सुरवरवीरेषु सुवराश्चते वीराश्च तेषु । आत्मनः स्वसय शक्तिम् । प्रकाशयन् । आमितात् आःि सखी भार्या सत्यभामा तस्याः मतात् ल्यब्लोपनिमित्तां पञ्चमी अभिप्रायमुसृत्य । सुरतरुं पारिजातम् । आप प्राप नीतवान् । कथम्भूतः कृष्णः । पामितात् स्य लत्वं विवक्षितम् । पालाः लोक पालाः अस्य सन्तीति पाली इन्द्रः तस्य मतं अभिप्रायं अत्तीति पालिमतात् इन्द्राभिप्रायनाशक इति यावत् । पुनःकथम्भूतः । प्रधानजीवेश्वरः प्रधानपदं जडमात्रपरं तथा च सर्वेषां जडानां जीवानां चेश्वर इत्यर्थः । इदं च स्वकीयमेव स्वेन नीतमिति प्रदर्शनाय । पुनःकथम्भूत । परेषुदरी परे प्रतिभटाः तेषामिषवो बाणाः (इषुपदोपलक्षितनानाविधायुदानि) तेषां दरः दारणमस्यास्तीति तथोक्तः । अनेन सर्वेऽपि देवास्तत्र पराजिता इति सूचयति ॥३७॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— पुरम् । अभियाय । अरिदरी । दत्वा । भद्राम् । पृथासुताय । अरिदरी । शक्रपुरीम् । अभियातः । प्रादात् । वह्नेः । वनम् । सताम् । अभिया । अतः ॥ ३८ ॥

पुरमिति । (शक्रपुरीमभियात इत्यस्य, वह्नेस्सतामभियात इत्यस्य चावृत्तिः) । सक•ादिति शेषः । अरिदरी अरिः चक्रं दरः शङ्खः तावस्य स्त इति अरिदरी चक्रशङ्खधरः कृष्णः । पुरं द्वारका । अभियाय पुनरागतः । पृथासुताय पार्थाय । भद्रां सुभद्रां स्वावरजाम् । दत्वा । अरिदरी अत्र अरिशब्देन अरिकामो लक्ष्यते । ओः अरिकामस्य सुभद्राविषयक दुर्योधनकामस्य दरः दारणमस्यास्तीति अरिदरी दुर्योधनकामदारणवानित्यर्थः । दुर्योधनस्य हि सुभद्रायां कामोऽभूत् । शक्रपुरी इन्द्रप्रस्थम् । अभियातः पयातस्सन् । वह्नेः । वनं खाण्डवाख्यम् । प्रादात् । कथम् । सतां जरितार्यादीनाम् । अतः वह्नेः । अभिया भयाभावेन । जरितार्यादीन् वह्निमुखाद्रक्ष-यित्वेत्यर्थः । यद्वा सतां युद्धार्तमागतानां इन्द्रादीनां सकाशशत् । अतः अस्यवह्नेः । अभिया भयाभावेन तान् तुच्छीकृत्येति यावत् । शक्रपुरीमभियात इत्यर्थः ॥ ३८ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— शिवभक्तप्रवराद्यम् । पुमान् । न । सेहे । गिरीश-विप्रवरात् । यम् । तम । स्वात्मेन्द्रवरेण । व्यधुनोत् । भीमेन । धूतरुद्रवरेण ॥ ३९ ॥

शिवभक्तेति । (अरिदरीति कर्तृपदमनुवर्तते । कोऽपीति शेषः ।) शिवभक्तप्रवराद्यं शिवभक्तानां ये प्रवराः तेषामाद्यं आद्यतया गणनीयम् । यं जरासन्धम् । गिरीशविप्रवरात् गिरीशो रुद्रः विप्रः दुर्वासाः तयोर्वरात् । (कोऽपि) पुमान् काऽपि पुरुषः । न सेहे साढुं शक्तोनाऽभूत् । तं तादृशं जरासन्धम् । स्वात्मेन्द्रवरेण स्वात्मा स्वयं इन्द्रः स्वामी येषां ते स्वात्मेन्द्राः स्वभृत्याः । वैष्णवाः तेषां वरेण श्रेष्ठेन भीमेन निमित्तेन । अरिदरी श्री कृष्णः । व्यधुनोत् जधान । ननु रुद्रवररक्षितं भीमः कथं जघानेत्यत उक्तं धूतरुद्रवरेणेति । धूतरुद्रवरेण धूतः तिरस्कृतः रुद्रवरः येनसतथोक्तः तेन । हिडिम्बादिवधे रुद्रवरस्य तिरस्कृतत्वादत्रापि तथेति भावः । ननु भीमस्य रुद्रवरतिरस्कारः कथमित्यत इदमेवोत्तरं धूतः कम्पितः पराजित इति यावत् । स चासौ रुद्रश्च तस्माद्वरेण श्रेष्ठेनेति । भीमेन हि बहुशो रुद्रः पराजितः अतस्तदपेक्षया भीमो वरः अतस्तद्वरहन्तृत्वमस्य युक्तमेवेति भावः ॥ ३९ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यस्य । आज्ञाबलासारैः पार्थैः । दिग्भ्यः । हृतम् । धनम् । बलसारैः । जित्वा । क्ष्माम् । अविशेषाम् । प्रसह्य । भूपान् । समस्तकामविशेषाम् ॥ ४० ॥

यस्येति । यस्य कृष्णस्य । आज्ञाबलसारैः आज्ञया बलेन चतुरङ्गेण च सारैः सारवद्भिः । (आज्ञया बलं आज्ञाल्धस्ववीर्यं तेन सरन्ति निस्सरन्ति सारयन्तिवा शत्रूनिति तथातैः) बलसारैः बलं सारः स्वरूपं येषां तैः । पार्थैः । दिग्भ्यः । धनं वसु । हृतम् । आहृतम्। किं कृत्वा । क्ष्मां भूमिम् । अविशेषां अशेषाम् । जित्वा । सामस्त्येन वशीकृत्य । पुनः कथम्भूताम् । समस्तकामविशेषां सकलेप्सित-विशेषवतीम् । (समस्तकामाः मोक्षेतरसर्वकामाः तेषां विशेषा अतिशयाः यस्यां सा ताम्) ननु भूपालानविजित्य कथं भुवो वशीकरण -मित्यत उक्तम् । भूपान् प्रसह्या जित्वेति । (यस्येति यच्छब्दस्य स अमरेडित्युत्तरश्लोकेनान्वयः) ॥ ४० ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— अथ । पार्थान् । क्रतुराजम् । प्रापयत् । अमरेट् । सरुद्रशक्रतुराजम् । पूजा । तेन । अवापि । छिन्नः । चैद्यः । सृतिम् । गतेन । अवापि ॥ ४१ ॥

अथेति । अमरेट् सर्वदेवेशः श्रीकृष्णः । अथ दिग्विजयानन्तरम् । पार्थान् धर्मराजादीन् । क्रतुराजं राजसूयसहितं परमाश्वमेधाख्यं यज्ञश्रेष्ठम् । प्रापयत् प्रापयामास । कथम्भूत क्रतुराजम् । सरुद्र-शक्रतुराजं रुद्रः शिवः शक्रः देवेन्द्रः तुरो वायुः अजो ब्रह्मा तैस्सहित-स्यथोक्तस्तम् । परिवारतया पूज्यब्रह्मादि देवताकमित्यर्थः । तेन कृष्णेन । पूजा अग्रपूजा । अवापि प्राप्ता । चैद्यः शिशुपालः । छिन्नः चक्रेण हतः । अमरेट् तेनेत्यावर्तते । तथा च । अमरेट् श्रीकृष्णः । सृतिङ्गतेन अमुक्तेनापि । तेन चैद्येन तदाविष्टजयेन । अवापि प्राप्तः । सृतिरहितैरेव भगवान् प्राप्यः । अयं तु सृतिस्थोऽपि तं प्रापेत्याश्चर्यमिति भावः । पूर्वटीकायां तु सृतिं गते स्वभृत्ये तत्तारणाय नावा नौस्थानीयेन तेन कृष्णेनेति व्याख्यातम् । तत्र अपिशब्द-स्योत्तरश्लोकेनान्वयः । सौभकरूशावपि तेन निहताविति ॥ ४१ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— निहतौ । सौभकरूशौ । शीतः । भातः । च । येन । तौ भकरूशौ । अजयत् । रुद्रम् । च । रणे । बाणार्थे । अवनतिपतितकचन्द्रं । चरणे ॥ ४२ ॥

निहताविति । येनेति यच्छब्दबलात्तेनेति लभ्यते । सौभकरूशौ सौभः साल्वः करूशः दन्तवक्रः तौ । तेन कृष्णेन । निहतौ । यदासाल्वेन युद्धं कृतं तदा कृष्णस्तन्मायया मोहित इति भारतादौ कथ्यते । तदसुरजनमोहनायैवेत्याशयेन चन्द्रसूर्योपलक्षितसर्वदेव-प्रवर्तकत्वरूपं महत्त्वं तस्याह शीत इत्यादिना । यः शीतः चन्द्रः यः भातश्च कर्तरिक्तः भासकः सूर्यश्च तौ । येन यत्प्रेरणया । भ(भा) करूशौ । जाताविति शेषः । चन्द्रः भकः भासकः जातः । सूर्यः रूशः आधिक्येन कान्तिमान् जात इत्यर्थः । किञ्च यस्य मोहोऽ-सम्भावित एवेत्याशयेनाह अजयदिति । यः रुद्रं च । रणे बाणा-सुरयुद्धे । अजयत् । कथम्भूतं रुद्रम् । बाणार्थे बाणासुररक्षणार्थम् । चरणे चरणयोः । अवनतिपतितकचन्द्रम् अवनतिर्मक्ति-पूर्वकप्रणामः तया पतितः कचन्द्रः शिरोगतचन्द्रो यस्यस तथोक्तः तम् । अनेन रुद्रेण शिरःसंयोगमात्रं नकृतं किन्तु भक्तिदार्ढ्येण चरणे शिरस्सन्घट्टन-मेव कृतमिति सूचयति । न केवलं कृष्णो रुद्रं जितवान् अपितु बाण-रक्षणेच्छया तेन प्रणतश्च अतस्तस्य मोहोऽसम्भावित एवेति भावः ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— असृजत् । ज्वरम् । उग्रतमःक्षयप्रदः । लीलया । अधिवरमुक् । रतमः । क्रीडामात्रम् । विश्वम् । प्रकाशयन् । आत्मनः सविहरकमात्रम् । विश्वम् ॥ ४३ ॥

असृजदिति । (कृष्ण इति शेषः) शिवभृत्योज्वरः बाणासुरपुर-रक्षणाय शिवेन नियोजितः । तज्जयाय ज्वरं वैष्णवं ज्वरम् । लीलया क्रीडयैव । असृजत् । कृष्ण इत्यर्थः । कथम्भूतः कृष्णः । उग्रतमःक्षयप्रदः उग्राः दैत्याः तेषां तमसि क्षयो निवासस्तस्यप्रदः । अनेन बहवो बाणभृत्या हता इति सूचयति । उग्रो रुद्रः तदज्ञाननाशप्रद इति वा । पुनः कथम्भूतः । अधिवरमुक् बाणपुत्र्याः उषायाः अधिकोवरः अनिरुद्धः तं मोचयतीति तथोक्तः । बाणबद्धा-निरुद्धमोचक इत्यर्थः । बाणयुद्धमध्ये भगवता कृष्णेन यदशक्त्यादिकं प्रदर्शितं तन्मोहकमेवेत्याशयेन तस्य माहात्म्यमाह रतम इति । रता मा रमा यस्मिन्निति स रतमः । रमाया अपि रतिप्रद इत्यर्थः । विश्वं सर्वम् । विश्वं जगत् । आत्मनः स्वस्य । क्रीडामात्रं क्रीडया मातं निर्मितं त्रातं रक्षितञ्च । प्रकाशयन् । लीलयाज्वरमसृजदित्यन्वयः । कथम्भूतं विश्वम् । सविहरकमात्रं विः गरुडः हरो रुद्रः कः प्रजापतिः मात्रशब्दः कार्त्स्न्यार्थकः प्रत्येकमभिसम्बध्यते । कृत्स्नाश्चते विहरकाश्च विहरकमात्राः तैस्सहितं तथाचातीतानागतवर्तमानाः ये गरुड-रुद्रजापतयः तैस्सहितमित्यर्थः । यद्वा स इति भिन्नं पदम् । सः कृष्णः । प्रतिज्वरविसर्जने भगवतोऽभिप्रायमाह क्रीडामात्रमिति । विहरकमात्रं विहरकै। गरुडरुद्रविरिञ्चैः मात्रं निर्मितं रक्षितञ्चेत्यर्थः । विश्वं स्वस्य क्रीडामात्रं क्रीडयैव निर्मितं त्रातञ्चेत्यर्थः । ब्रह्मादिनिर्मित मपीदं विश्वं मदधीनमेवेति दर्शयन्निति भावः ॥४३॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यस्य । आवेशोरूबलात् । न्यहनत् । पार्थः । असुगन् । प्रजेशेरुबलान् । वरदानात् । अस्य । एव । जगत्प्रभोः । ईरणात् । समनुगतनादस्य । एव ॥ ४४ ॥

यस्येति । यस्य कृष्णस्य । आवेशोरुबलात् आवेशनिमित्त-कोत्कृष्टसामर्थ्यात् । पार्थः अर्जुनः । प्रजेशोरुबलान् प्रजेशा रुद्राद्याःतेषां उरुः उत्कृष्टः बलो वरो येषां ते तथा तान् । असुरान् निवातकवाचादीन् । न्यहनत् जघान । केवलमावेशबलात् किन्तु अस्य कृष्णस्य । वरदानादेव ‘यावद्धूमावहं तावन्नामुञ्जेष्यति कश्चनेति’ वरादेवेत्यर्थः । अन्यदपिनिमित्तमाह समनुगतनादस्य । अगत्प्रभोरी-रणादेवेति । सम्मुख्ययावृत्त्याऽनुगतो वाचको नादः शब्दो यस्यस तथा । तस्य पार्थशब्द मुख्यवाच्यस्य जगत्प्रभोरन्तर्यामिणः प्रेरणादेव चेत्यर्थः । इदमुपलक्षणम् । बलभीमादयोऽपि बलभीमादिशब्दमुख्य-वाच्यस्य स्वान्तर्यामिणः कृष्णस्य प्रेरणादेवासुरान् न्यहनन्नित्यपि ग्राह्यम् । उक्तं हि ‘बलभीमपार्थव्याजाह्वयेन हरिणा निलयं तदीयमिति’ तथा च भीमादिकृतमसुरहननादिकं कर्म कृष्णेनैव तदन्तर्यामिणाकृतम् । ते तु तत्र निमित्तमात्रभूता इति भावः ॥ ४४ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः—यस्य । आवेशात् । सः । बलः । प्रचकर्ष । पुरम् । प्रसह्य । च । ईशात् । सबलः । कुरुपतिनाम । नु । यमुना । आकृष्टायेन । आहुः । अर्ध्यम् । अतनु । यं । उना ॥ ४५ ॥
एतदेव दर्शयति यस्येति ।

सः प्रसिद्धः । बलः बलभद्रः । यस्य कृष्णस्य । आवेशात् (शुक्लकेशरूपेण प्रवेशात्) कुरुपतिनाम कुरुपतिर्हस्तिना नृपः तस्य नाम यस्य तत्तथा हस्तिनामवत् । अतनु महत् । पुरम् । प्रसह्य हठात् (लाङ्गलाग्रेण) । प्रचकर्ष । नु अनन्तरम् । ईशात् तत्पुरेशात् दुर्योधनात् । सबलः सवरः दुर्योधन-सुतायाः लक्षरायाः यो वरः साम्बः तेन सहितः । चशब्दोऽनुक्त-समुच्चयार्थः । तथा च पूजां प्राप्य ययाविति तदर्थो ज्ञातव्यः । यद्वा पूजां प्राप्य ययावित्यध्याहारः । चशब्दस्योत्तरत्रान्वयः । नु अनन्तरं (गोकुले) । येन बलभद्रेण । यमुना च आकृष्टा । यं बलभद्रम् । उना रुद्रेण । अर्घ्यं पूज्यम् । आहुः । वैदिका इति शेषः । यच्छब्दस्य पूर्वेण स इत्यनेनान्वयः । अनेन बलराम सामर्थ्येनैव नागपुरयमुना-कर्षणादिकं न कृतम् । किन्तु तदन्तर्यामिकृष्णे न कृतं रामस्तु निमित्तभूत इति सूचयति ॥ ४५ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यद्बलवान् । क्रोधवशात् । निनाय । नाशम् । वृकोदरः । क्रोधवशात् । लेभे । अचान्या । गम्यम् । स्थानम् । पुष्पाणि धाम । च । अन्यागम्यम् ॥ ४३ ॥

यद्बलवानिति । (लेभे इत्यावर्तते) यद्बलवान् यस्य कृष्णस्य बलवान् वरवान् अनुग्रहवानित्यर्थः । क्रोधवशात् एते हरिद्रोहिण इति कोपाटोपवशात् । वृकोदरः भीमसेनः । क्रोधवशान् तन्नामकासुरान् । नाशम् । निनाय प्रापितवान् । अचान्या जकारस्थाने चकारः तृतीयोऽतिशयार्थः । अजान्या भाविब्रह्माण्येति यावत् द्रौपद्या । उक्त इति शेषः । गम्यम् । स्वेनैवेति शेषः । स्थानं सौगन्धिकपुष्प-स्थानम् । लेभे प्राप । तत्र पुष्पाणिच लेभे । ततः अन्यागम्यं धाम । कुबेरस्येति शेषः । लेभे ॥ ४६ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यद्बलभारवहत्वात् । न । अचलत् । उरगादिभिः । सुभारवहत्वात् । धर्मात् । अरिहा । अपि । पदम् । भीमः । येन । एव । साहसम् । रिहा । अपि । पदम् ॥ ४७ ॥

यद्बलेति । (नाचलदित्यस्य अपिपदस्यचावृत्तिः) भीमः । यद्वबलभारवहत्वात् यस्य कृष्णस्य बलो वरः आज्ञारूपः अस्मिन् समये भीमेनैवमेव स्थातव्यमितितत्तत्कालीनसङ्कल्प इति यावत् स एव भारः तद्वहत्वात् । उरगादिभिः उरगरुपनहुपधर्मद्रौणिभिः । बद्धोपीति-शेषः । पदं पादमात्रम् । नाचलत् । सुभारवहत्वात् धर्मादपि (नाचलत्) सुभाशोभनाकान्तिः अध्ययनजनितं तेजः तत्रैव रः रतिः अन्योिपयोगरहिताऽसक्तिरिति यावत् । तं वहतीति वहः तस्य-भावस्तत्वं तस्मात् तल्लक्षणधर्मादपीत्यर्थः । नाचलत् । क्षत्रियस्य विद्यासम्पादिततेजसोऽन्यत्र स्वजीवनादौ व्ययाकरणं मुख्यधर्मः अतस्तद्वहत्वान्नहुषधर्मकृतप्रश्नपरिहारेण नारायण•स्त्रनमनेन च स्वात्मविमोक्षणं नैच्छदिति भावः । ननु कुत एवं कल्प्यते । अशक्त एव नाचलदिति किं नस्यादित्यत उक्तं अरिहापीति । वैरिहनने शक्तोपीत्यर्थः । एतच्चोत्तरश्लोके स्पष्टयिप्यति । ननु शक्तोऽपि हरिसङ्कल्पवशात् नाचलदिति नयुक्तम् । तथात्वे ‘नैतादृशं साहसं तेऽनुरूपमिति’ भीमं प्रति मुनिवचनानुपपत्तेः । योहि बलाबलमजानन् किञ्चित्करोति तत्रैव साहसपदं प्रयोक्तव्यमित्याशङ्कायामाह साहस-मिति । सहः वायुः तत्सम्बन्धिसाहसं तदभिम्यमानं नहुषगतधर्म-जातम् । रिहैव लिप्सतैव रस्यलत्वम् । आदातुमिच्छतैव । येन भीमेन । पदं साहसमिति पदं मुन्यादिलोकोक्तम् । आपि प्राप्तम् । नत्वशक्तेनेत्यर्थः । तथा च भीमाभिप्रायमजानद्भिरेव मुनिभिः भ्रमेण तथोक्तमिति भावः ॥ ४७ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— न । हि । नहुषः । अलम् । नहितुम् । धर्मः । द्रौणिः । तथा । इतराः । अलम् । नहितुम् । नो । राट् । कर्णः । ब्रह्मवरी । येन । ध्वस्तः अस्त्रम् । अग्रहीत् । सः । ब्रह्म । वरी॥ ४८ ॥

नहुषादीनां भीमोपेक्षयैव बन्धकत्वं न स्वसामर्थ्येनेत्याह नहीति ।

यथेति सिद्ध्यति । भीममिति शेषः । (यथा) इतरः उपेक्षाऽभावकालीनोदुर्योधनादिः । (भीमम्) नहितुं बद्धम् । नोऽलं न समर्थः । तथा उपेक्षाकालीनोऽपि । नहुषो वा । धर्मो वा । द्रौणिर्वा । तं भीमम् । नहितुम् । अलं समर्थः । न हि स्वसामर्थ्येन बद्धं शक्तो नेत्यर्थः । हिशब्देन पूर्वप्रसिद्धयद्बलभारवहत्वादिति हेतुं स्मारयति । नन्वितरो नहितुं नालमित्युक्तं तत्कुतो ज्ञायत इत्यतस्तेन तल्लयस्यैव कृत्वात्तदनुमेयमित्याशयेनाह राडिति । राट् दुर्योधनादिदुष्टराजसमुदायः । (ब्रह्मवरी परशुरामवरवान्) कर्णः । ब्रह्मवरी ब्रह्मवरवान् जरासन्धश्च । येन भीमेन । ध्वस्तः जितः । अर्जुनस्य कर्णवधे भीम एवोपजीव्य इत्याशयेन कर्णोऽपि ध्वस्त इत्युक्तम् । पररुरामवरगौरवस्यापि रक्षणायैव भीमेनोपेक्षितः कर्णः तं बबन्धेति दर्शयितुं कर्णग्रहणम् । ननु द्रौणेर्नहुषादिवत् उपेक्षितस्यैव बन्धकत्वं नस्वत इत्युक्तम् । तदयुक्तम् । युद्धे प्रतिवीरतयास्थितस्योपेक्षायोगात् । राजादिवद-लीनत्वाच्च नतस्य स्वबन्धकत्वं ज्ञात्वोपेक्षितुं शक्यत इत्यत आह । वरी बली । ब्रह्म ब्राह्मणजातिः । सः द्रौणिः । पराजितस्सन् इति शेषः । अस्त्रं ब्रह्मास्त्रम् । अग्रहीत् असृजत् । अयं भावः । युद्धे दुर्योधनादिरिव द्रौणिर्न भीमेन हतः ब्राह्मणवधस्य गर्हितत्वात् किन्तु पराजित एवसन् पाण्डववंशप्रणाशाय ब्रह्मास्त्रमसृजत् तदाभीमस्तेन ब्रह्मास्त्रेण द्रौणिमुपेक्ष्यास्त्रदेवताभूतविष्णुगौरवेणैव बद्धवत्स्थितः अतो युद्धगतोऽपि द्रौणिः विष्णुबलभारवहेन भीमेनोपेक्षितस्सन् तं बबन्ध न स्वसामर्थ्येनेति ज्ञायत इति । (सुब्रह्मवरीतिपाठे सुब्रह्मवरीत्येकं पदम् । सु सर्वोत्तमं ब्रह्म हरिः तस्यवरः उत्तमः सङ्कलपः अस्मिन् समये भीमेनैवमेव स्थातव्यमिति तत्परिज्ञानवान् भीमः अस्त्रं द्रौण्यवस्त्रं अग्रहीदित्यर्थः) ॥ ४८ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— क्षात्रम् । धर्मम् । स्ववता । गुरुवृत्त्यै । केशवाज्ञया। चरमम् । स्ववता । सर्वं । सेहे । (अ)मनसा । भीमेन । ईशैकमानिना । हेमनसा ॥ ४९ ॥
उक्तेमेव सम्यक् पिण्डीकृत्य दर्शयति क्षात्रमिति ॥

क्षात्रम् । धर्मम् । स्ववता सम्यक्रक्षता । भीमेन । सर्वं वैरिकतम् ।चरमं दण्डरुपमनिष्टम् । मनसा प्रसक्तानिष्टस्य तुच्छताबुद्ध्या । सेहे क्षान्तम् । अनुभूतमिति यावत् । अत्र निमित्तं गुरुवृत्त्यै गुरवो युधिष्ठिरादयः तनुवृत्त्यै । केशवाज्ञया चेति । अत्र दृष्टान्तमाह स्ववतेति । स्ववता लुप्तोपमा स्वं धनमस्यास्तीति स्ववान् तेन सववता (लीनवित्तवता तद्रक्षणार्थं राजादिकृतं सर्वमनिष्टमनुभूयते । न तु तस्य वित्तस्य व्ययःक्रियते एवमेवेति) स्वसम्पादितवित्तसंरक्षणार्थं राजादिकृतानिष्टानुभववतेवेति यावत् । अशक्तेनैवेदं सर्वमनुभूत-मित्याशङ्क्य तत्परिहाराय अमनसेत्यपि योज्यम् । अमनसा नासिकावानिम् शब्दस्तदभिमानियुवाच्कः तथा च अमो अपरिमितः यो नस् वायुः तद्रूपेणेत्यर्थः । अपरिमितवायुस्वरूपे भीमे शक्तिर-सम्भाविता नेति भावः । उक्तशङ्कापरिहारयैव हेतुद्वयं वक्तुं विशेषणद्वयेन विशिनष्टि ईशैकमानिना । हेयनसेति । ईशेन सहैकस्मिन्विषयेन मानं ज्ञानमस्यास्तीति ईशैकमानी तेनेत्यर्थः । ईशो यन्मन्यते तदेव भीमोऽपि मन्यत इति भावः । हेम शब्देन आकेशा-दाप्रणखाद्धेमरूप ईश्वरो ग्राह्यः तस्य नस् नासिका (आग्राणकर्त्री) यस्य तसथोकतस्तेनेत्यर्थः । तदत्यन्तप्रियेणेति यावत् । तथा च ईश्वर-बुद्ध्यनुसारेण ज्ञात्वा कार्यकर्तरि तदत्यन्तप्रिये च शक्तिस्सम्भावितैवेति भावः ॥ ४९ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यद्भक्तप्रवरेण । प्रोतः । स्वस्मिन् । सः । कीचकः । प्रवरेण । पतिताः । तस्य । सहायाः । कृष्णार्थे । मानिनः । सम् । अस्य । सहायाः ॥ ५० ॥

यद्भक्तेति । यद्भक्तप्रवरेण यस्य श्रीकृष्णस्य भक्तेषु प्रवरेण श्रेष्ठेन । अत एव प्रवरेण प्रबलेन भीमेन । सः प्रसिद्धः । कीचकः । स्वस्मिन् स्वशरीरे । प्रोतः प्रवेशितः । गुदे प्रवेशितशिर आदिर्जातः मृत्युं प्रापित इति यावत् । मानिनः गर्ववतः । तस्य कीचकस्य । सहायाः (पूर्वं) सहायभूताः अन्ये उपकीचकाः । मानिनः गर्ववन्त इति वा । अस्य कीचकस्य । सहायाः सहभूताः कीचकशरीरमादायगताः । कृष्णार्थे द्रौपदीरक्षणार्थे तेनैव सम्पतिताः प्रपातिता इत्यर्थः ॥ ५० ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यद्भक्त्या । अनुगृहीतौ । पार्थः । भीमः । च । गोनृपौ । नु । गृहीतौ । ऋणमुक्त्यै । सुवत्यत्यस्त्यै । क्रमशः । वीरौ । अमुञ्चताम् । सुव्यत्यस्त्यै ॥ ५१ ॥

यद्भक्त्येति । पार्थो भीमश्च (इत्येतावितिशेषः) एतौ वीरौ । यद्भक्त्या यस्य कृष्णस्य भक्त्या । अनुगृहीतौ यद्भक्तिसम्पादिता-नुग्रहवन्तौ सन्तौ । नु निश्चयेन । गृहीतौ । (कौरवैरितिशेषः) गोनृपौ गोशब्दो जात्येकवचनः गौः गोसमुदायः नृपः मत्स्यराजश्च तौ । क्रमशः पूर्वपरदिनयोः । अमुञ्चताम् । अमोचयताम् । पूर्वदिने भीमः गोनृपावमोयत् । परदिने पार्थो गा अमोचयदिति विवेकप्रदर्शनाय क्रमश इत्युक्तम् । किमर्थम् । ऋणमुक्त्यै संवत्सरपर्यन्तं विराटवित्तं पाण्डवैर्भुक्तं तत्प्रत्युपकारायेत्यर्थः । प्रयोजनान्तरमाह सुव्यत्यस्त्यै सु सम्यक् वि विशेषेण अति अज्ञातवासमतिक्रम्य अस्तिः असनं स्थितिरिति यावत् तेन तत्प्राकट्यं लक्ष्यते । तथा चाज्ञातवासं सम्यग्विशेषेणातिक्रम्य स्वस्थितिप्राकट्यायेत्यर्थः । कथम्भूतायै स्वस्थित्यै । सुव्यत्यस्त्यै सु सम्यक् व्यत्यस्तिः व्यत्यासः स्वामिभृत्य-भावव्यत्यसासः यस्यांसा तथोक्ता तस्यै । अमातवासे हि विराटः स्वामी पाण्डवाः भृत्याश्चाभवत् । तदपगमानन्तरं पाण्डवेषु स्वस्व-रूपेणावस्थितेषु तत्स्थितस्य स्वामिभृत्यभावस्य व्यत्यासोऽभूदिति भावः ॥ ५१ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यद्भक्त्या । अमितया । अलम् । कृष्णा । कार्ये । विवेश । कृष्णाकार्ये । याम् । ईरार्धतनुत्वात् । न । आप । आत् । भीमात् । ऋते । अपि । ना । अपात् । भीमात् ॥५२॥

यद्भक्त्येति । कृष्णा द्रौपदी । अमितया यद्भक्त्या । अलं उत्तमे । कार्ये कर्तव्यविषये । विवेश आसक्ताऽभूत् । कथम्भूतेकार्ये । कृष्णा-कार्ये कृष्णः आकार्यः आकारणीयः ‘हाकृष्णा द्वारकावास क्वासि यादवनन्दनेऽत्येवंरूपेण व्याहर्तव्यः (आह्वातव्यः) यस्मिन् तत्तथोक्तं तस्मिन् । यां द्रौपदीम् । भीमादृते भीमं विना अन्योऽपि । ना पुमान् । नाप । कुतः ? ईरार्धतनुत्वात् ईरो वायुः तदर्थदेहत्वात् । ननु पार्वत्यादीनां रुदाद्यर्धदेहत्वेऽपि यथाऽन्यपुरुषप्राप्यत्वं तथा द्रौपद्या अपि किं न स्यादित्यत उक्तं अपात् भीमात् आदिति । नविद्यते पः पालकः यस्य सः अपः तस्मात् । भीमात् शत्रुभयङ्करात् । आत् अकारशब्दवाच्यात् हरेस्सकाशात् (सङ्कल्पात्) त्वां नान्योमारुतात् स्पृशेदिति हरिकृतनियमादिति यावत् । हरिकृतनियमोऽन्यैरनुल्लन्ध्य इति दर्शयितु अपाद्भेमादिति तस्य हरेर्विशेेणद्वयमिति ज्ञातव्यम् ॥५२॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— याम् । स्प्रष्टम् । इच्छन्तम् । अजातशत्रुम् । न्यवारयत् । स्वःस्थम् । अजातशत्रुम् । शंरूपाने । नित्यणतेः । इयम् । श्रीः । इति । स्म । देवेट् । यदितेः । इयम् । श्रीः ॥५३॥

यामिति । देवेट् देवेन्द्रः । स्वःस्थम् स्वर्गस्थम् । अजातशत्रुं न जातःशत्रुर्र्यस्यस तथात् । अजातशत्रुं युधिष्ठिरम् । यां श्यामाद्य-सम्पृष्टां भारतीम् । पूर्वसंस्कारात् स्प्रष्टुं इच्छन्तं न्यवारयत् । कुतो न्यवारयदित्यतस्तत्र हेतुं वक्तुं तस्यां भारत्यां श्रीशब्दं निर्वक्ति शंरूपान इति । शरूपाने शंरूपः सुखरूपश्चासावनः वायुश्च शंरूपानः तस्मिन् । नित्यरतेः नित्यं नियमेन रतेः रमणात् । इयं भारती । श्रीः श्रीशब्दवाच्येतिहेतोरित्यर्थः । अनेन तस्याः अन्यस्पर्शा-योग्यत्वादिति हेतुरुक्त इति ज्ञातव्यम् । ननु तर्हि पूर्वं युधिष्ठिरः कथमिमां स्पृष्टवानित्यत उक्तं यदितेरियं श्रीरिति । यातीति यत् वायुः तेन इतेः सम्बन्धात् । युधिष्ठिरादीनामिति शेषः । इयं द्रौपदी । श्रीः संश्रिता श्यामादिभिरितिशेषः । तथा च पूर्वं युधिष्ठिरादिषु वायुराविष्ट आसीदिति स्वयमपि श्यामाद्यन्वितासती स्पर्शयोग्याऽऽ-सीदित्यर्थः । इदानी तु नतथेत्याशयेनाप्याह इयं श्रीरिति । इयं नीरित्यावर्तते । इशब्दः कामवाची तथा च इना कामेन इच्छया युधिष्ठिरादिकं परित्यज्य यातीति इयः इयमेव वायुमेव श्रीः श्रिता अन्यादेवी परित्यज्येतिशेेषः । अतोन्यवारयदिति भावः । अत्र यामित्यस्य सा कृष्णेति पूर्वश्लोकस्थकृष्णेत्यनेनान्वयः ॥ ५३ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— मनसाम् । अनसा । अमनसा । मनसा । यम् । अनन्तम् । अजस्रम् । अवेत् । अनुया । विलम् । विलयम् । विः। अयम् । विलयत् । निखिलम् । तु । अशुभम् । प्रचकार । च । या ॥ ५४ ॥
किञ्च या नारी स्वभर्त्रसन्निहिता विषयासक्त्या हरिविस्मरणशीला च तस्या एव कथञ्चित्परपुरुषसंयोगादिजनितं पापं सम्भावितं द्रौपदी न तथा किन्तु स्वभर्त्रा वायुनासह सर्वदा हरिस्मरणशीलैव अतो न तस्याः धर्मादिसंयोगजनितं पापं सम्भावितमित्याशयेनाह मनसेति ।

या च द्रौपदी च । यं वायुम् । अनुया अनुसृत्ययातीत्यनुया । यदनुसारिणीति यावत् । यच्छब्दबात्तेनेति सिद्ध्यति । तेन वायुनासह मनसा निष्काममनसै अनन्तं हरिम् । अजस्रं निरन्तरम् । अवत् अस्मरत् । तां स्प्रष्टुमिच्छन्तं न्यवारयदिति पूर्वेणसम्बन्धः । कथम्भूतेन वायुना । मनसां सर्वमनसां अनसा शकटेन तत्स्थानीयेनेत्यर्थः । सर्वमनसामाश्रयेणेति यावत् । पुनः कथम्भूतेन । अमनसा नविद्यते मा मर्यादा त्रिविधपरिच्छितित्तः यस्यसोऽमः अनन्तः तस्य नस् नासिका आघ्राणकर्त्री यस्य स तथा तेन विष्णुना स्नेहवशादवघ्रातेनेति यावत् । या इत्यस्य लिङ्गव्यत्ययेनावृत्तिर्विवक्षिता । विलयमित्यत्ररलयारभेदेन विः अयमिति पदच्छेदो विवक्षितः । तथा च या यः । अयं बुद्धिस्थः । विः विष्णुः । तु विशेषेण । स्मृर्तॄणा-मितिशेषः । अशुभं पापाम् । विलयं विशेषेण लयो यस्य तत्तथा विनष्टमिति यावत् । सत् प्रचकार तमित्यन्वयः । कथम्भूतमशुभम् । विलयं विशिष्टो लयो स्यः दुःखदाने वेगो यस्य तत्तथा । पुनःकथम्भूतम् । निखिलं मानभक्त्यादिकम् । विलयत् विलापयत् नाशयदित्यर्थः ॥ ५४ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— सः । अगात् । दूतमुखेन । प्रभुणा । इदम् । वर्तते । यत् । ऊतम । ऊखेन । पार्थार्थे । बहुतनुताम् । यत्र । प्राकाशयत । स्वयम् । सबहुतनुताम् ॥ ५५ ॥

सोऽगादिति । सः श्रीकृष्णः । दूतमुखेन दौत्यमुखेन (दूतत्वस्यप्रदर्शनेन) । अगात् । कुरून्हन्तमितिशेषः । अथवा तेषां वध्यत्व (मथयस्थत्व) निश्चयायेतिशेषः । यत् येन् । प्रभुणा । ऊतं रक्षितम् । इदं जगत् (पाण्डवकुलंवा) वर्तते प्रवर्तते । स इत्यन्वयः । अनेन रक्षितजगन्मध्ये कुरूणामप्रविष्टत्वोक्तिबलेन तेषां बध्यत्वनिश्चयो लब्ध इति । ज्ञातव्यम् । कथम्भूतेन प्रभुणा । उखेन (उ उत्कृष्टं खं ज्ञानं यस्य स तेन) उच्चखेन उच्चज्ञानेन । अथवा ऊतं स्वाभिप्रेतं इदं कौरवकुलम् । पार्थार्थे पार्थसन्तानार्थे । ऊतं रक्षितमिति व्याख्येतम् । यत्र कौरवसभायाम् । बहुतनुतां (बह्वी विस्तृता तनुर्यस्यसः तस्यभावस्तत्ता ताम् ।) प्रकाशयत् । स्वस्य बन्धायोग्यत्व प्राकट्यायेतिशेषः । यत्र सैन्यद्वयमध्ये । प्राथार्थे अर्जुनाय । बहुतनुतां स्वस्य विश्वरूपताम् । प्राकाशयत् प्रकटं कृतवान् इति वा । अत्र स्वस्यैवर्ससंहर्तृत्वप्रदर्शनायेति शेषः । स्वयं स्वतन्त्रः । स इत्यस्य-विशेषणमिदम् । कथम्भूतां बहुतनुताम् । सबहुतनुतां बहुभिर्गुणैः तनुः विस्तृतिः तस्याः भावः बहुतनुता तया सहिता तामित्यर्थः । अत्र ऊतं, पार्थार्थे, बहुतनुतां, यत्र, प्रकाशयत्, इत्येतेषामावृत्तिः ॥५५॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— गुरुकर्णनदीजादीन् । अवधीन् । चक्षुर्बलेन । जनदीजादी । ईन् । शक्त्या । निजया । परवान् । स्वजात् । उद्रेचयन् । अनन्तया । अपरवान् ॥ ५६ ॥

गुरुकर्णेति । स इत्यनुवर्तते । सः कृष्णः । गुरुकर्णनदीजादीन् द्रोणकर्णभीष्मादीन् चक्षुर्बलेन दृष्टिसामर्थ्येन । अवधीत् हतवान् । ‘परसैनिकायुरक्षणा हृतवती’ति वचनात् । कथम्भूतः कृष्णः । जनदीजादी अत्र नकारस्थाने दकारस्तृतीयोऽतिशयार्थः । तथा च जननी लोकमाता रमा तस्यां जायत इति जननीजः विरिञ्चः तस्य अदः अदनं अस्यास्तीति जननीजादी । प्रलयकाले विरिञ्चमपि यः संहरति तस्य गुरुकर्णनदीजादिहननं तुच्छमेवेति भावः । अत एवोक्तं चक्षुर्बलेनेति । पुनः कथम्भूतः । ईन् ईकारो लक्ष्मीवाची तथा च स्वजनात् ई लक्ष्मी नयन् प्रापयन् । परवान् शत्रुहन्तृत्वात् शत्रुसहित इत्युच्यमानः । वसतुतस्तु अपरवान् शत्रुरहितः द्वेषादिदोषाभावेन द्वेष्यशत्रूणामप्यभावात् । ततश्च भक्क्तवत्सलतयैव । तस्य दुर्योधनादिवैरिहन्तृत्वं न स्वप्रयोजनायेत्युक्तं भवति । यद्वा परशब्द उत्तमपरः । तथा च निजया शक्त्या तृतीया पञ्चम्यर्थे । निजशक्ते-रपि । स्वजनान् भीष्मादीन् । उद्रेचयन् अधिकशक्तियुक्तान् प्रदर्शयन्सन् । परवानित्यच्यमानः । वस्तुतस्तु अपरवान् स्वतः उत्तमशून्यः । कुतः ? निजयां अनन्तया । शक्त्या युक्तः । अनेन स्वाभाविकानन्तशक्तियुक्तत्वादिति हेतुरुक्त इति ज्ञातव्यम् । अत्र निजया, शक्त्या, परवान्, अपरवान्, इत्येतेषामावृत्तिः ॥ ५६ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यस्य । सुनीतिसहायात् । न । रिपून् । मेने । अर्जुनः । समेतसहायान् । अकरोत् । च आसु । परासुप्रततिम् । सेनासु । धावनासुपरासु ॥ ५७ ॥

यस्येति । यस्य श्रीकृष्णस्य । सुनीति सहायात् (सुसम्यक् तत्तत्समयानुसारेण नीतिः रथनयनं रथसञ्चरणं तदेव सहयः तस्मात्) सारथ्यात् तदीयशोभननीति रूप सहायाच्च । समेतसहायान् समेतान् मितिान् सहत इति समेतसहः सचासौ आसमन्ताद्यातीति समेतसहायान् स तथोक्तः अर्जुनः । रिपून् न मेने एते रिपवो मद्युद्धयोग्या इति न ज्ञातवानित्यर्थः । आसु सेनासु । परासुप्रततिं परासवोन्तर्गतप्राणाः । तेषां प्रततिं प्रकृष्टां विस्तृतिं (मृतानां विततिं) अकरोच्च । कथम्भूतासु । धावनासुपरासु अत्र असुशब्देन तद्रक्षणं लक्ष्यते । तथा च धावनेन पलायनेन असुरक्षणं प्राणरक्षणं परं उद्देश्यं यासां तास्तथोक्ताः तास्वित्यर्थः ॥ ५७ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— येन । जयद्रथमारः । पात्रा । शत्रून् । अवापतत् । रथमारः । यद्विरहात् । अपि । देहे । सः । रथः । शश्चत् । स्थितेः। सदात् । अपि । देहे ॥ ५८ ॥

येनेति । अर्जुन सत्यनुवर्तते । येनेति यच्छब्दबलात्तेनेति लभ्यते । पात्रा सारथिभावमाश्रित्य पालकेन । तेन श्रीकृष्णेन सारथिना । जयद्रथमारः सैन्धवमारकस्सन् । शत्रून् । अवापतत् अवधीत् (अगमात्) । कथम्भूतोऽर्जुनः । येन सारथिना । रथमारः रथस्य मा श्रीः तया रमत इति तथोक्तः । रथशोभाजनितसुखविशेषवानिति यावत् । एवं हर्यधीनशोभः सः रथः । यद्विरहात् यस्य श्रीकृष्णसहायेन बाह्यरथे सुखवान् किन्तु देहेऽपि शरीरेऽपि । शश्वत् एक प्रकारेण । स्थितेः सन्निधानात् । कृष्णस्येतिशेषः । सदात् सत् प्रशस्तं कर्म तज्जन्यं सुखविशेषमिति यावत् । आसम्यगत्तीति तथोक्तः ॥ ५८॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यद्भरितः । भरताभः । प्रभुः । अ(अं) भाभावितः । अभिभरताभः । भीमः । रभसा । अभिभवी । प्रसभम् । भाभाभिभूः। भासा । भिभवी ॥ ५९ ॥
नकेवलमर्जुन एव कृष्णानुग्रहेरैव जयादिकं प्राप्तः किन्तु भीमोऽ-पीत्याह यद्भरित इत्यादिश्लोकचतुष्टयेन । यद्भरित इति ।

यदित्यस्यावृत्तिः । यच्छब्दबलावच्छब्दः सिद्ध्यति । आवर्तते च । तथा च भीमः भीमसेनः । यत् यस्मात् । यद्भरितः येन भरतनामकेन हरिणा भरितः पूर्णः । तस्मात् भरताभः हरिसदृशः (१) । अथवा भरतो वायुः तस्याभेदवाभा यस्य सः तदवतारत्वात्तत्सदृश इत्यर्थः (२) । यद्वा भरतो राजा तं आसम्ताद्भासयतीति भरताभः तत्कुलेस्व-यमुत्पन्नस्सन् तत्प्रसिद्धिं करोतीति यावत् (३) । पुनः कथम्भूतः । अम्भाभावितः अं परब्रह्म बिभर्तीति अम्भा रमा तया भावितः पोषितः (४) । पुनः कथम्भूतः । अभिभरताभः अभि अभितो भरताः दुर्योधनादयः पाण्डवाश्च सङ्ग्रामे येषु सैनिकेषु ते अभिभरताः तेषु आसमन्तात् सम्यक् वा भातीति तथोक्तः । (५) पुनः कथम्भूतः । प्रसभं यथास्यात्तथा । भासा स्वतेजा । रभसा वेेगेन (अट्टहासेन)। अभिभवी शत्रुविषयकपराभववान (६) । पुनः कथम्भूतः । भाभाभिभूः दीप्तिरूपत्वात् भाः सचासौ भारूपाणां रुद्रादीनां अभि सम्यम् भूः आश्रयश्च सतथा (६) । पुनः कथम्भूतः। भिभवी भं नक्षत्रं अस्यास्तीति भीचन्द्रः तेन तद्वान् अभिमन्युर्लक्ष्यते । भवो रुद्रः तेन तद्वान् घटोत्कचो लक्ष्यते तावस्य स्त इति भिभवी (८) । अत्र सर्वत्रापि यद्भरित इति हेतुरावर्तनीयः । तथा च कृष्णसन्निधाने-नैवैतादृशं माहात्म्यं (विशेषराष्टकं) भीमेनाप्तमिति भावः ॥ ५९ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यदनुग्रहि (ह) पूर्णत्वात् । भीमः । सर्वान् । अरीन्। अनहिपूः । नत्वा । अत् । अदहत् । बाहुबलेन । क्रोधाग्नौ । आहितान् । निजाहुबलेन ॥ ६० ॥

यदनुग्रहीति । भीम इत्यावर्तते अरीनित्यपि । यदनुग्रहिपूर्णत्वात् यस्य कृष्णस्यानुग्रहो एषामस्तीति यदनुग्राहिणः तेषु पूर्णः । अधिकानु ग्रहवान् तस्य भावस्तत्वं तस्मात् । बाहुबलेन स्वबाहुबलेनैव । नास्त्र-सम्प्रयोगादिनेति भावः । सर्वान् अरीन् बाह्यानन्तरांश्च । अदहत् भस्मीचकार । कथम्भूतानरीन् । क्रोदाग्नौ क्रोधो मन्युर्नृसिंहः स एवाग्निः तस्मिन् । आहितान् आहुतान् । उकारस्थाने इकार-स्तृतीयोऽतिशयार्थः । ननु केन होममन्त्रेण होम इत्यत आह निजाहुबलेनेति । निजं स्वसम्बन्धि आहुराह्वानं नृसिंहस्य यस्मिन् स निजाहुः सचासौबलश्च (अत्र बस्य रत्वं लस्य वत्वं नस्य णत्वं च विवक्षित्वा रवेणेति सम्पद्यते) बलः रवः मन्त्रः सतथा तेनेत्यर्थः। नृसिंहाह्वानकरण मन्युसूक्तेन नृसिंहरुप एवाग्नौ वैरिबललक्षणं हविर्हुत्वा भस्मीचकारेत्यर्थः । यथोक्तं ‘स्मरन्नृसिंहं भगवन्तमेनं समन्युसूक्तं च ददर्श भक्त्ये’ति । नन्वावान्तराः कामादयोऽपि तेन भस्मीकृता इति कुतो ज्ञायत इत्यतस्तत्र हेतुगर्भविशेषणमाह अनहिपूरिति । नहः नहनं (बन्धनम्) एषामस्तीति नहिनः बद्धाः न नहिनः अनहिनः जीवन्मुक्तास्तान् स्वदर्शनादिना पुनातीति अनहिपूः । तथा च यः स्वदर्शनादिना जीवन्मुक्तान्पवित्रीकरोति (ताृशकृष्णेन शत्रुभयङ्करस्य) तस्य कामाद्यन्तःशत्रुहननं समवितमेवेति ज्ञायत इति भावः । ननु बाह्यशत्रुविनाशे बाहुबलं साधनमुक्तं आन्तरशत्रुनाशे किं साधनमित्या-शङ्कायां तत्साधनसूचकं विशेषणमुक्तं आन्तरशत्रुनाशे किं साधन-मित्याशङ्कायां तत्साधनसूचकं विशेषणमुक्तं नत्वादिति । नत्वा नमस्कृत्य अरीन् अत्ति (संहरतीति) अत् अत्र नमस्कारे नाम ‘नाहं कर्ता हरिः कर्ता तत्पूजाकर्मचाखिलमि’त्यनुसन्धानविशेषः । तथा च विहितानुष्ठान काले (विहितविषयादनकाले) स्वविहितशत्रुसंहारादि-करणकाले उक्तानुसन्धानाविशेषवतः कुतः कामाद्याः शत्रवःस्युरिति भावः । यदनुग्रहपूर्णत्वादिति पाठे यस्यानुग्रहः येषामिति बहुव्रीहिः॥ ६० ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— कृष्णाभीमाप्ततमः । शीर्णम् । येन । स्वकीय-हृदयमाप्ततमः । धृतराष्ट्रसुतान् । अवधीत् । भीमेन । स्थापितः । मनसि । सुसुतान् । अवधीत् ॥ ६१ ॥

कृष्णेनति । कृष्णाभीमाप्ततमः द्रौपदीभीमयोरतिशयेनाप्तः । स कृष्ण इति शेषः । धृतराष्ट्रसुतान् दुर्योधनादीन् । भीमेन निमित्तेन(भीमं निमित्तीकृत्येति यावत्) । अवधीत् जघान । कथम्भूतेन भीमेन । येन । स्वकीयहृदयमाप्ततमः स्वभृत्यमनोगतं तमः अज्ञानम् । शीर्णं नाशितम् । येन च श्रीकृष्णः मनसि स्वमनसि स्वकीयानां वा मनसि विहितसमर्पणाय स्थापितः तेनेत्यर्थः । अत्र यद्यपि हृदयाप्ततम इति वक्तव्यं ततापि छान्दसो मुमागमो अलुक्समासो वा विवक्षित इति नकोपिदोषः । (स्वकीयहृदयं आप्ततम इति पदच्छेदे विशेषणयोगो नित्यसाकाङ्क्षत्वात्साधुः) कथम्भूतान्धृतराष्ट्रसुतान् । सुसुतान् सुष्टुनिष्पिष्टान् । लुप्तोपमा वा सुष्टुनिष्पिष्टसोमतुल्यानिति । अनेन युद्धाख्ये यज्ञे दुर्योधनादीन्सोमतया प्रकल्प्य तन्निष्पेषणं कृत्वा हरये तत्समर्पितवानित्युक्तं भवति । अत एव मनसि स्थापित इत्युक्तम् । यथोक्तं ‘युद्धाख्ययज्ञे सोमबुद्ध्यारिवक्ष’ इत्यादि । ननु भीमेन निमित्तेन दुर्योधनादीन् हत्वा भूकण्टकं समुद्धृत्य कृष्णः पुनः किञ्चकारेत्याशङ्कायामुक्तं अवधीदिति । भीमेनेतिवर्तते । अवधिं धर्ममर्यादां ईरयतीति ईत् जात इति शेषः । भीमेनैवनिमित्तेन धर्ममर्यादा -प्रवर्तको जाता इति भावः । एतदर्थमेव भीमस्य स्वकीयाज्ञान-नाशकत्वं तन्मनसि कृष्णस्थापकत्वं चोक्तमिति ज्ञातव्यम् ॥ ६१ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— भीमविपाटितदेहान् । अदर्शत् । स्वान् । अरीन् । विपाटितदेहान् । कृष्णायाः । हितकारी । सम्यक् । ईरप्रियः । सदा । अहितकारी ॥ ६२ ॥

भीमेति । श्रीकृष्ण इति शेषः । स्वान् अरीन् दुर्योधनादीन् । कृष्णायाः इति षष्ठी चतुर्थ्यर्थेऽपि योज्या । कृष्णायै । भीमविपाटितदेहान् । भीमेनविपाटिताः छिन्नाः देहाः येषान्ते तथोक्तास्तान् । अदर्शयत् । पुनः कथम्भूतान् । विपाटितदेहान् विपाः पक्षिश्रेष्ठाः तेषां अटितं अटनं भ्रमणं ददतीति विपाटितदाः ईहाः चेष्टाः उत्तरीयहस्तपादादिचेष्टाः । येषां ते तथोक्ताः तान् । विपाटित-वैरिदेहभक्षणार्तमागताः पक्षिश्रेष्ठाः तदीयहस्तपादादिचेष्टाभिर्वारिता-स्सन्तः इतस्ततो भ्रमन्ति । एवं विधचेष्टायुक्तानदर्श यदिति भावः । कथम्भूतः कृष्णः । कृष्णायाः द्रौपद्याः । हितकारी हितं करोतीति सः । कृष्णाहितकरणे कोहेतुरित्यतस्तत्सूचकं विशेषणान्तरमाह सम्य-गीरप्रिय इति । ईरः मुख्यवायुः तस्य सम्यक्प्रियो यतोऽतस्तद्भार्यायाः कृष्णायाः हितकारीति भावः । कृष्णेन कृतं द्रौपदीहितं कीदृशमित्यत-स्तद्दर्शयितुमन्यद्विशेषणमुक्तं सदाहितकारीति । सदा निरन्तरं स्वभक्तानामहितान् वैरिणः कालयति संहरतीति सदाहितकारी । रस्य लत्वं कलसंहरण इति घातोः । यद्वा सतां भक्तानां आ सम्यक् समान्ताद्वा (हितं करोतीतिवा) हिताः सदाहिताः तेषां कालः कलनं करणं अस्यास्तीति तथोक्तः । तथा च द्रौपदीवैरिसंहरणरूपहितं कृष्णेन कृतमितयनेन दर्शितमिति ज्ञातव्यम् ॥ ६२ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— अथ । हरिणा । अपि इतबलम् । द्रौणेः । अस्त्रं महारिणा । पीतबलम् । दधता । वासोऽमरणम् । नीतम् । चक्रे । अभिमन्युजम् । सोमरणम् ॥ ६३ ॥

अथेति । अथ वैरिसंहरणानन्तरम् । दधता गर्भपोषकेण । महारिणा महान्तः अराः नेमयो यस्य तत् महारं सुदर्शनं तदस्यास्तीति महारी तेन । हरिणा कृष्णेन । इतबलमपि बलेन इतं युक्तं इतबलं सामर्थ्ययुकतमपि । द्रौणेः अश्वत्थमाम्नः । अस्त्रं ब्रह्मास्त्रम् । पीतबलं पीतं नाशितं बलं यस्य तत्तथोक्तम् । कृतमिति शेषः । ननु हरिणा द्रौण्यस्त्रं नाशितबलं कृतमिति कथं ज्ञायत इत्युक्तं अभिमन्युजं नीतं चक्र इति । य इति शेषः । यः कृष्णः । अभिमन्युजं परीक्षितम् । गर्भाद्बहिरितिशेषः । नीतं निर्गतम् । प्रसूतमिति यावत् । चक्रे कथम्भूतम् । वासोऽमरणं वाससि उत्तरायाः तन्वां उल्बे (वास्सदृशे गर्भवेष्टनचर्मपुटकरूपजरायौ अभरणं न विद्यते मरणं यस्यतम् । स्वरक्षणेनामृतम् । एतदर्थमेव दधतेत्युक्तम् । पुनः कथम्भूतम् । सोमरणं अत्र रणशब्देन तत्सम्बन्ध्यस्त्रं लक्ष्यते । उमया सहितः सोमः रुद्रः तदात्मा द्रौणिः तस्य रणः रणसम्बध्यस्त्रं यस्मिन्सतथा तम् । द्रौण्यस्त्रलक्ष्यमिति यावत् । ‘तत्रैव पातयाम्यस्त्रमुत्तरागर्भकृन्तने’ इति वचनात् । तथा च द्रौण्यस्त्रलक्ष्यभूतः परीक्षित् गर्भेप्रसूत्यनन्तरं बहिरपि हरिणा रक्षितो न मृतः । अतस्तदीयमस्त्रं नाशितबलं हरिणा कृतमिति ज्ञायत इति भावः ॥ ६३ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— तस्य । च । रक्षा । सुकृता । जनार्दनेन । ईशशेषकेक्षासुकृता । पार्थेषु । प्रेमवता । नित्यम् । भर्त्रा । असुतासुविप्रेम् । अवता ॥
न केवलं द्रौण्यस्त्रलीयभीतः परीक्षित् गर्भे प्रसूत्यनन्तरं बहिरपि हरिणा रक्षितः (नमृतः), किन्तु यावज्जीवं रक्षितश्चेत्याह तस्येति ।

जनार्दनेन (आयुर्घातकजनमर्दकेन कृष्णेन) । तस्य परीक्षितः । नित्यं सर्वदा । रक्षा च । सुकृता सम्यक्कृता । अत एव लोके स विष्णुरात इति प्रसिद्धः । ब्रह्मादिरक्षकस्य परीक्षिद्रक्षणं नाश्चर्यमित्याशयेन कृष्णं विशिनष्टि ईशशेषकेक्षासुकृतेति । ईशः रुद्रः शेषः अनन्तः को ब्रह्मा च ईशशेषकाः तेषां ईक्षया कृपाकटाक्षेणैव असून् प्राणान् करोतीति ईशशेषकेक्षासुकृत् तेनेत्यर्थः । संहारकेषूतमत्वाच्छेषरुद्रयोः स्रष्टृषूत्त-म्वात्कस्य च ग्रहणमिति ज्ञतव्यम् । ननु परीक्षिद्रक्षणे किं निमित्तमित्यत उक्तं पार्थेषु प्रेमवतेति । पाण्डवेषु प्रीतियुक्तेन । भर्त्रा (तेषां) स्वामिनेति च । तथा च पार्थानां स्वभृत्यत्वात्तेषु प्रेमवता कृष्णेन तद्वंशधारकस्य परीक्षितः रक्षणं कृतमिति भावः । नन्वेवं परीक्षिन्नित्यं कृष्णैकरक्षितश्चेत्कथमसम्पूर्णायुः विप्रशापेन मृत इत्यत उक्तं असुतासुविप्रेमवतेति । असुताः अनिष्पिष्टाः अदान्ताः असवः प्राणाः इन्द्रियाणि येषां ते असुतासवः अजितेन्द्रियाः क्रोधवश इति यावत् तेचते विप्राः ब्रह्मणाश्च तेषां ई श्रियं शापरूपां अवता रक्षतेत्यर्थः । तथा च क्रोधाविष्यविप्रशापरक्षणं कर्तुं (विप्रशापं सत्यं कर्तुं) शापपर्यन्तमेव रक्षाकृतेति भावः ॥ ६४ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— ज्ञानम् । परम् । प्रादात् । भीष्मगतः । सृतिविमोक्षचरमम् । प्रादात् । पाण्डुस•नाम् । अधिकम् । चके्र । वेदम् । गुणोत्तरम् । स्वनामधिकम् ॥ ६५ ॥

ज्ञानमिति । प्रादात् प्रकृष्टं राज्यं न ददति (पाण्डवानामिति) प्रादाः कौरवाः तानत्तीति प्रादात् श्रीकृष्णाः भीष्मगतः भीष्मसन्निहितस्सन् । सृतिविमोक्षचरमं सृतेः संसारस्य विमोक्षो यस्मात्स सृतिविमोक्षः मोक्षधर्मः स एव चरमः अन्तिमो यस्यतत्तथोक्तं तत् । मोक्षधर्मान्त-विषयकमिति यावत् । अथवा सृतिविमोक्षरूपे साध्ये चरमं चरमकारणरूपम् । परमम् उत्तमम् । ज्ञानम् । पाण्डुसुतानाम् । प्रादात् । प्रददौ । पाण्डुसुतानामित्यावर्तते । किञ्च पाण्डुसुतानाम् । वेदं पाण्डवप्रतिपादकं इति हासरूपं पञ्चमं वेदं (भारतं) । अधिकं ऋगादिवेदापेक्षया उत्तमम् । चक्रे (प्रतिपादितवान्) कुत इत्यतस्तत्रहेतुगर्भं इतिहासविशेषणद्वयं गुणोत्तरं स्वनामधिकमिति च । गुणोत्तरं उत्तराः उत्कृष्टाः गुणाः भगवद्गुणाः प्रतिपाद्याः यस्य सः गुणोत्तरः तं ऋगादिवेदानुक्तस्वगुणप्रतिपादकमिति यावत् । स्वनामधिकं स्वस्यनामानि विश्वंविष्णुरित्यादिसहस्रनामानि धीयन्ते अस्मिन्निति स्वनामधिः स्वनामधिरेव स्वनामधिकः स्वार्थे कप्रत्ययः तं तथा च भारतरूपो वेदः प्रसिद्धवेदानुक्तस्वगुणप्रतिपादकत्वात् प्रत्येकं बह्वर्त सहस्रनामवत्त्वाच्च ऋगाद्यपेक्षयोत्तम इति प्रतिपादित-वानिति भावः ॥ ६५ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— तेन । अवापि । सुजतैः । इयमेधः । तुरगावर्तने । अपि । सुजातैः । पाण्डुसुतैः । सवसूकैः । आप्तैः । व्यासात्मना । सुसवसूकैः ॥ ६६ ॥

तेनेति । पाण्डुसुतैः । हयमेधः अश्वमेधः । व्यासात्मना व्यासस्वरूपेण । तेन कृष्णेन । तदुभयप्रसादेनेति यावत् । अवापि प्राप्तः । कथम्भूतैः । सुजातैः सु समीचीनं जातं जन्म जन्म येषां ते तथोक्तास्तैः । अनेन यज्ञाधिकारस्सूचितः । पुनःकथम्भूतैः । तुरगावर्तनेऽपि पृथिव्यामश्वपरिवर्तनेऽपि । सुजातैः जययो-रभेदात्सुयातैः सु सम्यक् यातैः गतैः । पुनः कथम्भूतैः । सवसूकैः वसुना द्रव्येण सहितः सवसुः उकारवाच्ये रुद्रे नियामकतया स्थितः उः कः आनन्दरूपः परशुरामो येषां ते तथोक्ताः तैः । अश्वमेधयज्ञार्थं धनशून्यानामेषां यज्ञोच्छिष्टद्रव्याधिपरुद्रदेहान्तर्गतः परशुरामः धनं ददातीति भावः । यद्वा वसुना सहितः सवसु सचासौ उश्च सवसूः । यज्ञोच्छिष्टधनाधिपरुद्रान्तर्गतपरशुरामः कः कार्यकर्ता येषां ते तथोक्तास्तैरित्यर्थः । पुनः कथम्भूतैः । आप्तैः (धनं प्राप्तैः) तमेव शरणं प्राप्तैः । पुनः कथम्भूतैः । सुसवसूकैः सु समीचीनः सवः यज्ञः तं सन्वन्ति कुर्वन्तीति सुसवसुवः ते च ते उकाः उत्कृष्टप्रकाशरूपाश्च बुधा इति यावत् । अथवा सुसवस्य समीचीनयज्ञस्य सुः सवनं करणं तस्मिन् उः उत्कृष्टः कः प्रकाशः ज्ञानं येषां ते तथोक्तास्तैरित्यर्थः । यज्ञकरणोपयुक्तज्ञानवद्भिरिति भावः ।

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— तदनु । सुपाण्डुतनूजैः । रेमे । क्ष्माम् । पालयन् । सुपाण्डुतनूजैः । अनुपमसुखरूपः । जः । परमः । श्रीवल्लभः । सति । सुखरूपः । अजः ॥ ३७ ॥

तदन्विति । यच्छब्दबलात्स इति सिद्ध्यति । सः कृष्णः । तदनु तदनन्तरम् । सुपाण्डुतनूजैः समीचीनैः पाण्डुतनयैर्निमित्तैः । क्ष्मां पालयन् रेमे । कथम्भूतैः । सुपाण्डुतनूजैः सु अत्यन्तं पाण्डुः शुद्धाचसा तनूश्च बाह्यदेहः स्वरूपदेहश्च तां यान्तीति सुपाण्डुतनूयाः जययोरभेदः तैः सुपाण्डुतनूयैः बाह्यदे(हे)हैः स्वरूपदेहं प्राप्तवद्भिरिति भावः । इदं नाश्चर्यमित्याशेन तस्य महिमानमाहोत्तरार्धेन । जः जययोरभेदात् यः । अनुपमसुखरूपः असदृशसुखात्मकं रूपं शरीरं यस्य स तथा । परमः सर्वोत्तमः । श्रीवल्लभः श्रीपतिः । सति महदादिकार्ये । सुखरूपः सुनिर्दुष्टं यथाभवति यथा खेन आकाशेन दृष्टान्तेन रूप्यत इति सुखरूपः । आकाशवत्सर्वकार्येषु प्रविष्टतया ज्ञेय इति भावः (अथवा खैः ब्रह्मादीन्दियैः रूप्यते ज्ञायत इति स्वरूपः) । अजः जननरहितः (नित्यमुक्तः) स इति सम्बन्धः । एतादृामाहात्म्यवतः कृष्णस्य पाण्डवैः सह क्ष्मापालनं कियत् । नाश्चर्यकरमित्युक्तं भवति ॥ ६७ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— सुगतिम् । चरमाम् । अददात् । निजयोग्याम् । ज्ञानिसुततिम् । परमाम् । अददात् । पार्थानाम् । सयदूनां । सः । पितृप्रेष्यादिनामिनाम् । सयदूनाम् ॥ ६८ ॥

सुगतिमिति । सः श्रीकृष्णः । सयदूनां यादवसहितानाम् । पार्थानां पाण्डवानाम् । ज्ञानिसुततिं ज्ञानिनां देवादीनां सु शोभना ततिः समूहो य (स्यां सा) स्यास्सा तथोक्ताताम् । परमां इतरदेवतापेक्षयोत्तमाम् । निजयोग्यां स्वयोग्याज्ञ् । चरमां धर्मादिपुरुषार्थेषु चरमां मोक्षरूपाम् । सालोक्यादिषु चरमां सायुज्यरूपामितिवा । सुगतिं शोभनां गतिम् । अददात् अदादिति वक्तव्ये दकारस्याभ्यासः छान्दसः सचातिशयार्थः अतिशयेनादादिति । कथम्भूतानाम् । पितृप्रेष्यादिनामिनां वसुदेवादयः पितरः उद्धवादयः प्रेष्याः आदिपदात् । प्रद्युम्नादयः पुत्राः पार्थाः पितृष्वसुः पुत्राः बलभद्रादयो भ्रातर इत्यादिग्राह्यम् । तथा च पितृप्रेष्यादिनामानि शब्दाः एषां सन्तीति तथोक्ताः तेषामित्यर्थः । अनेन वसुदेवादिषु पित्रादिशब्द मात्रम् । नत्वर्थः । कृष्णस्य जननाभावादिति सूचयति । तेनचैतेषां कृष्णेन शरीरसम्बन्धप्रयुक्तस्नेहेन मोक्षोदत्त इति शङ्का निराकृतेति ज्ञातव्यम् । शेषमार्गेर गरुडमार्गेण वा विरिञ्च प्रविष्टानां देवानां विरिञ्चस्य च सायुज्यप्रदेकृष्णे नेदमाश्चर्यमित्याह सयदूनामददादिति । सयदूनां यान्तीति यन्तो मरुतः उकारवाच्यो रुद्रः तैस्सहिता गरुडाद्यादेवाः सयदवः तेषाम् । अत्र रुद्रवाचकेन उकारेण रुद्रो नग्राह्याः । किन्तु शेषो ग्राह्यः । रुद्रस्येदानी मुक्क्त्यभावात् । कर्मणि षष्ठी । (यातीति यन् गरुडः द्वीपाम्बुराशिकुलाचलादिचालक-वेगवद्गरुद्भ्यामुड्डीयोड्डीयगन्तुर्गरुडस्य अब्भक्षो वायुभक्ष इति वदसाधारण्येन व्यपदेशमाश्रित्य ग्रहणात् गरुडादिदेवा इति वा) त। तथा च सयदून् मरुच्छेषादिदेवसहितान् गरुडादीन् । अददात् अत्तीत्यदन् अदंश्चासावश्च ब्रह्मा च सोऽददः तं अत्तीति अददात् कृष्ण इत्यर्थः । अत्र ब्रह्मणः शेषाद्यदनं कृष्णस्य ब्रह्मादनं प्रये स्वदेहनाशार्थमागतानां ग्रमनं मुक्तौ सायुज्यं चेत्युभयविधं विवक्षित-मिति ज्ञातव्यम् । पितृप्रेष्यादिनामवतामित्येतत् देवतावाचकसयदूना-मित्येतद्विशेषणतयापि योज्यम् । अत्र पितरः शेषाद्याः पुत्राः इन्द्राद्याः प्रेष्या भृत्याः केचिदित्यवगन्तव्यम् । अत्र चेदं विशेषणं जन्यानां जनकेषु भृत्यानां स्वामिषु देहलयोभवतीति सूचयितुम् ॥ ६८ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— रेमे । तत्र । अपि । सुखी । परमः । अनन्तः । ननन्दः । तत्र । अपि । सुखी । प्राणेन । इन्दिरया । च । प्रयुतः। नित्यम् । महागुणेन्दिरया । च ॥ ६९ ॥

रेम इति । स इत्यनुवर्तते । सः हरिः । तत्र तेषां मध्ये । रेमे । कथम्भूतः । अपिसुखी अत्र तृतीयोऽतिशय इत्यतो बकारस्थाने पकारः वबयोश्चाभेदः । तथा च विसुखं सुखविरुद्धं दुःखं तदस्यास्तीति विसुखी दुःखी स नभवतीत्यविसुखी सर्वथा दुःखास्पृष्ट इत्यर्थः । अत्र हेतुद्वयं परमोऽनन्त इति । परमः सर्वोवमः । अनन्तः देशतः कालतो गुणश्चान्तशून्यः । सुखी सर्वत्रापि सुपूर्णसुखोदेवः (नित्याभिव्यक्त-सुखः) । तत्रापि वैकुण्ठादि स्थानेष्वपि । ननन्द । अतिसमृद्धि-मत्तया व्यक्तोऽभवदिति यावत् । पुनः कथम्भूतः । प्राणेन इन्दिरया च । प्रयुतः प्रकर्षेण साक्षादेव युतः । अनेन शेषादीनां तारतम्येन योगमात्रं श्रीप्राणयोः प्रकृष्टो योग इति सूचितम् । श्रीप्राणयोरपि किं प्रयुक्ततं समानम् । नेत्याह महागुणेन्दिरया च प्रयुत इति । महान्तः प्राणापेक्षयोत्कृष्टाः गुणाः यस्यास्सा तया इन्दिरया प्रकर्षेणार्धदेहात्मना च युत इत्यर्थः । अत्र महागुणत्वं हेतुतयोक्तम् । यद्वा महागुणेन्दिरा स्वरूपभूतलक्ष्मीः तया प्रयुतः तादात्म्येन सङ्गत इत्यर्थः । (प्राणे इन्दिराद्वारा रेमे न तु द्वारपरित्यागेन । इन्दिरायां स्वात्मक-स्त्रीरूपेन्दिरया प्रयुतः रेमे स्वरमणत्वात्) ॥ ६९ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— एवम् । सर्वाणि । हरेः । रूपाणि । श्रीपतेः । सुपर्वाणि हरेः । पूर्णसुखानि । सुभान्ति । प्रततानि । निरन्तराणि । सुभान्ति॥ ७० ॥

एवमिति । श्रीमतेः हरेः । (यानि) रूपाणि मत्स्यादीनि (तानि) सर्वाणि । एवं भारतप्रतिपाद्यमूलरूपवत् तत्प्रतिपाद्यनीकृष्णरूपवद्वा ज्ञेयानि । कथम्भूतस्य हरेः । सुर्पाणि हरेः सुपर्वाणः देवाः तेषां आणिः (चाचलिः ?) मुख्याश्रय इति यावत् । स्वस्थानादेः दैत्यान् हरतीति हरः । सुपर्वाणिश्चासौ हरिश्चेति विग्रहः तस्येत्यर्थः । एवमित्युक्तं विवृणोति पूर्णेत्यादिना । पूर्णसुखानि सम्पूर्र्णसुखस्वरूपाणि । सुभान्ति सुप्रभाणि । प्रततानि प्रकर्षेणे व्याप्तानि । निरन्तराणि परस्परभेदरहितानि । सुभान्ति सुष्टु भा प्रभा येषान्ते सुभाः (लक्ष्म्यादयो देवाः) तेषां अन्ति अन्तिके (हृदये बहिः समीपे वा) स्थितानीति शेषः । (सर्वाणि मत्स्यादिरूपाणि भारत प्रतिपाद्यकृष्ण-रूपवत् ज्ञानिभिर्ज्ञेयानीत्यर्थः) ॥ ७० ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— राम । राम । महाब । अहो । माया । ते । सुदुरासदा । वाद । सादद । कः । लोके । पादौ । एव । तव । आसजेत् ॥ ७१ ॥
सर्वावताराणां स्वरूपं समान्यत उक्त्वा रामं विशेषतः स्तौति रामेति ।

र अग्ने । रकारस्याग्निबीजत्वात् । दुष्टदाहकेति यावत् । आम अपाक । अत्र पाकशब्देन तापो लक्ष्यते । तथा च अतापेत्यर्थः । तापत्रय परिहर्तरिति (रहितेति) यावत् । रश्चासावमश्च रामः । रः क्रीडारूपः । अमः अप्रमेयः रश्रचासावमश्रच रामः तस्य सम्बुद्धिः । र अमेतिवा । महाव महाबल । मबयोरभेदात् महाम् । महती मा ज्ञानं यस्य स महामः । माहाज्ञानेति वा । वबयोरेदात् महाव महाज्ञानेतिवा । अहो हे इत्यर्थः । महाबाहो इत्येकं पदं वा । ते तव । माया ज्ञानप्रद । स्वगति प्रद गन्धनप्रद । उपलक्षणया घ्राणादिभोगदेति यावत् । वा गतिगन्धन योरिति घातोः । सादद सादः विनाशः तमोभिधः । तथा च अमरशत्रूणां तमः प्रदेत्यर्थः । वादसाददेत्येकं पदं वा । वादस्य वादकथायाः सादः अवसानं (सम्पूर्तिः) तत्प्रद । विष्णुविषये (गुरुशिष्ययोः) वादकथा केनापि साकल्येन कर्तुमशक्येति भावः । लोके जगति सत्यादिलोके । क एव साकल्येन कर्तुमशक्येति भावः । लोके जगति सत्यादिलोके । क एव ब्रह्मैव । तव । पादौ । आसजेत् आश्रयेत् । अच्छिन्नभक्तत्त्वात् । अन्यस्य त्वत्पादाश्रयणं छिन्नभक्तत्वान्नेति भावः ॥७१॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— जेत् । सवातव । वेदाप । आके । लोकोदद । सादव । दासर । आत् । उसुतेयाम । अह । उवाह । आ । भम। राम । राः ।

जेदिति । (त्वमेवेति शेषः) । जेत् सर्वजेतः । सवातव तस्य सम्बुद्धिः हे सवातवेति । वेदाप वेदगम्य । (वेदान् आसमनन्तात् व्यासरूपेण पातीति वेदापः तस्य सम्बोधनमिति वा । प्यतेगम्यत इति पः सनभवतीत्यपः वेदैः अपः वेदापः साकल्येन वेदागोचर इति यावत् तस्य सम्बोधनं वेदागम्येति वा) आके समीपे दूरेच । ‘आकं दूरसमीपयोरित्यभिधानं’ दोषाणां जगतश्च दूरे । गुणानां समीपे च स्थितेति शेषः । (आके सर्वजगदन्य सर्वदोषविरुद्धेति वा । सर्वगुणपूर्ण सर्वदोषाभाववन्निति यावत्) लोकोदद उदेत्यनेन मोक्ष इत्युदं ज्ञानम् । उदेत्यनेन ज्ञानमित्युदं कर्म वा । लोकस्य उदं ददातीति लोकोददः तस्य सम्बुद्धिः । सादव सादस्य भक्तानां भयस्य व वारक निवारक। दासर दासाः दस्यवः तेषां र अग्ने दाहकेति यावत् । यद्वा दासाः भृत्याः तेषां र रतिप्रदेत्यर्थः । आ अत् इति हकेति यावत् । यद्वा दासाः भृत्याः तेषां र रतिप्रदेत्यर्थः । आ अत् इति पदच्छेदः ? तथा च आ आदित्यः तं अत्तीति आत् आदित्यभक्षक । अनेन सौरमतं निराकृतमिति ज्ञातव्यम् । उसुतेयाम उः रुद्रः तस्य सुतौ स्कन्द विघ्नेशौ ईः लक्ष्मीः शक्तिनाम्नी तासां याम नियामक । अनेन शैवस्कान्द गाणपतशाक्तेतमतानि निराकृतानीति ज्ञातव्यम् । अह हीयत इति हः स न भवतीत्यहः ओय । अहीनेति वा । उवाह वबयोरभेदात् उः रुद्रः वाहः वाहको वाहनं यस्य स तथोक्तः तस्य सम्बोधनम् । हरिः कदाचित् मेषरूप शङ्करारूढो जात इति पुराणप्रसिद्धिः । (हे राम त्वमेव मम राः धनमित्यर्थः श्रीरामस्यैवाचार्य -द्रव्यरूपत्वकथनेन आचार्याणामपि ब्रह्मवदच्छिन्नभक्तत्वं सूचितम्) । आ मम राम रेति पाठे आ मम राः अमर इति पदानि । तथा च हे अमर त्वं आ समन्तात् मम राः धनं विष्णो त्वमेव मम धनं नान्यदिति भावः । (रामरामेति श्लोकस्य प्रत्यक्षरप्रातिलोम्येन जेत्सदेति श्लोकोभवतीति प्रत्यक्षरप्रतिलोमयमकोयं श्लोकः ।) ॥ ७२ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— देवानाम् । पतयः । नित्यम् । मतम् । यस्य । न । जानते । तस्मै । देव । नमस्ये । अहम् । भवते । असुरमारये॥ ७३ ॥
बुद्धं नमति देवानामिति ।

देवानां पतयः देवश्रेष्ठा । अपि । यस्य बुद्धरूपस्य हरेः । मतं सिद्धान्तम् । नित्यं नो(न) जानते । किमु देवाः किं पुनर्दानवा इति भावः । हे देव । अहम् । तस्मै भवते (नित्यं) । नमस्ये । कथम्भूताय । असुरमारये असुरघातकाय । असुराणां मायाः ज्ञानस्य शोभाया वा अरय इति वा । असुभिः रमन्त इत्यसुराः देवाः तेषु मा ज्ञानं शोभा वा तस्याः रये दात्रे इति वा । रा दान इति धातोः । अत्र रायेतिभाव्ये अकारस्य इकारस्तृतीयोऽतिशयार्थः । तथा च इकारस्य गुणे अयादेशे च सति रये इति चतुर्थी युक्तेति भावः (अनेन बुद्धावतारस्यापि मुमुक्षुज्ञेयत्वं सूचितं भवति ॥ ७३ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— समस्तदेवजन । कवासुदेवपरामृत । वासुदेव । परामृत । (परा । अमृत) । ज्ञानमूर्ते । नमः । अस्तु । ते ॥७४॥
(अत्र द्वितीयतृतीयपादयोरैकरूप्यं) कल्किनं नमति समस्तेति ।

समस्तदेवजन देवाश्च ते जनाश्च देवजनाः नृदेवजनाः दुष्टराजान इति यावत् । सम्यगस्ताः परास्ताः देवजनाः येन सः तस्य सम्बुद्धिः हे समस्तदेवजन । कलेरन्त्त्ते कुनृपान् कल्की जघानेति हि प्रसिद्धिः । कवासुदेवपरामृत कं सुखं वं ज्ञानं असुः प्राणः देवः देवनं क्रीडादि-सप्तकं परामृतं मोक्षश्च यस्मात्स तथोक्तः तस्य सम्बोधनम् । वासुदेव वाज्ञानं सुसुखं ताभ्यां देव । अनेन हे कल्किन्निति सम्बोधनं कृतमिति ज्ञातव्यम् । समानार्थत्वात् । कलं ज्ञानं कं सुखं तद्वान् कल्की इति । परामृत उत्तममुक्त अनन्तसुखेति यावत् । पर उत्तम । अमृत मरणरहितेतिवा । ज्ञानमूर्ते ज्ञानस्वरूप । ते तुभ्यम् । नमोऽस्तु । यद्वा समस्तदेवजनक समस्तदेवोत्पादक । वासुदेव वा ज्ञानस्वरूपः असुः प्राणः तस्य देवपर जगदुत्तमोत्तम । अं दुष्टानामन्तकेतिवा । ऋत शश्वदेकप्रकार । वासुदेव आदियुगादिकृत् वासुदेवनामकः । परामृत परे परान्ते अमृत शश्वदेकप्रकारेतिवा । पराणां उत्तमानां अमृत मोक्षप्रद । ज्ञानमूते त नमोऽस्त्त्वित्यर्थः ।

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— देवादे । देवलोकप । पूर्णानन्दमहोदधे । सर्वज्ञा । ईश । रमानाथ । देव । ओ । ओ । अव । लोकप ॥ ७५ ॥

देवेति । देवादे आदिश्चासौ देवश्च तस्य सम्बोधनं आदिदेवेत्यर्थः । देवलोकप महापद्भ्यः सुरगणपालक । पूर्णानन्दमहोदधे पूर्णानन्देन महोदधिरिव तस्य सम्बुद्धिः । सर्वज्ञ स्वपरगताखिलविशेषविषयज्ञान । ईश स्वामिन् प्रेरकेति वा । रमानाथ रमापते । देव क्रीडादिगुण । ओ अत्र अशब्देनाखिलङ्ग्राह्यं नामैकदेशे नामग्रहणस्य विहङ्गो वाहनं येषां ? इत्यादौ दर्शनात् । तथा च अं अखिलं जगदुत्पत्त्यादिकं ददातीत्यादिः तस्य सम्बुद्धिः ओ इति । अदिरित्यत्र अकारस्थाने इकारस्तृतीयोऽतिशयार्थः । ओ नविद्यते दिःक्षयः यस्य सः अदिः अक्षयः तस्य सम्बोधनं ओ अविनाशिन्निति यावत् दीङ् क्षय इति धातोः । लोकप अत्र ला शब्देन संसारलोपवन्तो मुक्ता उच्यन्ते तेषां कं सुखं तत्पातीति लोकपः तस्य सम्बोधनं लोकपेति । (त्वं अस्मान्) अव रक्ष अव रक्षणे इति धातुः । अत्र प्रथमचतुर्थपादयोरैकरूप्यम्) ॥ ७५ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— यः । निर्ममे । अशेषपुराणविद्याम् । योनिः । मम । इशेषपुः । आ । अणवित् । याम् । यः । अनिः । ममे अशेषपुराणवित् । द्याम् । या । उ । निर्ममेशे । षपुराणविदि । आ । अम् ॥ ७६ ॥
एवं भारतमाश्रित्य सर्वशास्त्रनिर्णयं कृत्वा एतद्विद्यावेद्यं विद्याधीशं स्मरंस्तच्छरणागतिं प्रार्थयते । (अत्र एकपादाभ्यासेन यमकनिर्वाहः) ।

अथान्वयपुरस्सरमर्थो वर्ण्यते । यः अयं यकारः इकार अकारप्रकृतिकः । न तु यच्छब्दः । इअ इति स्थिते यणादेशेसति निष्पन्नत्वात् । इकारो लक्ष्मीवाचकः अकारो विष्णुवाचकः तथा च लक्ष्मी सहितः विष्णुरित्यर्थः । द्वितीयस्य यइत्यस्य यच्छब्दरूपत्वम् । एवं च लक्ष्मीसहित ः यः विष्णुः (वेदव्यासः) इति पदद्वयेन लभ्यते । अशेषपुराणविद्याम् अशेषपुराणविद्याभिमानित्वेन तद्रूपां द्यां श्रियं भारती च (वा) । निर्ममे उत्पादित वान् । कथम्भूतां द्याम् । निर्ममेशे ममतारहितानां ईशे । आ सम्यक् । षपुराणविदि षः प्राणः ‘षकारःप्राण आत्मेति’ श्रुतिः तस्य पुरं शरीरं अणयति प्रापयतीति षपुराणो हरिः तं वेत्तीति षपुराणवित् तस्मिन् शुके । या उ उच्चा उत्कृष्टा वर्तत इति शेषः तामिति । पुनः कथम्भूतो विष्णुः । मम मे मदात्मकस्य शुकविष्टस्य सूत्रात्मनो वायोः । योनिः जनकः । आ सम्यक् । इशेषपुः ईलक्ष्मीश्च शेषश्च तौ पुनातीति ईशेषपुः । इकारदीर्घ -लोपश्छान्दसः । यद्वा इः कामः शेषश्च क्रमात् रोमहर्षणपैलगतौ कामशेषौ पुनातीति इर्शषपुरित्यर्थः । अणवित् वेत्तीति वित् नणयोर-भेदेन न वित् अवित् स न भवतीत्यणवित् सर्वज्ञ इति यावत् । यद्वा आणवित् इति पदम् । तथात्वे आसमन्तात् णं बलात्मकं मुख्यप्राणं वेत्तीति वा । णं प्रति अखिलं वेदयतीति वा । अनिः इः कामः यस्मिन्नास्तीत्यनिः अकाम इत्यर्थः । अशेष-पुराणवित् पुराणि शरीराणि अणन्ति प्राप्नुवन्तीति पुराणाः जीवाः अशेषाः अस्य अकारवाच्यस्य विष्णोः शेषाः उपसर्जनीभूताः किङ्करा इति यावत् समस्ता इति वा तेचते पुराणाश्च अशेष पुराणाः तान् वेदयति उत्पादयतीति अशेषपुराणवित् विद्लृ उत्पत्ताविति धातोः । यद्वा अशेषपुराणेषु तिष्ठतीति सः विसत्तायामिति धातोः । अथवा तान् वेत्तीति वित् विदज्ञान इति धातोः । सः विष्णुः एवं ममे वेदैः वैदिकै-राज्ञायि । अहं तदवताररूपं अं वेदव्यासम् । आ सम्यक् मद्योग्यता-नुसारेण । यां अयां शरणमितिशेषः । अलोपश्छान्दसः ॥७६॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
अनन्तपार । अमितविक्रम । ईश । प्रभो । रमाप । अरम् । अनन्तप । अर । महागुणाढ्य । अपरिमेयसत्व । रमालय। अशेष मह । आगुणाढ्य ॥ ७७ ॥
वेदैर्ब्रह्मादिभिरपि साकल्येन भगवान् स्तोतुमशक्य इत्याशयेन सदा तं पश्यन् (श्लोकद्वयेन) सामान्यतः सम्बोधनेन स्तौति अनन्तेति ।

अनन्तपार अन्तः कालतः परिच्छेदः उत्पत्तिनाशाविति यावत् पारः देशतः परिच्छेदः नविद्येते अन्तपारौ यस्य स तथोक्तः तस्य सम्बोधनं अनन्तपारेति । अमितविक्रम असङ्ख्येयाद्भुतानादिपराक्रम । ईश कर्तु -मकर्तुमन्यथाकर्तुं समर्थ । प्रभो जगत्स्वामिन् । रमाप रमापालक । अरं रलयो रभेदात् अलं सम्यक् । अनन्तप शेषपालक । अथवा अन्तशून्यं यन्नित्यं वस्तु प्रकृत्यादि तत्पालक । अथवा अनन्त अन्तशून्य । प पालक । अर अल अलय अक्षीणेति यावत् । महागुणाढ्य महद्भिः गुणैः परिषूर्ण । गुणानां महत्त्वं नाम बलज्ञानपूर्णत्वं आधिक्यं च । अपरिमेयसत्व अत्र सत्वं नाम बलज्ञानसमुच्चयः अपरिमेयं अनन्तं सत्वं यस्य स तथोक्तः तस्य सम्बोधनम् । रमालय श्रीनिवास । अशेषमह अत्र महशब्दो नैजसर्वगुणोत्कर्षपरः अशेषेभ्यः रमादिभ्यः नैजर्वगुरोत्कर्षवन्नित्यर्थः । अयं महशब्दोऽकारान्तो ज्ञेयः । आगुणाढ्य आढ्यः श्रेष्ठाः ब्रह्मादयः आगुणाः सम्यगुपसर्जनीभूता यस्य स तथोक्तः तस्य सम्बोधनं आगुणाढ्येति विपरीतसमासोऽयं (स्तुतिमात्रपरत्वात् क्रियासम्बन्धा-भावो न दोषापादकः । अनेन फलमनपेक्ष्य स्तोतृत्वमस्मत्स्वभाव इत्याचार्यैस्सूचितं भवति) ॥ ७७ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
(एकाक्षरयमकरूपोऽयं श्लोकः) एवं सामान्यतो वेदाः भगवतोऽनन्तगुणक्रियारूपाभिधायका इति प्रतिपाद्य इदानी अशेषाणि वैदिक (वर्णानि) पदानि प्रत्येकं योगवृत्त्या प्रवर्तमानानि भगवतोऽनन्तगुरतां विशेषादेव ज्ञापयन्तीत्याशयेनोपलक्षणतया भकारस्य विष्णुवाचित्वं दर्शयति भेति ।

(अत्र सर्वत्र भ आ इति पदं विवक्षितं आसमन्ताद्भेति सर्वत्रान्वयः) भा दीप्तौ (पचाद्यच् आतो लोप इटिचेत्याकारलोपे भातीतिभः तस्य सम्बुद्धिः भा एवं सर्वत्र) दीपक ॥ १ ॥

भा ज्ञाने सर्वज्ञ ॥ २ ॥

भा आधारे भूम्याद्यखिला धार ॥ ३ ॥

भा औदार्ये भक्ताभीष्टदाने उदार ॥ ४ ॥

भा सन्धाने अशेषघर्माणां सन्धानकर्तः ॥ ५ ॥

भा उपादाने प्रकृत्याद्युपादानत्व प्रद ॥ ६ ॥

भा निकटत्वे स्वकीयातिनिकट ॥ ७ ॥

भा सेव्यत्वे सुरादिसेव्य ॥ ८ ॥

भा ऊरीकरणे सुरादीष्टाङ्गीकरण ॥ ९ ॥

भा नयने अन्यान् नानाभावेन नेतः ॥ १० ॥

भा नमने सजजननम्य ॥ ११ ॥

भा वैलक्षण्ये समस्तविलक्षण ॥ १२ ॥

भा आधिक्ये सर्वाधिक ॥ १३ ॥

भा स्वातन्त्र्ये सर्वदा स्वतन्त्र ॥ १४ ॥

भा आनन्दे आनन्दपूर्णा ॥ १५ ॥

भा सन्ततवादे अनवरतवचन ॥ १६ ॥

भा पूज्यत्वे सर्वपूज्य ॥ १७ ॥

भा विस्तारे मुक्तौ विस्तारकर्तः ॥ १८ ॥

(भा पूजने स्वयमेव स्वपूजक)

भा विनाशे कुमति विनाशक ॥ १९ ॥

भा स्वामित्वे उत्तमस्वामिन् उभयस्वामिन् ॥ २० ॥

भा निश्चलत्वे शत्रुभिरप्रधृष्य

(स्वामित्रे स्वामित्वे निश्चल) ॥ २१ ॥

भा निखिलत्वे अखिलव्याप्त

(भा उद्गाने भक्तैरुद्गेय ॥ २२ ॥

भा सम्मोहने कुमातिसम्मोहक ॥ २३ ॥

भा सञ्चारे निखिल हृदयसञ्चारिरूप

(भा सम्पूर्तौ सम्पूर्ण) ॥ २४ ॥

भा विदारणे भक्तजनहृदयगताज्ञानतमोविदारक (सर्वेशोहं मदन्य ईशोनास्तीति वदतो विदारक) ॥२५ ॥

भा आलोचने ब्रह्मादिभिरपि इत्थमित्यालोच्य ॥ २६ ॥

भा दर्शने अशेषजनकृतकर्मसाक्षिन् ॥ २७ ॥

(भा कीर्तने सुजनसङ्कीर्त्य)

भा सौन्दर्ये देवादिष्वतिसुन्दर ॥ २८ ॥

भा कथने ब्रह्मादिकथक ॥ २९ ॥

भा स्मृतौ भक्तस्मृत ॥ ३० ॥

भा श्रवणे भक्तश्रुत ॥ ३१ ॥

भा आह्लादने भक्ताह्लादकारक ॥ ३२ ॥

अत्र सर्वत्र प्लुतः आकारोऽतिशयार्थः ॥ (भा धातोरर्थबाहुल्याद्भकारोपादानम्) ॥ ७८ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— न । एव । परः । केशवतः । परमात् । अस्मात् । समः । च । सुकेशवतः । सः । अयम् । शपथवरः । नः । शश्वत्। सन्धारितः । सुशपथवरः । अनः ॥ ७९ ॥

नैवेति । सुकेशवतः अत्र गकारस्थाने ककारः तृतीयोऽतिशयार्थः । तथा च सु शोभनाः गाः खगाः तेषामीशः सुपर्णः सुकेशः सोऽस्यास्तीति सुकेशवान् तस्मादित्यर्थः सुपर्णध्वजादिति यावत् । परमात् सर्वोत्तमात् । अस्मात् पूर्वोक्तात् । केशवतः कः ब्रह्मा ईशो रुद्रः तौ वर्तयतीति केशवः तस्माद्धरेस्सकाशात् । परः उत्तमः । नैव नास्त्यैव । समः तुल्यश्च नैव । सोऽयं श्रुतियुतिभ्यां सिद्धोऽर्थः । नः अस्माभिः । शपथवरः तप्तपरशुधारणादिरूपः शपथः वरः बलं यस्य स्तथोक्तः । शपथेनापि सिद्ध इति यावत् । बबयोः रलयोश्चा-भेदाद्बलमित्युपपन्नम् । शश्वत् सर्वदा (अवतारेपीति यावत्) । सन्धारितः निश्चितः । कुतः यस्मात् । अनः मुख्यप्राणः । सुशपथवरः सशोभनं शं सुखं यस्य स सुशः हरिः तस्य पन्थाः मार्गः तस्मिन् वरः श्रेष्ठः मोक्षदातेति यावत् । अतस्तवतारभतैरस्माभिर्मोक्षप्रदश्रीहरि -मार्गोपदेष्टृभिरेवं निश्चितमिति ज्ञातव्यम् ॥ ७९ ॥

यमकभारतटीका — यादुपत्यम्
Error: No field named "verse_lines" found for any of the specified database tables.
पदच्छेदः— कृष्णकथा । इयम् । यमिता । सुखतीर्थेन । उदिता। अनेने । यम् । यम् । इता । भक्तिमता । परमेशे । सर्वोद्रेकात् । सदा । नुवता । आप । रमेशे ॥ ८० ॥

कृष्णकथेति । अनेने अनस्य मुख्यप्राणात्मकस्य स्वस्य इने नेतरि । परमेशे उत्तमस्वामिति । रमेशे लक्ष्मीनाथे । सर्वोद्रेकात् सर्वोत्कर्षात् । भक्तिमता । सदा सर्वदा । नुवता नुः स्तात्रं तन्नित्य-मस्तीति नुवन् तेन नुवता स्तोत्रा । सुखतीर्थेन सुखकरं तीर्थं शास्त्रं यस्य तेन सुखकरशास्त्रकृता तन्नामकेन । उदिता कथिता । यमिता यमकमालिका (यमकात्मिका) (यमकलक्षणन्तु दण्डिकृतकाव्या-दर्शोक्तं ‘अव्यपेतव्यपेतात्मा व्यावृत्तिर्वर्णसंहतेः । यमकं’ इति । अस्यार्थः प्रागुक्तानां वर्णानां साहित्येन स्थानभेदेन वा पुनर्वचनं यमकमिति) । इयं कृष्णकथा । यम् । यम् । अत्र एकस्य यच्छब्दस्य द्वितीयान्त-त्वम् । अपरस्तु ईकाराकारप्रकृतिकः । तथा च ईकारवाच्यया श्रियायुक्तो यः यः अकारवाच्यो विष्णुः तमिति तदर्थः । ‘अकयप्रवि-सम्भूतसक (ख) हाविष्णुवाचका’ इत्यभिधानात् । विष्णौ रूढोवा यशब्दः । स इत्यध्याहार्यः । तथा च यं विष्णुं इता प्राप्ता यत्प्रतिपादका सः विष्णुः मया आप प्राप्तः । (अथवा सविष्णुः न कञ्चित्प्राप किन्तु अस्मान् आप प्राप । अस्मास्वेव विशेष-सन्निधानकर्ता) अथवा यं यमिति यच्छब्दद्वयं किं शब्दार्थकम् । तथा च इयं कृष्णकृथा यं यं कञ्चित्कञ्चिदेवनरं इता प्राप्ता न सर्वनर-मित्यर्थः । अतीवदुर्लभेति यावत् । अत्र या कृष्णकथा रमेशे विषये आप सा यं यमिति योज्यम् ॥ ८० ॥

यमकभारतटीका — यादुपत्यम्
पदच्छेदः— इति । नारायणनामा । सुखतीर्थसुपूजितः । सु नारायणना । मा । पूर्ण । गुणैः । अधिक । पूर्णज्ञानेच्छाभक्तिभिः । स्वधिकपूर्णः ॥ ८१ ॥

इतीति । हे गुणैः पूर्ण आनन्दादिगुणभरित । हे अधिक सर्वोत्तम । नारायणनामा नारायणनाम प्रतिपाद्यः । सु(न)रायणना सु(न)राणां रमाजशङ्करादीनां अयनं आधारः स चासौ ना परमपुरुषश्च सतथोक्तः स्वधिकपूर्णः सुष्टु अधिकाः ब्रह्मादयः तेषु पूर्णः सन्निहितः । (त्वं) इति उक्तप्रकारेण । पूर्णज्ञानेच्छाभक्तिभिः । सुखतीर्थसुपूजितः सुखतीर्थनामकेन मया सुष्टु पूजितस्सन् । मा माम् । अव रक्षेति(श्लो. ७५) पूर्वेणान्वयः । (द्वितीयपादे सुनारायणनामेति पाठे प्रथमपादे नारायण ना मा इति च्छेदः । हे नारायण दोषविरुद्धगुणाश्रय हरे । सुनारायणनामा सुसमीचीनं अर्थाव्यभिचारि नारायणेति नाम यस्य सः । ना परमपुरुषः त्वं मा मवेत्यर्थः ।) (सुखतीर्थपूजित इत्यत्र अवकतीर्थपूजित इति पाठे अव । कतीर्थपूजित इति च्छेदः कं सुखं केन काय वा तीर्थं यस्य स कतीर्थः तेन मया पूजितस्सन् ज्ञानेच्छाभक्तिभिर्विशिष्टं मामवेत्यर्थः) ॥ ८१ ॥

सुराशिखामणिमध्वविनिर्मितं यमकभारतमेतदशेषतः ।विवरितुं नहि शक्यमथापि तत्करुणया कृतिरीषदियं मया ॥
व्यासं सर्वगुणावासं वासवीनन्दनं प्रभुम् ।श्रीनिवासं सदा वन्दे भासमानं हृदम्बरे ॥
इति श्रीवेदेशतीर्थपूज्यपादशिष्ययदुपतिना विरचिता श्रीमद्यमकभारतटीका समाप्ता